Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
३६
हर्षवर्धनोपाध्यायनिबद्धः
[प्रथमा भगवदात्मद्रव्यं नित्यव्यक्ततया अन्त:प्रकाशमानमपि कामक्रोधाद्यनेकमोहविकारैरेकीक्रियमाणत्वाद् अत्यन्तं तिरोभूतं सत् स्वस्यानात्मवित्तया आत्मविदां च महात्मनां परमकारुणिकानां परमर्षीणामनुपासनाच्च न कदाचिदपि अनुभूतपूर्वं लब्धपूर्वं चेत्येतल्लाभ एव महान् लाभ इति। तथा यदर्शनाच्च परं दृश्यं नास्ति ग्रामाकरनगरोपवनप्रासादप्रभृतिरमणीयपदार्थदर्शनस्यापारमार्थिकत्वात् सोपरागसंविदाऽध्यवसीयमानत्वेन बन्धहेतुत्वाच्च भगवदात्मदर्शनमेव निःशेषकर्मक्लेशापरामृष्टस्पष्टतरचिदुद्गमनिपीतलोकालोकतया सर्वातिशायीति ॥२९॥ अथ मोक्षमार्गोऽप्येतदतिरिक्तो नास्तीति निरूपयति -
पन्था विमुक्तेर्भविनां न चान्यो
___ यतः परः केवलिभिः प्रदिष्टः । आनन्द-बोधावपि यद् विहाय
पदेऽपरस्मिन्न कदापि भातः ॥३०॥ व्याख्या - केवलिभिर्यतः परो भविनां विमुक्तेः पन्था न प्रदिष्टः । मोक्षमार्गो हि निश्चयव्यवहाराभ्यां साध्यमान एव साधीयस्तां दधाति । तत्र व्यवहारतः
"जीवादिसद्दहणं सम्मत्तं तेसिमधिगमो णाणं । रायादिपरिहरणं चरणं एसो दु मोक्खपहो ॥" ति[समयसार गा० १५५]. निश्चयतस्तु द्दग्-ज्ञप्ति-वृत्तत्रयात्मक आत्मैव मोक्षमार्गः । तदुक्तम् - "दर्शनमात्मविनिश्चितिरात्मपरिज्ञानमिष्यते बोधः । स्थितिरात्मनि चारित्रं कुत एतेभ्यो भवति बन्धः ॥" [ ]
अयमर्थ:- यदा हि सम्यक् (ग्) दर्शन-ज्ञान-चारित्रः स्वभावभूतै: सममङ्गाङ्गिभावपरिणत्यां तत्समाहितो भूत्वा त्यागोपादानविकल्पशून्यत्वाद् विश्रान्तसमस्तव्यापारः सुनिष्प्रकम्पोऽयमात्माऽवतिष्ठते तदाऽयमेव स्वस्वभावनियतचरितत्वान्निश्चयेन मोक्षमार्ग इत्युच्यते। अयं परमार्थः-अमून्येव सम्यग्दर्शनादीनि कियन्मात्रयाऽपि परसमयप्रवृत्त्या संवलितानि सप्ताचिःसंवलितानि सी(पी)षीव विरुद्धकार्यकर्तृत्वाद् बन्धकारणान्यपि भवन्ति । यदा तु समस्तपरसमयनिवृत्तिरूपया स्वसमयप्रवृत्त्या सङ्गच्छन्ते तदा सप्ताचिःसंवलनोपराञ्चि सीषीव विरुद्धकार्यकर्तृत्वाभावात् साक्षादपवर्गबीजान्येव । ततः स्वसमयप्रवृत्तिलक्षणान्निरस्तसमस्तोपाधेः शुद्धात्मोपासनादेव मोक्षः। एतदेव मनसि निधायोक्तम्- न चान्यो यतः पर इति । एतेन के वलव्यवहारावलम्बिना परसमय[प्रवृत्तानां स्व-] समयप्रवृत्तिस्पर्शशून्यानां १ सप्ताचिः अग्निः । २ सीषि घृतानि । ३ ०संवलनापराश्चि संवलनअपरमुखानि संवलनपराङ्मुखानि । ४. कोष्ठान्तर्गतः पाठः रा प्रतौ नास्ति ।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122