Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
द्वात्रिंशिका ]
अध्यात्मबिन्दुः
३१
न खलु तत् ज्ञानं स्यात् । ननु कतरत् तद् ज्ञानं यद् ज्ञाने विधीयते ? न कतरदपि किन्तु प्रसिद्धमेव ज्ञानमनूद्य इतरत्र वृत्तिबाधनार्थं स्वस्मिन्नेव विधीयते मा विज्ञायि आत्मनीवेतरत्रापि वर्तत इति । तथा क्रोधः क्रोधे वर्तते, सर्वभावानां निश्चयतः स्वरूप एव वृत्तिसद्भावात् । ननु कतरः स क्रोधो यः क्रोधे विधीयते ? न कतरोऽपि किन्तु प्रसिद्ध एव क्रोधोऽनूद्य इतरत्र वृत्तिबाधनार्थं स्वस्मिन्नेव विधीयते मा विज्ञायि क्रोधे इवेतरत्रापि वर्तत इति । अयं क्रोधः पुनश्चित्स्वरूपे पूरुषे न भवति द्रव्यस्य द्रव्यान्तरे सङ्क्रमाभावात् भिन्नसत्ताकत्वेनैकद्रव्यत्वानुपपत्तेश्च । क्रोध इत्युपलक्षणमशेषमोहविकारस्यापीति । तथा कर्मद्वन्द्वे ज्ञानावरणादिकर्मसङ्घाते चिन्न भवति, ज्ञानावरणादीनां पौद्गलिकत्वेन चिता' तादात्म्यानुपपत्तेः तथा चित् कर्मावरुद्धा न भवति, निर्लेपस्वभावायाश्चितो निश्चयेन कर्मभिरावरितुमशक्तेः । इत्थं शुद्धं परद्रव्यासम्पृक्तं यद् ग्रहणं ज्ञानं गृह्यन्ते परिच्छिद्यन्तेऽर्था अनेनेति कृत्वा, अथवा शुद्धस्यात्मनो ग्रहणं द्रव्यान्तरविवेकेन अनुभवः, तत्र रसिकः किमन्यभावं विधत्ते रागादिपरिणामानां स्वप्नेऽपि कर्ता स्याद् अपि तु न । तदकर्तृत्वे तन्निमित्तः पुद्गलद्रव्यकर्मसम्बन्धोऽपि निवर्तते । तथा सति ज्ञानमात्रादेव बन्धनिरोधः कथं न सिद्ध्येत् ? ॥२८॥
कदेयमनादिप्रवृत्ता कर्तृकर्मप्रवृत्तिर्निवर्तत इत्यभिधित्सायां तदुपायमाह
यदात्मनाऽऽत्मास्त्रवयोर्विभेदो
ज्ञातो भवेत् ज्ञानदृशा तदानीम् । निवर्ततेऽज्ञानजकर्तृकर्म -
प्रवृत्तिरस्मान्निखिलाऽपि मक्षु ॥२५॥
व्याख्या
यदा आत्मना ज्ञानदृशा भेदज्ञानचक्षुषा कृत्वा आत्मास्त्रवयोर्विभेदो ज्ञातो भवेत्, भिन्नः खल्वात्मा भिन्नाश्च क्रोधादयः आस्रवाः आत्मस्वभावातिरिक्तत्वात्, सोपाधिकत्वेन जन्याः खल्वास्रवाः भगवानात्मा तु स्वयंसिद्धत्वेनाजन्यः, तदात्वे आकुलत्वोत्पादकत्वाद् दुःखाः खल्वास्रवाः भगवानात्मा तु नित्यमेवानन्दघनत्वादनाकुलस्वभावः, उपयोगकालुष्यजनकाः खल्वास्रवाः भगवानात्मा तु नित्यमेव दृग्-ज्ञानवृत्तात्मकस्वलक्षणस्थितत्वात् स्वसमयः, एवं यदा भेदः सुष्ठु परिच्छिन्नो भवति तदानीम् अस्माद् आत्मनः निखिलाऽपि अज्ञानजा कर्तृकर्मप्रवृत्तिः मङ्क्षु शीघ्रं निवर्तते । तदत्रात्मा क्रोधाद्युत्पत्तौ ज्ञानरूपतामात्रसहजोदासीनावस्थात्यागेन व्याप्रियमाणत्वात् कर्ता, "यः परिणमति स कर्ता" [ ] इति वचनात्, क्रोधाद्यास्त्रवास्त्वात्मना व्याप्यत्वात् कर्म, तच्च वस्तुत आत्मै [व] "परिणामः स्वयमात्मा" [ ] इति वचनात् परिणामिनः परिणामस्वरूपकर्तृत्वेन परिणामादनन्यत्वात् । तदेवमात्मास्रवयोर्विशेषदर्शनाद् भेदं पश्यतः क्रोधाद्यास्रवनिवृत्तिः, १ तृतीयान्तम् । चिता सह इति भावः ।
I

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122