Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
द्वात्रिंशिका ]
अध्यात्मबिन्दुः
पान्थो भुञ्जन् क्षुण्णिवृत्तिजन्यं सुखं मन्यते परं तत्सुखं तु दुःखानुषक्तं सुखाभासमेव तस्मिन् दुःखांशस्यैवाधिक्यात्तथैव वैषयिकमन्यदपि सांसारिकं सर्वं सुखं सुखाभासमेव । यदुक्तं - 'न हि सुखं दुःखेन विना लभ्यते' इति, पारिशेष्यात् सांसारिकं सुखं दुःखाविनाभूतमिति व्यक्तमेवातस्तदर्थं प्रयासं विहाय निरतिशयैकान्तिकात्यन्तिकमोक्षसुखार्थं प्रयास आदरणीय इति ॥२७॥
सांसारिकसुखानां दुःखानुषक्तत्वमुक्त्वा तत्रासक्तेरनर्थकारित्वमुपदिशन्नाह भोगेष्वश्रान्तविश्रान्तिर्धियः क्षेमङ्करी न हि ।
५७
पन्नगीव नयत्येषाऽतुच्छां मूर्च्छा यदात्मनः ॥२८॥
पद्मप्रभा० 'भोगेष्वित्यादि, भोगाः तत्तत्शब्दादिविषयजन्यसुखानि तेषु 'अश्रान्तविश्रान्तिः ' अश्रान्तमविरतमनवरतं 'विश्रान्तिः '- प्रसक्तिरिति, कस्येत्याहधियः- मनोवृत्तेः 'न हि' नैव 'क्षेमङ्करी' - सुखकरी हितकरी शुभानुबन्धिनीति यावत् । 'यद्' - यस्मात् कारणात् यैषा भोगेष्वश्रान्तविश्रान्ति:, 'आत्मनः ' जीवस्य स्वरूपस्याप्यज्ञानजनकत्वात्' अतुच्छंछं' अतिगाढामतिदीर्घं च' मूर्च्छा'- मूढतां'नयति'प्रापयति । अत्रोदाहरणं- 'पन्नगीवे 'ति पन्नगी - सर्पिणी यथा स्वविषयं महतीं मूर्च्छा मृत्युरूपां प्रापयति तया यथा देही स्वरूपाच्च्युतो भवति तथैवात्मा भोगप्रसक्त्येति, अतः सुष्ठुक्तं क्षेमङ्करी न हीति ॥२८॥
दर्शितविपाकेषु भोगेष्वविरतासक्तमपायं प्रदर्श्वोपदिशि
यदुच्चैः पदतः पातः, सोऽनुभावो विभावजः । तत्रैवाविरतं सक्तिं, श्रयन्नद्यापि न खिद्यसे ॥ २९ ॥
पद्मप्रभा० ‘यदुच्चै 'रित्यादि, 'यत्' - यस्माद्धेतोः 'उच्चैः ' उत्कृष्टात् स्वभावसमवस्थानरूपान्महतः प्रयासादेव साध्यात्' पदतः ' स्थानात् स्थितेरित्यर्थः 'पातः ' पतनमधोगमनं संसारित्वरूपौपचारिकावस्थाप्राप्तिरिति यावत् । स यच्छब्दनिर्दिष्टः पातः पातरूप:‘सोऽनुभावः' (परिणामः) प्रभावो माहात्म्यं, 'विभावजः ' - रागादिविभावजन्य एवं ज्ञात्वाऽपि 'तत्रैव' विभावेष्वेव, अत्रैवकारेण स्वभावव्यवच्छेदस्तादृशविभावानां नितरां हेयत्वं ध्वन्यते यतश्च पातस्तत्रैवासक्तिरित्यहो मूढतेत्यपि च । 'अविरतं' सततं 'सक्ति' आसक्तिं रागभावमित्यर्थः ' श्रयन्' - कुर्वन् 'अद्यापि' जगत्तत्त्वावगमानन्तरमपि न -

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122