Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 54
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः स्वरूपार्पितदृष्टीनां, शक्रत्वेऽपि स्पृहा न हि। स्वरूपानर्पितदृशां, पदेऽल्पेऽपि महादरः ॥२१॥ पद्मप्रभा० स्वरूपे' त्यादि, स्वरूपे' स्वस्यात्मनो रूपे सच्चिदानन्दमये स्वभावे 'अर्पितदृष्टीनां' अर्पिता न्यस्ता स्थापिता दृष्टिर्बुद्धिर्यैस्तेषामात्ममात्रैकलीनानामात्मारामानामिति यावत् । 'शक्रत्वेऽपि' लोकदुर्लभे शक्रस्य-इन्द्रस्यैश्वर्येऽपि विनश्वरत्वेन कर्माधीनत्वेन च स्पृहा न हि'आकांक्षा नैव भवति । कथं चेदाह-शनैश्वर्यसुखादप्यात्मसुखास्वादस्यानन्तगुणितत्वात् । यदुक्तं - जं च कामसुहं लोए, जं च दिव्वं महासुहं। वीयरायसुहस्स य, णंतभागं पि णग्घइ ॥- (बृहत्संग्रहणी) तल्लाभे तदपेक्षयात्यन्ताल्पतरलाभस्वरूपशकैश्वर्यलाभस्य स्पृहा कस्य सचेतसः स्यात् ? अपि तु न कस्यापि सचेतसः स्यादिति भावः । अथ विपक्षे वैषम्यमाह'स्वरूपानर्पितदृशामिति स्वरूपेऽऽत्मनः सच्चिदानन्दस्वभावेऽनर्पिता दृग्-दृष्टियस्तेषां देहादिषु स्वत्वाभिमानिनां पदेऽल्पेऽपि' राजपुरुषादावतितुच्छे पदेऽपि स्थानेऽपि महादरः' महती स्पृहा भवतीति शेषः । अपीत्यनेन शक्रत्वादावत्युच्चे लोकदुर्लभे पदे तु सुतरामादरातिशयो भवतीति द्योत्यते । देहादिषु स्वत्वाभिमानिनोऽतितुच्छेऽपि वस्तुनि महती स्पृहेति महान्-विनिपातस्तस्मात् मुमुक्षुभिः स्वरूपार्पितदृष्टिनैव भाव्यमिति भावः ॥२१॥ ननु विषयास्तु विषसन्निभाः सन्ति तर्हि कुतस्तत्र जीवानां प्रवृत्तिरित्याशङ्कायामाह अनादिभ्रष्टस्वात्मोत्थानन्दस्वादा हि दुर्धियः । मन्यन्ते विषयैस्तृप्ति, जम्बालैरिव पोत्रिणः ॥२२॥ पद्मप्रभा० 'अनादी'त्यादि, अनादिकालतो ये भ्रष्टाश्च्युता वियुतेति । कुतः वियुता इत्याह-स्वस्वरूपार्पितबुद्धरात्मन आविर्भूतस्यानन्दस्य स्वादतो वियुताः स्वात्मोत्थात्मानन्दास्वादहीना इत्यर्थः । 'हि' निदर्शने, किं निदर्शयतीत्याह- 'दुर्धियः' आत्मज्ञानहीना देहादिषु स्वत्वाभिमानिनो यतो दुर्धियस्ततस्तादृशस्वादहीना इति दृष्टव्यम् । एतादृशा जीवाः शब्दादिरूपै विषयैस्तृप्ति'-सुखं मन्यन्ते जानन्ति कल्पयन्तीत्यर्थः । अत्र 'मन्यन्त' इत्युक्त्या तेषां जीवानां विषयेषु केवलं तथा मतिरेव न पुनर्विषयाणां

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122