Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 49
________________ ४८ अध्यात्मबिन्दुः ___ [द्वितीया व्याप्यव्यापक-भावाभावे 'द्रव्यकर्मकर्तृत्वं' द्रव्यकर्मणः कर्तृत्वं बन्धकत्वं 'कथमिति आक्षेपार्थे घटते' सङ्गतं भवति ? न भवत्येवेत्यर्थः, किञ्च कर्तृकर्मणो व्याप्यव्यापकभावो यदि न स्वीक्रियते तर्हि कर्तारं विना अन्योऽपि कश्चित् कर्मफलभोक्ता स्यात्, तस्मादेव येन का सह यस्य कर्मणो व्याप्यव्यापकभावो विद्यते स एव कर्ता, तस्य कर्मणःफलं लभते इति नियमः सिद्ध्यति, अत एव कर्तृकर्मणोाप्यव्यापकभाव इष्ट एव । परं द्रव्यकर्मकोंश्च व्याप्यव्यापकभावो नास्ति । ततश्च तादृशकर्मकर्तृत्वमप्यात्मनो न घटते तेनैव च भोक्तृत्वमपि न घटते इत्याकूतम् ॥१०॥ ननु जीवद्रव्यकर्मणोः कथं न व्याप्यव्यापकभाव इत्याशङ्कायामाह तदात्मनि भवेद् व्याप्त-व्याप्यता नातदात्मनि । तदभावे कथं कर्तृ-कर्मता जीवकर्मणोः ॥११॥ निमित्तनैमित्तिकते, कर्माऽत्मपरिणामयोः । तस्मादस्तु भ्रामकाश्मायसकृत्योरिव स्फुटम् ॥१२॥ पद्मप्रभा० जीवकर्मणोः व्याप्यव्यापकभावो न घटते कथमित्याह - 'तदात्मनीति' अभिन्ने वस्तुनि व्याप्यव्यापकभावो 'नातदात्मनि' न तु भिन्ने वस्तुनि स इति नियमः, एतन्नियमेन जीवभावकर्मणोश्च व्याप्यव्यापकभावो, जाघटीति भावकर्मणो जीवपरिणामत्वात् तयोरभिन्नत्वादिति । जीवभावकर्मणोळप्यव्यापकभावात् जीवे भावकर्मणः कर्तृत्वं तत्फलभोक्तृत्वमपि संघटते तदभावे नेत्याह - 'तदभावे' इति व्याप्यव्यापकभावस्याभावे सति 'द्रव्यकर्मकर्तृत्वं' द्रव्यकर्मणः कर्तृत्वं बन्धकत्वं 'कथं' केन प्रकारेण 'घटते' सिद्ध्यति ? न सिद्ध्यतीति भावः । इदमत्र बोध्यम् - द्रव्यकर्मात्मनो भेदसम्बन्धः किन्तु भेदसम्बन्धोऽत एव तयोर्न व्याप्यव्यापकभावो व्याप्यव्यापकभावाभावाच्च कथं जीवद्रव्यकर्मणोः कर्तृकर्मभावः? अर्थात् व्याप्यव्यापकभावस्यैव कर्तृकर्मभावनियामकत्वात् तदभावे जीवद्रव्यकर्मणोः कर्तृकर्मभावो न सिद्ध्यतीति ॥११॥ अत्रोत्तरमाह"निमित्तनैमित्तिकते' इत्यादिना निमित्तनैमित्तिकभावः कयोरित्याह कर्मात्मपरिणामयोः' कर्मणः द्रव्यकर्मण आत्मपरिणामस्य च तयोर्द्वयोरित्यर्थः । अत्र दृष्टान्तमाह'भ्रामकाश्मायसकृत्योरिवे'ति भ्रामकाश्मा-चक्रभ्रमिकारणम् - तादृशविलक्षणशक्तिरचनादिविशिष्टः पाषाणविशेषः यदुपरिस्थितमायसं (राधावेधसत्कं)चक्रं बम्भ्रमीति ।

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122