Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 53
________________ अध्यात्मबिन्दुः [ द्वितीया ध्यायामीति यावत् । देह्याध्यासं त्यक्त्वैष स्वस्वरूपावस्थानस्थितिलाभो भवति जीवस्येति तात्पर्यम् ॥१८॥ ५२ देहे आत्मबुद्धिरूपविपर्ययस्य कारणं दर्शयन्नाह - मांसास्थ्याद्यशुचिद्रव्यात्, स्वयमेव जुगुप्सते । तदेवात्मतया हन्त !, मन्यतेऽज्ञानसंस्कृतः ॥१९॥ पद्मप्रभा० 'मांसे' त्यादि, 'मांसं' अस्थि च, आदिशब्देन मलमूत्रादिग्राह्यम् । एतादृगशुचिद्रव्यात् हेतोरात्मा स्वयमेव यं देहं जुगुप्सते तमेव जुगुप्सनीयं देहं 'हन्ते 'ति खेदे' अज्ञानसंस्कृतः’- अज्ञानवासनावासितः सन् आत्मतया - आत्मेति मन्यते । तदेतद्धन्त खेदातिशयस्य विषयः । यत्र जुगुप्सा तत्रैव स्वता । इत्यतः परं किमन्यत्खेदजनकं स्यात् ? न हि बालोऽपि जुगुप्सितं स्वं मन्यत इति भावः । निःशङ्कं जुगुप्सनीये देहेऽऽत्मबुद्धिरित्येतत्त्वज्ञानस्यैव प्रगल्भप्रागल्भ्यमिति निष्कर्षः ॥१९॥ संसृतेः-संसारपरिभ्रमणस्य बीजं - कारणं किं तद्दर्शयन् तत्त्यागोपदेशं च कुर्वन्नाहतटस्थः पश्य देहादीन्, मैषु स्वीयधियं सृज । स्वत्वाभिमानो ह्येतेषु, संसृतेर्बीजमग्रिमम् ॥२०॥ पद्मप्रभा० 'तटस्थः 'इत्यादि, 'तटस्थ' मध्यस्थ उदासीन उपेक्षामाश्रितो वैराग्यभावनाभावितः सन् ‘पश्य' अवलोकय । कानित्याह-‘देहादीन्’-देहेन्द्रियधनधान्यमातृपितृपुत्रकलत्रभ्रातृ - प्रभृतीन् सर्वान् । अथ पारिशेष्याल्लब्धमर्थमाह- 'एषु' - एतेषु देहादिषु ‘स्वीयधियं’-इमे मम स्वीया इत्येवं बुद्धि'मा सृज'मा कुर्विति । ननु किमिति ताटस्थ्येन देहादिषु अवलोकन - स्वत्वबुद्धित्यागोपदेशश्च भवतामिति चेत्तत्राह - 'हि’यत ‘एषु' देहादिषु‘स्वत्वाभिमानो' स्वत्वाभिमानिनामस्वेऽपि या स्वत्वबुद्धिः सैव‘संसृतेः’ संसारस्य 'बीजं' - निदानं तदपि 'अग्रिमं' आदिमं कारणमिति । तदुक्तं - अनित्ये धनदेहादौ, नित्यत्वेन ममेति च । अज्ञानेनावृता बुद्धि-र्मोह इत्यभिधीयते ॥ ( स च संसारस्य कारणमिति च वाचोयुक्तिमपेक्षते ॥२०॥ ) ननु देहादिषु स्वत्वबुद्धित्यागे कथं भवतामियान्महानादर इत्यत आह

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122