Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 35
________________ हर्षवर्धनोपाध्यायनिबद्धः ३४ [ प्रथमा शब्दाः सूक्ष्मस्थूलाः । सूक्ष्मत्वेऽपि करणानुपलभ्याः कर्मवर्गणादयः सूक्ष्माः । अत्यन्तसूक्ष्माः कर्मवर्गणाभ्योऽधो द्व्यणुकपर्यन्ताः सूक्ष्मसूक्ष्मा इति । एवं सर्वावस्थासु चैतन्यव्याप्तस्य भवतश्चैतन्यव्याप्तिशून्यस्याभवतश्च जीवस्य चेतनातादात्म्यम् । यद्यपि निगोदाद्यवस्थायां परिस्पन्दाद्यभावेन चैतन्योपलकम्भकं न किश्चिदपि लिङ्गमुपलभ्यते तथापि "सव्वजीवाणं पि अ णं अक्खरस्स अणंतमो भागो णिच्चुग्घाडिओ चिट्ठइ जइ पुण सो चेव आवरिज्जा जीवो अजीवत्तणं पाविज्जा ।" [नंदिसुत्तं, सू.७७] इत्यादिवचनप्रामाण्याद् अण्डावस्थायामण्डजानामिव व्यापार-व्याहारादिकार्याभावेऽपि चैतन्यसद्भावो बोध्यः न्यायप्राप्तस्यानभ्युपगमायोगात् । एवं तादात्म्यलक्षणं प्रकटय्य जीवे वर्णादितादात्म्यं निराकुर्वन्नाहतदिहेति । तत् तस्माद्धेतोः इह संसारदशायां स्फुरन् पौगलिककर्मकार्यत्वेन पुद्गलगुणत्वाच्छरीरेष्वाविर्भवन् । न च भवन् मुक्तौ इति सकलाविद्याविलये तत्कार्यभृतदेहानुदयादनुद्भवन् वर्णादिः सकलो गणः वर्ण- गन्ध-रस-संस्थान-संहननादिः परद्रव्यत्वमेव श्रयेत् । अयं भावः - यद्यपि संसारदशायां वर्णादिव्याप्तता जीवस्यास्ति तदव्याप्तता च नास्ति तथापि मुक्तौ वर्णादिव्याप्त्यभावान्न वर्णादिभिस्तादात्म्यं सिद्ध्यति । किञ्च, वर्णादिमत्त्वं पुद्गलासाधारणधर्मः, तस्य जीवेन क्रोडीकरणे जीव- पुद्गलयोरेकत्वापत्तेः पुद्गलातिरिक्तजीवद्रव्यस्याभावाद् भवत्येव जीवाभाव इति । तस्माद् वर्णादयः पुद्गलधर्मा एव न जीवस्येति स्थितम् ॥२७॥ अनवरतमनेकान् भावयन् कल्पनौघान् कथमिव परतत्त्वाऽऽबध्यसे कर्मजालैः । यदि सकलविकल्पातीतमेकं स्वरूप मनुभवसि ततः किं संसृतिः किं च बन्धः ॥२८॥ व्याख्या- हे परतत्त्व ! "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" ॥ [ मुण्डकोप०, २. २.८ ] इति वचनादात्मस्वरूपलाभ एवानादिनिचितमोहग्रन्थिभेदादात्मेतरपदार्थबोधे आत्मानवबोधे च सर्वस्याकिञ्चित्करत्वाच्चेत्यात्मैव परमं तत्त्वम् । “एको भावस्तत्त्वतो येन बुद्धः सर्वे भावास्तत्त्वतस्तेन बुद्धाः "" [ ] इत्युक्तेश्च । ततस्तत्संबुद्धिर्हे परमतत्त्व ! अनवरतम् अविच्छिन्नधारम् अध्यवसायस्थानानामागमेऽसङ्ख्येयत्वेनाभिधानात् तद्वियुतेः कदाचिदप्यसम्भूतत्वाद् अनेकान् अपरिमितान् कल्पनौघान् भावयन् 'एतल्लब्धम्, इदं लभे, पुनरिदं लब्ध्वा-नृपतिरहम्, दुःस्थोऽहम्, सुख्यहम्, दुःख्यहम्, इदं कृतम्, इदं करिष्ये' एवं १ तुलना :- 'जे एगं जाणइ से सव्वं जाणई' आचाराङ्गसूत्र १.३.४.१२२ । २ संबुद्धि:- सम्बोधनम् ।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122