Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 66
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ६५ पद्मप्रभा० 'कर्मभ्यः' इत्यादि, 'कर्मभ्यः' कर्मणां ज्ञानावरणाद्यष्टविधानां सकाशात् तथा कर्मकार्येभ्यः' कर्माणि उक्तानि तेषां कार्याणि देहादीनि सुखदुःखरूपाणिं वा तेभ्यः 'पृथग्भूतं' भिन्नं, अत्र हेतुग विशेषणमाह - 'चिदात्मकं' चिदेकस्वभावं यतश्चात्मा चित्स्वभावस्ततश्च कर्मादिभ्यो भिन्न इति भावः । अथ विशेष्यमाह - 'आत्मानं' शुद्धस्वरूपं चेतनं 'भावयेत्' पुनः पुनश्चिन्तयेत् 'नित्यं' निरन्तरं यावन्नात्मलाभो नात्मसाक्षात्कारस्तावदित्यर्थः । फलगर्भ विशेषणमाह - 'नित्यानन्दपदप्रदं' नित्योऽप्रतिपाती यः केवलानन्दस्तस्य यत्पदं सिद्धशीलादिपदं तत्प्रददातीति तादृशम् । अयं भावः - आत्मैव शुद्धरूपश्चिन्तितो मोक्षाय भवतीति ॥८॥ शुद्धात्मभावनापूर्वकं रागादिक्षपणमाह एको वै खल्वहं शुद्धो, निर्ममो ज्ञानदृङ्मयः । स्वस्वरूपे निमज्ज्य द्राग्, रागादीन् क्षपयाम्यमून् ॥९॥ पद्मप्रभा० 'एको' इत्यादि, ‘एको' केवलः परपुद्गलाद्यसम्पृक्त इत्यर्थः, अत एव 'शुद्धः' कर्ममलरहितो यत्र मलसम्बन्धः स न शुद्धस्तदभावाच्च शुद्ध इव शुद्धः । "वै खल्वि'ति अव्ययसमुदायो निश्चये, निश्चयत आत्मा एकः शुद्धश्चेति प्राग् प्रतिपादितमेव । न तु शुद्धस्य रागादिसम्बन्धोऽन्यत्र सम्भाव्यत इत्याह- 'निर्ममो' इति परपदार्थेषु ममेत्येवं वासनाशून्यो यो हि शुद्धः स वासनाशून्यो भवत्येवेति स्वरूपविशेषणमेतदीदृशश्च न चर्मचक्षुषा ग्राह्य इत्याह - 'ज्ञानदृङ्मयः' - ज्ञानमेवात्मोपलम्भसाधनत्वात् दृगिव दृष्टिरिव तन्मयश्चिदेकस्वभाव इत्यर्थः, ज्ञानदृष्ट्यैव हि इदृश आत्मा लभ्यो नान्यथा । नन्वीदृशः क इत्याकाङ्क्षायामाह - 'अहमिति ज्ञानविषयः आत्मा । 'स्वस्वरूपे' स्वस्यात्मनो यत् स्वरूपं चिदानन्दरूपं तत्र 'निमज्ज्य' नितरां मग्नो भूत्वा निरन्तरं तदेकतान इत्यर्थः 'द्राग्' शीघ्रमेव 'रागादीन्' रागद्वेषप्रभृतीनन्तरङ्गारी नमून्' शुद्धज्ञानदृष्ट्या विप्रकृष्टान् 'क्षपयामि' - निरस्यामि । अयं भावः यावन्न नैरन्तर्येण शुद्धात्मचिन्तनं न तावत् रागादिनिरास इति । यद्यात्मिकलाभ इष्यते तर्हि शुद्धात्मचिन्तनपरायणेन भवितव्यमिति ॥९॥ सुवर्णदृष्टान्तेन चिदेकात्मत्वमात्मनो भावयति - पीत-स्निग्ध-गुरुत्वानां यथा स्वर्णान्नभिन्नता । तथा दृग्-ज्ञान-वृत्तानां निश्चयान्नात्मनो भिदा ॥१०॥

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122