Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 34
________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः रागादितयाऽपरिणमयंस्तन्निमित्तीकृत्य कर्मभावेन परिणममानानां पुतलानामपि स्वस्मिन्नवकाशं न ददातीत्यर्थः । इदमत्र तात्पर्यम्-सकलज्ञेयाकारकरम्बित - चिद्वृतिमात्मानं जानानोऽनुभवन्नपि यदि स्वरूप एव नियम्य न वर्तते तदाऽनादिवासनोपजनितपरद्रव्यप्रवृत्तेश्चिद्वृत्तेर्निरर्गलपरद्रव्यप्रसरस्य हठेन व्यावृत्त्यभावात् स्वस्मिन्ननवस्थानेऽज्ञानोत्थितकर्तृकर्मक्लेशानापायाद् निरुपरागात्मतत्त्वोपलम्भाभावः । अत आत्मज्ञानानुभवसंयतानां यौगपद्य एव पारमार्थिकमकर्तृत्वं सिद्ध्यति ॥२६॥ अथ तादात्म्यलक्षणपुरस्सरं वर्णादीन् परद्रव्यत्वेन निश्चिन्वन्नाह - व्याप्तं यत् किल वर्वृतीति निखिलावस्थासु याद्रूप्यतो जातु स्यान्न तदात्मताविरहितं तेनास्य साकं भवेत् । तादात्म्यं तदिह स्फुरन्न च भवन् मुक्तौ नितान्तं ततो वर्णादिः सकलो गणो ननु परद्रव्यत्वमेव श्रयेत् ॥२७॥ ३३ व्याख्या - यत् किल द्रव्यं निखिलावस्थासु याद्रूप्यतो यद्रूपत्वेन व्याप्तं वर्वृतीति जातु कदाचिदपि तदात्मताविरहितं तेन रूपेण शून्यं न स्यात् तेन साकम् अस्य द्रव्यस्य तादात्म्यं भवेत् । अयमर्थः यथा किल पुद्गलद्रव्यस्य सर्वास्वप्यवस्थासु वर्णादिव्याप्तस्य भावतो वर्णादिव्याप्तिशून्यस्याभावतश्च वर्णादिभिस्तादात्म्यम्। ननु च अब्ज्योतिर्मरुतां पौद्गलिकानामपि अगन्धागन्धरसागन्धरसवर्णानामुपलब्धेरसिद्धा पुद्गलानां त्रैकालिकी व्याप्तिरिति चेत्, न क्वचित् कस्यचिद् गुणस्य व्यक्ताव्यक्तत्वस्य कादाचित्कपरिणामवैचित्र्य - प्रत्ययत्वेन स्वभावप्रतिघाताभावात् व्यक्तस्पर्शादिचतुष्काणां चन्द्रकान्ताऽरणियवानामारम्भकैरेव पुद्गलैरव्यक्तगन्ध-रसवर्णानाम् अब्ज्योतिर्मरुतामारम्भदर्शनात् । तेजसः पौगलिकस्यापि उद्भूतरूपस्पर्शानुद्भूतरूपस्पर्शोद्भूतरूपानुद्भूतस्पर्शानुद्भूतरूपोद्भूतस्पर्शप्रकारेण चतुर्विधस्य परैरङ्गीकाराच्चेति सिद्धं वर्णादितादात्म्यं पुद्गलानाम् । किञ्च, पुद्गलपरिणतिवैचित्र्यस्याऽऽनन्त्य - दर्शनान्न वर्णाद्याविर्भाव-तिरोभावमात्रत्वं विस्मयाय । इदं हि तत्तत्सामग्रीमवाप्य स्थूलं भूत्वा सूक्ष्मं भवति सूक्ष्मं भूत्वा स्थूलं भवतीति तदुक्तम् - "थूलंथूलं थूलं थूलसुहुमं च सुहुमथूलं च । सुमं सुहुमसुमं पुग्गलदव्वस्स पज्जाया ॥” तत्र छिन्नाः स्वयं सन्धानासमर्थाः काष्ठ - प्रस्तरादयः स्थूलस्थूलाः । छिन्नाः स्वयं सन्धानसमर्थाः क्षीर-सर्पिः-पाथः प्रभृतयः स्थूलाः । स्थूलोपलम्भा अपि छेत्तुं भेत्तुमादातुमशक्याश्च्छायाऽऽतपतमोज्योत्स्नादयः स्थूलसूक्ष्माः । सूक्ष्मत्वेऽपि स्थूलोपलम्भाः स्पर्श-रस- गन्ध

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122