Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
३२ हर्षवर्धनोपाध्यायनिबद्धः
[प्रथमा ततोऽनादिकालादवच्छिन्नप्रवृत्तः कर्तृकर्मप्रवृत्तिनिरासः इति चेद् भेदज्ञानस्येहास्रवनिवृत्त्यविनाभाविनो विवक्षितत्वात् । तथाहि - यदिदमात्मास्रवयोर्भेदज्ञानं तत् किमास्रवेषु प्रवृत्तम् उतास्रवेभ्यो निवृत्तम् ? यदि प्रवृत्तं कस्तर्हि तस्य तदभेदज्ञानाद्विशेषः आस्रवप्रवृत्तस्य पारमार्थिकभेदज्ञानत्वासिद्धेः।
"तद् ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥" [ ] इत्युक्तेः ।
यदि निवृत्तं तर्हि कथं न ज्ञानमात्रादेव बन्धनिरोधः ? एतेन केवलात् सुष्ठ्वनुष्ठितात् कर्मकाण्डादेवात्मनः शुद्धिरिति निरस्तम्, अज्ञानात् कृतस्य कर्मणो मोक्षं प्रत्यहेतुत्वात् ॥२५॥ ज्ञानात् तु न कर्म प्रभवतीत्याह - स्वत्वेन स्वं परमपि परत्वेन जानन् समस्ता -
न्यद्रव्येभ्यो विरमणमितश्चिन्मयत्वं प्रपन्नः। स्वात्मन्येवाभिरतिमुपयन स्वात्मशीली स्वदर्शी
त्येवं कर्ता कथमपि भवेत् कर्मणां नैष जीवः ॥२६॥ व्याख्या - स्वम् आत्मानं स्वत्वेन जानन् शुद्धस्वलक्षणनिर्ज्ञानात् परद्रव्याहंबुद्धिहेतुभूतमिथ्यादर्शनापगमाच्चात्मानमात्मत्वेनावगच्छन् । तथा परं सुख-दुःखादिरूपपुद्गलपरिणाम तन्निमित्ततथानुभवं पुद्गलप्रचयात्मकं शरीरादिकं च परत्वेन जानन् परस्परविशेषनिर्ज्ञानाच्छरीरादावात्माऽऽत्मीयबुद्धिमकुर्वन् इत्यर्थः । तथासमस्तानि यान्यन्यद्रव्याणि आत्मनः पृथग्भूतानि पुद्गलादीनि तेभ्यो विरमणमितः स्वत्वभावाव्याप्यतया परत्वेन ज्ञात्वा विरतिं प्रपन्नः परद्रव्यप्रवृत्तिमनादधान इत्यर्थः । अत एव चिन्मयत्वं प्रपन्नः सकलसङ्कल्पविकल्पनिरोधाच्छुद्धात्मनिष्ठां बिभ्रत् । तथा स्वात्मन्येवाभिरतिमुपयन् अनादिमोहेन स्वात्मनोऽप्रकृष्य बहिर्नीतायाः सततं पदव्यचक्रमणशीलायाश्चिद्वत्तेनिरोधात् पारावारमध्यसृत्वरैकपोतकूपस्तम्भपतत्रीवाऽनन्यशरणतयाऽनन्तसहजचैतन्यात्मनि क्रीडां कलयन् तथा स्वात्मानं शीलयति अभ्यस्यति परिचिनोतीति स्वात्मशीली । आत्मनो ज्ञायकस्वभावत्वावधारणेन ज्ञेयज्ञायकसम्बन्धस्यानौपाधिकत्वेन दुस्त्यजत्वानिखिलद्रव्यैः समं मम ज्ञेय-ज्ञायक एव सम्बन्धः, नान्ये स्व-स्वामिभावादय इत्येवं तेषु ममत्वव्युदासेन विषयपरिशीलनां गरनिगरणादप्यत्यन्तविरसां मत्वा स्वरूपमेव परिशीलयनित्यर्थः । तथा स्वदर्शी आसंसारात् परद्रव्यविश्रान्तं ज्ञानं परद्रव्याद् व्यपोह्य निष्कम्पतया स्वरूप एव लीनं कुर्वन् । एवमिति दृग-ज्ञप्ति-वृत्तात्मकात्मतत्त्वैकाग्र्येण वर्तमान एष जीवः कथमपि कर्मणां द्रव्य-भावभेदभाजां कर्ता न भवेत् । आत्मानं १ ला प्रतौ तु ०शरीरादावात्मीय० इति पाठः । २ ला प्रतौ तु 'वृतात्मतत्त्व० इति पाठः ।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122