Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 46
________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः ४५ स्वीकारे गौरवात् पुद्गलानां पूर्वोक्तरीत्या विकारकारित्वस्य सिद्धत्वाच्च । तदेत त्सर्वमभिप्रेत्याह-कर्म पौद्गलं तच्च विकारकृदिति । अत्रैव श्रुतिं प्रमाणयन्नाह 'अनुग्रहोपघाता 'वित्यादि 'यद् 'यस्मात्कारणात् 'पुद्गलेभ्यः' पुद्गलानां सकाशात् जीवस्यानुग्रहोपघातौ भवतः, पुद्गला एव शरीरादिरूपेण परिणता जीवानामुपकारका भवन्ति तथा विषादिरूपतया परिणताः पुद्गला एव प्राणोपघातकत्वेनापकारका अपि भवन्ति, तथा चोक्तं तत्त्वार्थसूत्रे - शरीरवाड्मनः प्राणापानाः पुद्गलानाम् (अ. ५-१९) सुखदुःखजीवितमरणोपग्रहाश्च (अ. ५ - २० ) इति सूत्रद्वयेन पुद्गलानामनुग्रहोपघातौ सुतरां सिद्धौ भवतः । अयं भावः - सद्रूपाया अविद्याया: स्वीकारे द्वैतं स्वीकृतं भवति, द्वैतस्वीकारे च कर्मण एव स्वीकारो जातः, तच्च कर्म पौद्गलं तच्च विकारकृत् पुद्गलेभ्यो जीवस्यानुग्रहोपघातौ भवत इत्यनुभवसिद्धं तस्मात् कर्मण एव स्वीकारो युक्तियुक्तो वेदान्तिनामसत्याया अविद्यायाः विकारकारित्वं न युक्तिसहमित्यर्थः ॥५॥ कर्मजीवयोः संश्लेषेऽनन्तत्वं निरस्यन्नाह - अनादित्वादनन्तः स्यात्, संश्लेषः कर्मजीवयोः । खात्मयोगवदित्येवं, प्रवितर्क्यं न तार्किकैः ॥६॥ अनादित्वेऽपि भावस्य, ध्वंसः स्याद्धेतुसन्निधेः । सुवर्णमलवत् भव्य-संसारपरिणामवत् ॥७॥ पद्मप्रभा० 'अनादित्वादिति, आदिरहितत्वात् (व्यक्तिरूपेण कर्मसंयोगस्यादिमत्त्वेऽपि प्रवाहरूपेणानादिमत्त्वमिति जैनमतम् ) 'अनन्तः' अन्तरहितः 'स्यात् ' भवेत् । कः ? इत्याह – 'संश्लेषः ' सम्यग्श्लेषः संश्लेषः संयोगो बन्ध इति यावत् । कयोः ? इत्याह - ‘कर्मजीवयो: ' कर्मणो जीवस्य च परस्परमित्यर्थः । किंवदित्याह - ‘खात्मयोगवत्' खमिति आकाशः, तस्यात्मना सह योगः संयोगः, सो यथाऽनादिः सन् अनन्तस्तथा । अयं भावः - यथात्मना सहाकाशस्य संयोगोऽनादिः सन् अनन्तस्तथा कर्मजीवयोरपि स तथा । अत एव कर्मजीवयोः सम्बन्धो नानादिरिति तार्किकाणां मतमनादित्वेऽनन्तत्वापत्त्या मोक्षासिद्धेस्तेषां मतमनादेः सतो भावस्यानन्तत्वनियमात् । 'इत्येवं' इत्येवं प्रकारं 'प्रवितर्क्यं' प्रकर्षेण विपरीतं तर्कणीयं 'न' इति निषेधे तर्को न कर्तव्य इत्यर्थः-कैः ? इत्याह- 'तार्किकैः ' तर्कणशीलैर्विद्वद्भिः । इदमत्राकूतम् -

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122