Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 57
________________ ५६ अध्यात्मबिन्दुः [द्वितीया - 'तथा' तत्प्रकारेणैव देहादिसंपृक्तत्वेन दृश्यमानो आत्माऽयं'ऽयमात्मा पुष्करपलाशवन्निर्लेपः 'स्वभावेन' तथास्वाभाव्येन हेतुना'नस्पृष्टो' न सम्पृक्तः, कैरित्याह - 'कर्मपुद्गलैः' कार्मणपुद्गलैः । आत्मनो हि तथास्वाभाव्यं तस्मात् पुद्गलेन सह न सम्बध्यत इति । यदुक्तं ज्ञानसारे विद्याष्टके - मिथोयुक्तपदार्थाना-मसङ्क्रमचमक्रिया। चिन्मात्रपरिणामेन, विदुषैवानुभूयते ॥७॥( ) अयमाशयः - निश्चयेन सर्ववस्तु स्वप्रतिष्ठमेवं च द्रव्ययोः संयोग औपचारिक एवातिसामिप्यनिमित्तः । एवं च कर्मात्मनोऽपि संयोग उक्तरीत्योपचरित एव । वस्तुतस्त्वात्मा स्वप्रतिष्ठः कर्मपुद्गला अपि तथैव, यथा पद्मिनीपत्रस्य जलबिन्दोश्चोक्तसंयोगस्य सत्त्वेऽपि स्वप्रतिष्ठा अक्षुण्णाऽत एव पद्मिनीपत्रस्य क्लेदाभावस्तथैवात्मनोऽपि कर्मसम्बन्धाभावोऽत आत्मा सर्वदा शुद्धरूप एव । संसारित्वादिभावस्तूक्तोपचाराश्रयणादिति ॥२६॥ ननु सांसारिकं सुखमपि सुखमेवोपस्थितं तत् त्यक्त्वा चानुपस्थितमोक्षसुखार्थं च प्रयास इति सिद्धानपरित्यागेन भिक्षाटनप्रयासवदेव प्रतिभातीति चेन्न, सांसारिकसुखस्य दुःखमिश्रिततया सुखाभासत्वादित्याशयेनाह - सौख्यं सांसारिकं दुःखानुषक्तं व्यक्तमध्वनि । ग्रीष्मे पान्थस्य मध्याह्ने, मरौ पक्त्वैव खादतः ॥२७॥ पद्मप्रभा० 'सौख्य'मित्यादि, सुखमेव सौख्यं तच्च ‘सांसारिकं' वैषयिकमित्यर्थः। 'दुःखानुषक्तं' दुःखात्मकमित्यर्थः, 'व्यक्तं'-स्पष्टमनुभूयमानं क्वेत्यपेक्षायामुदाहरणमाह - 'अध्वनि' इति मार्गे, कालमाह-'ग्रीष्मे' निदाघे तत्रापि 'मध्याह्ने'-दिवसस्य मध्यभागे तरणितापोत्कर्षसमये, तापोत्कर्षदर्शनार्थमेव स्थलमाह'मरौ'-मरुदेशे पक्त्वा' अन्नादिकं संसाध्य 'खादतः' भक्षयतः 'पान्थस्य' पथिकस्य यथा सुखं दुःखानुषक्तं तथेति। इदमत्र गुह्य-ग्रीष्मे मरुदेशेऽध्वनि सूर्यतापातिशयः सर्वजनवेद्यः । क्षुदो जाठराग्नेरुपशमनमात्रं, न पुनः सुखविशेषं, न वा दुःखमात्रस्य निवृत्तिः, ग्रीष्मादितापस्य तु अनिवृत्त्या तदवस्थत्वादेव, यत् सुखलेशानुभवः स सुखाभासः, दुःखसंमिश्रता एव वा, न पुनः तात्त्विकः सुखानुभवः इति भावः । मध्याह्ने त्वन्यत्रापि तापातिशयस्तर्हि का वार्ता मरुदेशस्य? तत्रापि पाकक्रियायां वह्निसंनिधानाद्वर्धमानस्तापोत्कर्षस्तथापि तत्र क्षुत्पीडितः

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122