Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
द्वात्रिंशिका]
अध्यात्मबिन्दुः शुद्धिस्तथैव सुधात्मकज्ञानमग्नस्य सर्वकर्मपरिक्षालनं भवतीति भावः । ततश्च ते सम्यग्ज्ञानसुधाकुण्डसमाप्लुता धौतकर्ममला: ‘परमां' निरतिशयां 'निर्वृति' शान्ति सुखं मोक्षं "श्रिताः' - प्राप्ताः सन्ति । शुद्धात्मध्यानात् कर्ममलापाकरणेन निर्वृतिलाभ इति तदेव विधेयं धीमद्भिरित्याशयः ॥२४॥ प्राक् संसृतेर्बीजमुक्तं मुक्तेर्बीजं किमिति जिज्ञासानिवृत्तये तद्बीजमाह
स्वरूपालम्बनान्मुक्ति-र्नान्यथाऽतिप्रसङ्गतः ।
अहमेव मयोपास्यो, मुक्ते/जमिति स्थितम् ॥२५॥ पद्मप्रभा० स्वरूपे'त्यादि, स्वरूपालम्बनात्' स्वरूपं चिदानन्दमयः शुद्धात्मा, तस्यालम्बनात् - आश्रयणात्पुनः पुनस्तस्य चिन्तनाद्ध्यानादित्यर्थः । 'मुक्तिः' स्वरूपावस्थानं कर्मबन्धविच्छेदश्चेति, मुक्तिम्प्रत्यात्मज्ञानमेव हेतुरित्याशयः । नान्यथे'ति आत्मज्ञानं विना न मुक्तिप्राप्तिः 'अतिप्रसङ्गतः' अतिव्याप्त्यापत्तेः । आत्मज्ञानं विनाऽपि सा मुक्तिः स्यात् तत्तु न सङ्गतं न चेष्टम् । अथ मुक्तिकारणज्ञानस्य स्वरूपमाह - 'अहमेव -मयोपास्यो' इति, अहं शुद्धचिदानन्दस्वरूप आत्मा स एव मया मुमुक्षुणोपास्यः - सेवनीयश्चिन्तनीय इति यावत् । इत्येवं प्रकारो व्यवसायो 'मुक्ते/जमिति स्थितम्' देहे स्वत्वाभिमानिनां मुक्त्यलाभादात्मज्ञानिनां च तल्लाभस्य निर्विवादत्वात् मुक्तिं प्रति शुद्धात्मज्ञानालम्बनमवन्ध्यो हेतुरिति सिद्धम् ॥२५॥
ननु शुद्धात्मस्वरूपमेव दुर्लभमनादिकालत एव कर्मण आश्लेषादेवं च शुद्धस्य तस्याभावात्तादृशतद्विषयकज्ञानवार्ता वार्तामात्रमिति चेन्न, आत्मनस्तु सदा सर्वदैव शुद्धत्वादित्याह -
यथैव पद्मिनीपत्र-मस्पष्टं तोयबिन्दुभिः ।
तथाऽऽत्माऽयं स्वभावेन, न स्पृष्टः कर्मपुद्गलैः ॥२६॥ पद्मप्रभा० 'यथैवे'त्यादि, यत्प्रकारेणैव 'पद्मिनीपत्रं' नलिनीदलं, 'अस्पृष्टं' - असम्पृक्तं असम्बद्धमिति यावत् । कैरित्याह - 'तोयबिन्दुभिः' - जलबिन्दुभिः, प्रसिद्धमेतन्निदर्शनं - पद्मपत्रे स्थितोऽपि जलबिन्दुनै पद्मपत्रं क्लेदयति, पद्मपत्रस्थितोऽपि बिन्दुः पद्मपत्रेन सम्बन्धं न प्राप्नोति, पद्मपत्रस्य तथा निर्लेपस्वाभाव्यात् । क्लेदो हि जलसम्बन्धजन्यः । यदि जलसम्बन्धः स्यात् तदावश्यं क्लेदः स्यात् । अत्र दार्खान्तिकमाह

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122