Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 45
________________ अध्यात्मबिन्दुः [ द्वितीया पद्मप्रभा ० 'अविद्ये 'ति, अविद्या मायारूपा 'हि' शब्दोऽप्यर्थे तेन वेदान्तसम्मताऽप्य-विद्येत्यर्थः । 'विकारित्वं' विकारभावं विकृतत्वं' जनयेत्' उत्पादयेत्। कस्य विकारित्वमुत्पादयेदित्याह - 'आत्मनो' जीवस्य । सा ह्यविद्या कीदृशी विकारभावं जनयेदित्याह-‘सती' सा हि अविद्या यदि सत्स्वरूपा स्यात् तर्हि विकारभावं जनयेत् । विपक्षे बाधकमाह' नासती' न असती असत्स्वरूपा विद्या जीवस्य विकारभावं जनयेदिति। अत्र दृष्टान्तं दर्शयितुमाह ‘गगनाब्जस्येव' गगनारविन्दस्येवाऽकस्मात् कारणादित्याह 'असतोऽर्थक्रियाच्युतेः' असत्पदार्थस्यार्थक्रियाकारित्वाभावात् । अयमर्थःयथाऽसत्स्वरूपे गगनारविन्देऽर्थक्रियाकारित्वं स्वप्नायमानमेव तथा वेदान्तिनां मताऽविद्या यदि सत्स्वरूपा भवेत्तर्हि तस्यामात्मनः विकारकारित्वं सङ्गच्छेत् परं तैस्तु सा न तथाऽङ्गीकृता परमसत्स्वरूपा खपुष्पप्राया अभ्युपगता । एवं सति तस्यां जीवविकारकारित्व रूपमर्थक्रियाकारित्वं कथं प्रतीतिपथावतारि स्यात् ? यद्यसतोऽप्यर्थक्रियाकारित्वं स्यात् खपुष्पस्यापि तत् स्यात् । तथा चात्र प्रयोगः - अविद्या न विकारकृत् असत्त्वात्, यो ह्यसत् तस्य नार्थक्रियाकारित्वं गगनाब्जवदिति, विकारान्यथानुपपत्त्याविद्यायाः सत्त्वमिष्यते तर्हि कर्मण एव विकारोऽस्तु, अविद्या च कर्मण एव नामान्तरं तस्मादलं गौरवग्रस्तेनाविद्याविकल्पेनेति ध्वनिः ॥४॥ ४४ अविद्यायाः सत्त्वाभ्युपगमे किमित्याह - सत्त्वे द्वैतं ततः कर्म, पौद्गलं तद्विकारकृत् । अनुग्रहोपघातौ यत्, पुद्गलेभ्य इति श्रुतेः ॥५॥ पद्मप्रभा ० 'सत्त्वे' इति, सद्रूपत्वे प्रस्तावादविद्याया इति गम्यते, उपर्युक्तरीत्या विकारान्यथानुपपत्त्या अविद्यायाः सत्त्वस्वीकार इत्यर्थः । अत्रोपपत्तिमाह' द्वैत 'मिति, द्वैतं सिद्धम् । अयं भावः-अविद्या हि वेदान्तिभिरनादिः स्वीक्रियतेऽत्र प्रष्टव्यं किमिदमनादित्वं ? यदि ब्रह्मवदेवादिरहितत्वं तर्हि ब्रह्मभिन्नायाः सदात्मिकाया अविद्यायाः सिद्धिरिति द्वैतं सिद्धमथ प्रवाहतोऽनादित्वं तर्हि प्रवाहे कारणाभावादविद्याया असिद्धिः, ब्रह्मण एव कारणत्वं चेत् शुद्धस्याशुद्धकारणत्वायोगात् वेदान्तिनां कार्यकारणयोरभेदात् ब्रह्मणोऽशुद्धत्वापत्ति श्चेति । 'ततो' द्वैतस्वीकारतः कर्मण एव स्वीकारो जातः । इयाँस्तु विशेषः - अस्माकं कर्म पौद्गलं तदेव च विकारकृत् - विकारकारि, अमूर्तस्यातिरिक्तस्याविद्यापदार्थान्तरस्य

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122