Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 31
________________ ३० हर्षवर्धनोपाध्यायनिबद्धः अथ रागद्वेषजय एव शुद्धात्मलाभो भवतीत्यावेदयति राग द्वेषो मोह इत्येवमाद्या भावा नूनं शुद्धचिद्दूषकाः स्युः । रोधादेषां जायते द्रव्यकर्मा भावस्तस्मान्निर्विकारानुभूतिः ॥२३॥ व्याख्या - द्विविधो ह्युपयोगः - शुद्धोऽशुद्धश्च । तत्र निरुपरागः शुद्धः । तदुक्तम्'क्षीणे रागादिसन्ताने प्रसन्ने चान्तरात्मनि । यः स्वरूपोपलम्भः स्यात् स शुद्धाख्यः प्रकीर्तितः ॥" [ ] [ प्रथमा सोपरागस्त्वशुद्धः । तत्राशुद्धोपयोगः परद्रव्यसंश्लेषहेतुः परद्रव्यप्रवृत्तत्वात् । स च त्रिधा भिद्यते राग-द्वेष-मोहभेदात् । तत्र प्रीतिलक्षणो रागः, अप्रीतिलक्षणो द्वेषः, तत्त्वाप्रतीतिलक्षणो मोहः । तदत्र मोह-द्वेषयोः सर्वथाऽशुद्धोपयोगत्वम्, रागस्तु विशुद्धि-सङ्क्लेशाङ्गत्वेन द्विविधः । तत्रार्हदादिभक्तिरूपो विशुद्ध्यङ्गत्वाच्छुभः विषयाभिष्वङ्गलक्षणस्तु सङ्क्लेशाङ्गत्वादशुभः । एवमाद्या भावाः परिणामाः शुद्धचितः ' शुद्धोपयोगसंज्ञिकायाश्चिच्छक्तेः दूषकाः अशुद्धत्वहेतवः स्युः । अयं भावः- रागादयो हि भावाः आत्मन्युत्प्लवमाना आत्मनः शुद्धचैतन्यशक्तिमुन्मूल्य स्वानुरञ्जितामात्मवृत्तिं कुर्वाणा निस्तरङ्गचिच्छक्तेस्तरङ्गितत्वं प्रकटयन्तः परभावपरिणतिरूपत्वेन कर्मबन्धहेतवो भवन्ति । एवं च भावास्रवा एव द्रव्यास्रवहेतव इत्यावेदितं भवति, तदभावे तु न द्रव्यकर्मास्रवः सिद्ध्यति । एतदेवाह - 'रोधादेषाम्' इति । एषां रागादीनां भावानां रोधात् द्रव्यकर्माभावो जायते । शुद्धात्मानुभवरसिको हि स्वरूपमग्नो निवातस्थदीप इव मनागपि स्वरूपादप्रच्यवमानो रागादिभावानात्मसादकुर्वाणो बन्धहेतुतामनास्कन्दन्ननास्रवो भवति । ततः किं भवतीत्यत आह तस्मान्निर्विकारानुभूतिः इति । बन्धाभावे ह्युदयाभावस्ततश्च विकारहेतोरभावादनुभूतेर्निर्विकारत्वमित्यर्थः ॥२३॥ अथ क्रोधादिव्यतिरेकद्वारा ज्ञानं साधयति ज्ञानं ज्ञाने भवति न खलु क्रोधमुख्येषु तत् स्यात् क्रोधः क्रोधे न हि पुनरयं पूरुषे चित्स्वरूपे । कर्मद्वन्द्वे न हि भवति चिच्चिन्न कर्मावरुद्धे तीत्थं शुद्धग्रहणरसिकः किं विधत्तेऽन्यभावम् ॥२४॥ व्याख्या - ज्ञानं कर्तृ ज्ञाने भवति, सर्वभावानां निश्चयतः स्वरूप एव वृत्तिसद्भावात् कारणसहस्रेणापि द्रव्यान्तरस्वभावस्य द्रव्यान्तरं नेतुमशक्यत्वात् । ज्ञान एव वर्तते क्रोधमुख्येषु १ चित् शब्दस्य षष्ट्या एकवचनम् ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122