Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 43
________________ ४२ अध्यात्मबिन्दुः [द्वितीया अथ कर्तृकर्मप्रकाशनप्रवणामिमां द्वितीयां द्वात्रिंशिकां विरचयन् ग्रन्थकार आह - मूर्छा विषान्मणेर्दाहा - भावो भ्रामकतो भ्रमः । चुम्बकात्कर्षणं चेति, नाना पुद्गलशक्तयः ॥१॥ पद्मप्रभा ० 'मूर्छ' त्यादि, मूर्च्छति मूर्छा-मूर्च्छनं चैतन्यस्य तिरोभावः, भवतीति गम्यते । कस्मादित्याह-विषात्-हालाहलात् तथा 'मणेर्दाहाभावो' इति मणेश्चन्द्रकान्तमणेस्सन्निधानाद्दाहाभावो दाहस्य-ज्वलनस्याभावः, वह्निस्पर्शेन त्ववश्यं दाहो भवति परं वह्निपार्श्वे स्थापितश्चन्द्रकान्तमणिवढेर्दाहकशक्तिमवरुणद्धि, दाहशक्तियुक्तस्यापि वढेर्दाहशक्त्यवरोधनं करोति, तदिदं मणेरद्भुतं सामर्थ्यम् । तथा 'भ्रामकतो भ्रमः' इति चक्रदोलारूपाद् भ्रमणशीलाद्यन्त्राद् भ्रम:- बुद्धिविपर्यासः । किं स्वरूपो विपर्यास इति चेदुच्यतेऽस्थिरस्य स्थिरतया स्थिरस्यास्थिरतया दर्शनरूप इति । तथा'चुम्बकाकर्षणं चेति' चुम्बकादयस्कान्तात्कर्षणमाकर्षणं निकटनयनंलोहशकलस्येति गम्यते। चः समुच्चय इतीति निदर्शन एभिनिदर्शनैरित्यर्थः । 'नाना' इति नाना-विविधा विचित्रा वा 'पुद्गलशक्तयः' इति पुद्गलानां रूपिद्रव्याणां शक्तयः सामर्थ्यविशेषाः सन्तीति शेषः । अयं भावः - विष-मणि - भ्रामक - चुम्बकादि-विश्ववर्तिपुद्गलद्रव्याणां विविधा विचित्रा विलक्षणा इति यावत् शक्तयः सन्ति ॥१॥ सामान्यतः पुद्गलानां नानाविधां शक्तिं दर्शयित्वा कर्मपुद्गलानां शक्तिविशेषं दर्शयन्नाह - ज्ञानावृत्त्यादयोऽप्येते, पुद्गला दृढशक्तयः । जीवशक्तिं बलाद् भङ्क्त्वा, कुर्वन्त्याशु विकारिणीम् ॥२॥ ____ पद्मप्रभा ० 'ज्ञाने' त्यादि 'ज्ञानावृत्त्यादयोऽप्येत' इति, ज्ञानगुणावारका आदिशब्देनानन्तदर्शनानन्तसुख-चारित्राक्षयस्थित्यरूप्यवस्था-गुरुलघ्ववगाहनानन्तवीर्यादिगुणावारकाः सङ्ग्रहीताः, 'अपिः' समुच्चयार्थे, 'एत' इति अतिसंनिकृष्टाः समीपवर्तिन आत्मना सह लोहाग्निवन्निबद्धाः 'पुद्गला' इति कर्मपुद्गलाः कर्माणवस्ते च कीदृशास्सन्तीत्याह 'दृढशक्तयः' प्रकृष्टसामर्थ्यवन्तो जीवेन मिथ्यात्वादिहेतुभिर्गृहीत्वा शक्तिमन्तः कृता इति । यथा औदारिकादिपुद्गलेषु नानावर्णगन्धरसस्पर्शादिरूपवत्त्वं स्वाभाविकं वर्तमानमस्ति तथैव वर्णादिस्वाभाविकगुणवत्सु कर्मपुद्गलेषु जीवन सामान्येन

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122