Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
द्वात्रिंशिका] अध्यात्मबिन्दुः
३५ नानाविकल्पपरम्परया परिणमन् त्वं कर्मजालैः कथमिवाऽऽबध्यसे ? विकल्पानां शुभाशुभत्वेन तदनुगुणबन्धजन[न] एव व्यापारात्, कृति-ज्ञप्त्योः परस्परविरोधेन कृतिसद्भावे स्वसमयस्थितेर्दुर्घटत्वात्, तदभावे बन्धनिरोधस्यासम्भवात् । ततः किं भावयितव्यमित्यत आह - यदीति । यदि सकलविकल्पातीतं बुद्धिगोचरस्थूलसूक्ष्मविकल्पव्युपरतम्, एकम् इति रागद्वेषद्वैतानुवृत्तेर्दूरापास्तत्वादद्वैतम्, स्वरूपम् इति विज्ञानैकरसनिर्भरस्वरूपास्तित्वमात्रव्यञ्जितपराप्रवेशमात्मरूपम् अनुभवसि ततः किं संसृतिः किं च बन्धः ? उभयोरपि स्वाज्ञानविजृम्भितत्वात् स्वप्रबोधं विना स्वस्वप्नस्येवानुच्छिद्यमानत्वाच्चेत्यनुभव एव निशितं शस्त्रं तदुच्छेदे । ज्ञाततत्त्वानामप्यनुभवाभ्यासविधुराणां स्वरूपलयाभावे कर्मक्षयायोगात् तदभावे संसृतेः संसरणस्याशक्यनिरोधत्वादिति भावः ॥२८॥ एनमेव पुनरप्यर्थं विभावयति - किं मुग्ध ! चिन्तयसि काममसद्विकल्पां -
स्तद्ब्रह्मरूपमनिशं परिभावयस्व । यल्लाभतोऽस्ति न परः पुनरिष्टलाभो
यदर्शनाच्च न परं पुनरस्ति दृश्यम् ॥२९॥ व्याख्या - हे मुग्ध ! स्व-परविवेकानभिज्ञ ! कामम् अत्यर्थम् असद्विकल्पान् 'बाला मामियमिच्छतीन्दुवदना सानन्दमुद्रीक्षते । नीलेन्दीवरलोचना पृथुकुचोत्पीडं परिरिप्सते।'
इत्येवमादिकान् किं चिन्तयसि असद्विकल्पज्ञानपरिणतः किं किं भवसीति भावः । तहि किमित्यत आह - तद्ब्रह्मेति । तत् स्वानुभवगोचरम् अनिशं विच्छित्तिजनकविषयसंचरिष्णुबुद्धिधारानिरासपूर्वकम्, ब्रह्म इति असङ्ख्येयलोकाकाशपरिमितप्रदेशशालित्वेन बृहत्त्वाद् ब्रह्म प्रत्यग्ज्योतिः, तस्य रूपं शुद्धबुद्धनिर्विकारलक्षणं परिभावयस्व विषयान्तरव्युदासेन तस्मिन्नेव लीनो भवेत्यर्थः । कोऽस्य विशेषः? इत्याशङ्कायामाह-यल्लाभत इति । यल्लाभतः पुनः परः अपर इष्टलाभो नास्ति । कुलिशायुधचक्रधरादिपदलाभो हि विषयविमुग्धानां शुद्धात्मानुभवविमुखानामिष्टत्वेन भासते, ब्रह्मास्वादलुब्धानां तु अनाद्यविद्याकवलप्रत्यलचित्कलाशालिपरमात्मसाक्षात्कारान्नापरो लाभः । किञ्च, 'सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तशः" [ ] इतिवचनात् कामभोगाश्चानन्तशो लब्धपूर्वा आस्वादितपूर्वाश्च, इदं तु १ ला प्रतौ 'बुद्धिगोचराबुद्धिगोचर०' इति पाठः । २ कुलिशायुधः इन्द्रः । ३ अनादिभूतायाः अविद्यायाः कवले कवलीकरणे अर्थाद् विनाशे प्रत्यला समर्था चित्कला तया शालते-शोभते एतादृशः परमात्मा तस्य साक्षात्काराद् इति भावः।

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122