Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
३८ हर्षवर्धनोपाध्यायनिबद्धः
[प्रथमा तथा विग्रहपञ्चकेन औदारिकादिवपुःपञ्चतयेन वियुतम् अनेकपरमाणुद्रव्यसङ्घातरूपत्वाद् वपुषां भिन्नास्तित्वयोगित्वं सकलप्रामाणिकजनप्रसिद्धमेव । तथा प्रत्ययैः मिथ्यात्वादिभिरपि न स्पृष्टं मिथ्यात्वादीनां पौद्गलिकत्वेन भिन्नद्रव्यत्वात्, चैतन्यविकाररूपाणामपि निश्चयतः शुद्धात्मन्यसम्भवात् । अयमर्थः - एते हि इन्द्रियादयः परे भावाः, न चैतेषां यस्य कर्तृत्वं प्रयोक्तृत्वं वा, न चैतैः समं यस्य सम्बन्धः, न चैतेषां स्वामित्वं, यद्धि परद्रव्यसंस्पर्शशून्यं स्वास्तित्वमात्रनियतं निष्कम्पोपयोगरूपमात्मानं बिभ्रत् केवलं ज्ञायकमेव एतदेवाह - शान्तं निरुपद्रवम्, कर्मोत्थविकाराणामभूतार्थत्वात्, शाश्वतम् इति अकार्याकारणत्वात्, तत्त्वं च कुतश्चिदनुत्पन्नत्वात् कस्याप्यनुत्पादकत्वाच्चेति, यद्धि कुतश्चिदुत्पद्यते यच्च किञ्चिदुत्पादयति तद्ध्याद्यन्तवद् दृष्टम् । तथा अक्रियम् इति; क्रिया हि प्रदेशान्तरप्राप्तिहेतुः परिस्पन्दरूपा, सा चोपाधेरुद्भवन्ती तदभावाच्छुद्धात्मनि स्वाभावं गमयति, ततश्च प्रदेशसंवर्तविस्ताराभावान्निष्कम्पप्रदेशपिशुनितपरमसौस्थितमित्यर्थः । तथा निरुपधि उपधीयत इत्युपधिः उपरञ्जककर्मपुद्गलसंश्लेषः ततो निर्गतम् कर्मरहितमित्यर्थः । अथवा प्रकृतिलक्षणं यैरुपधानं स्वीक्रियते तन्मतव्युदासार्थम् इदं विशेषणम् । अत एव प्रविगलत्कर्माष्टकमित्यनेन पौनरुक्त्यम् । तथा द्रव्यान्तरासङ्गतम् इति, द्रव्यान्तराणि स्वतोऽतिरिक्तानि मूर्तामूर्तानि तैरसङ्गतम् लोकवर्त्यपि परद्रव्यैरात्मानमसंपर्चयत् परद्रव्यासंवलितमात्मानं धारयदित्यर्थः । तथा विष्वक्सर्वतः, प्रोल्लसद् विकाशि यद्, अच्चि: केवलज्ञानाख्यं तेजस्तेन परिगतं व्याप्तं निष्प्रतिघविजृम्भितसहजचिच्छक्तिभरनिर्भरमित्यर्थः । तदेव स्वानुभवप्रत्यक्षम् अहम् तत्त्वमस्मि। निरस्तसकलोपाधि स्वसत्तामात्रद्योतितपरभावविवेकं द्रव्यान्तरसंपर्कशून्यं चिच्छक्तिव्याप्तसर्वस्वं परमं तत्त्वमहमस्मीति भावः ॥३१॥ द्वात्रिंशिकार्थमुपसंहरनाहइत्येवं संप्रधार्य द्रुततरमखिलं भेदसंविद्बलेन
जीवाजीवप्रपञ्चं विदलति किल यो मोहराजानुवृत्तिम् । ज्ञानानन्दस्वरूपे भगवति भजति स्वात्मनि स्थैर्यमाशु प्रक्षिप्याज्ञानभावं स भवति नचिराच्छुद्धबुद्धस्वरूपः ॥३२॥
इति अध्यात्मबिन्दौ
सदुपाध्यायश्रीमद्धर्षवर्धनविरचिता
निश्चयव्यवहारप्ररूपणप्रवणा प्रथमद्वात्रिंशिका समाप्ता ॥ १ उपाधेः अभावात् । २ स्वाभावम् क्रियायाः अभावम् ।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122