Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 47
________________ ४६ अध्यात्मबिन्दुः [द्वितीया कर्मजीवयोः सम्बन्धो यद्यनादिरिति कथ्यते जैनैस्तर्हि स सम्बन्धोऽनन्तोऽपि स्यात्, अनादिभावस्यानन्तत्वनियमात्, अत्र दृष्टान्तमाह-खात्म-योगवद् यथाकाशात्मनोः संयोगोऽनादित्वादनन्तस्तद्वत् कर्मजीवयोः संयोगोऽपीति तर्ककर्कशशेमुषीभिर्न ऊहनीयमिति॥६॥ अत्रोत्तरं-अनादिर्भावोऽनन्त इति न नियमः, अनादित्वेऽपि' आदिरहितत्वेऽपि भावस्य' पदार्थस्य 'ध्वंसः' नाशः 'स्यात्' भवेत् 'हेतुसन्निधेः' निमित्तानां संनिधानात् ध्वंसस्य कारणानां लाभादित्यर्थः । अत्र दृष्टान्तः - 'सुवर्णमलवदिति यथा खनौ सुवर्णमनादित एव मलसम्पृक्तं भवति पश्चादग्नितापेन कचवरं प्रज्वाल्य विशुद्धं क्रियते तद्वद् । अयमाशयः- नहि अनादिभावोऽनन्त एवेति नियमः स्वीकारयोग्य एकान्तेन योग्यः सुवर्णमलसंयोगस्यानादित्वेऽपि वयादिहेतुसमवधाने संयोगनाशदर्शनात, किञ्च-अत्रैव दाढाय दृष्टान्तान्तरमाह-'भव्यसंसारपरिणामवत्' भव्यस्य मुक्तिगमनयोग्यस्य जीवस्य संसारपरिणामवत् - संसारात्मकजन्मादिपरिणामवत् रागादिपरिणामवद्वा, यथा भव्यात्मनो जन्मादिरागादिरूपसंसारपरिणामोऽनादिमान् तथापि सम्यग्दर्शनादिहेतुभिस्तस्य नाशोऽपि सञ्जायते तद्वत् कर्मजीवयोरनादिसंश्लेषस्यापि ध्वंसः सुतरां घटते तन्नैतद् विषये तार्किकाणां कुतर्ककरणावकाशः । अत एवानादिभावस्यानन्तत्वमिति नियमो व्यभिचारदूषणाद्धेय इत्याशयः ॥७॥ अथ शुद्धनिश्चयनयेनात्मनः कर्तृत्वं दर्शयन्नाह - कर्ताऽयं स्वस्वभावस्य, परभावस्य न क्वचित् । कर्तात्मेति श्रुतिः साक्षात्, यत्स्वभावक्रियापरा ॥८॥ पद्मप्रभा० 'कर्ताऽय'मित्यादि, 'कर्ता'-क्रियायां स्वातन्त्र्येण अधिकृतोऽर्थः 'अयम्' आत्मा प्रत्यक्षतयानुभूयमानः 'स्वस्वभावस्य' स्वस्य-आत्मनः स्वभावस्यसम्यग्ज्ञानादिस्वरूपस्य 'परभावस्य' ज्ञानाद्यतिरिक्त-घटपटदेरिव कर्मबन्धादेरिति 'न' इति निषेधे, आत्मा स्वस्वभावस्य कर्ता न परभावस्येति भावः । ननु 'आत्मा कर्ते 'ति श्रुतिः सामान्यतयैवात्मनः कर्तृत्वं बोधयति, एवं च घटपटादिकर्तृत्वमप्यात्मनः समायातमेव तथा च व्यवहारः कुम्भारः कुम्भं करोतीति चेद् अत्रेदं बोध्यं - नयो द्विविधो निश्चयो व्यवहारश्च । तत्र निश्चयनयेनात्मा न परभावस्य कर्ता किन्तु स्वभावस्यैव, परभावकरणे तस्य सामर्थ्याभावात् । एवं चोक्ता श्रुतिनिश्चयनयापेक्षया ज्ञानादिस्वस्वभावकर्तृत्वाभिप्राये

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122