Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
अध्यात्मबिन्दुः
[ द्वितीया
तृप्तिप्रदत्वमिति ध्वन्यते । अत्र दृष्टान्तमाह - 'इव 'यथा 'पोत्रिणः ' - शूकरा 'जम्बालैः ' - कर्दमैस्तृप्तिं मन्यन्ते तथा स्वात्मोत्थानन्दास्वादहीना जीवा विषयैस्तृप्तिं मन्यन्ते । जम्बाला हि शरीरेषु लग्नाः शूकरान् विरूपयन्त्येव तथापि ते तत्र जम्बाले सुखबुद्धिं कुर्वन्ति तद्वदित्याशयः ॥२२॥
५४
दुर्धियां विषयेषु वृत्तिमुक्त्वा सुधियां तत्र तामाह
प्रत्यग्ज्योतिःसुखास्वादनिष्ठनैष्ठिकदृष्टयः ।
विषयान् हन्त ! पश्यन्ति, कुत्स्यवल्लवदप्रियान् ॥२३॥
पद्मप्रभा० ‘प्रत्यगि’त्यादि, प्रत्यग्ज्योतिरन्तरात्मा तस्य यत्सुखं तज्जन्याखण्डानन्दस्तस्यास्वादोऽनुभवस्तन्निष्ठा तत्र स्थिता - तदेकताना नैष्ठिकी - निष्ठावती दृष्टिर्बुद्धिर्येषां ते सुधियः । ‘विषयान्' शब्दादीन् - लौकिकक्षणिकसुखप्रयोजकान् प्रति 'हन्ते 'ति याथातथ्ये, तेन इत्थमेव (ईदृशीरेव) स्थितिर्दृष्टिः, सुधियां भवतीति भावः । 'कुत्स्यवल्लवन्’'निन्दनीयान् - 'अप्रियान् 'सुखकरान् 'पश्यन्ति' - अवबुद्ध्यन्त इति ।
इदमत्र बोध्यं - एकः प्रत्यग्ज्योतिरात्माऽपरश्च पराग्ज्योतिरात्मा । अत्र ज्योतिः शब्देन सप्रकाशः प्रकाशरूप आत्मोच्यते । स यदा बहिर्मुखप्रवृत्तिकस्तदा स पराग्ज्योतिः कथ्यते । यदा तु अन्तर्गतशुद्धरूपस्तदा स प्रत्यग्ज्योतिः कथ्यते । ये तु सुधिय आत्मारामास्तेषां विषयेषु न रतिः प्रत्युत विरतिरेव । तेषां ते विषया न प्रियाः प्रत्युत कुत्स्या हेयाश्च भान्ति । ये तु बहिर्मुखास्ते तु विषयाभिनन्दिन आत्मस्वरूपमपश्यन्तो हेयान् कुत्स्यानपि विषयानेव बहुमन्यन्त इति भावः ॥२३॥
ये तु आत्मपरास्तेषां परमनिर्वृतिलाभ इत्याह
-
शुद्धं ब्रह्मेति संज्ञान- सुधाकुण्डसमाप्लुताः । धौतकर्ममलाः सन्तो, निर्वृतिं परमां श्रिताः ॥२४॥
पद्मप्रभा० 'शुद्ध'मित्यादि, 'शुद्धं'-निर्मलं कर्ममलरहितं' ब्रह्मेति 'आत्माऽहमिति यत् ‘संज्ञान-सुधाकुण्डसमाप्लुताः ' संज्ञानं - सम्यग्ज्ञानं तदेव सुधायाः कुण्डमिव कुण्डं तद्वदेवालौकिक- सुखप्रदत्वात्तस्मिन् समाप्लुता सम्यक्स्नाता तत्र निमग्नेति यावत् । शुद्धात्मसंज्ञानसुधाकुण्ड-समाप्लुता अत एव 'धौतकर्ममलाः ' धौतं परिक्षालितं कर्मैव मलिनीकारणत्वात् मलं यैस्ते तादृशा जाताः । यथामृतकुण्डे स्नातस्य सर्वशारीरमल

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122