Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
३७
द्वात्रिंशिका]
अध्यात्मबिन्दुः चिरेणाभ्यस्तदुष्करतपोभिरपि न निर्वाणप्राप्तिरित्यावेदितम् । तथा आनन्द-बोधौ इति, आनन्दोऽनाकुलत्वलक्षणं सौख्यम्, बोधश्च ज्ञानम्, तौ अपि यत् परब्रह्म विहाय अपरस्मिन् तदतिरिक्त पदे स्थाने न एव भातः । तथाहि- घातिकर्माण्येव हि उन्मत्तकवद् अतस्मिंस्तबुद्धिमाधाय परिच्छेद्यमर्थं प्रत्यात्मानं परिणमयन्ति सन्तैि प्रत्यर्थं प्रोताप्रोतसद्भावात् खेदनिदानतां प्रपद्यन्ते, तदभावाच्च शुद्धात्मनः कुतः खेदस्यात्मलाभः स्वभावप्रतीघाताभावात् । आत्मानो हि दृशि-ज्ञप्ती स्वभावः, तयोश्च प्रतिबन्धकक्षयाविर्भूतनिरर्गलप्रचारत्वादखिलं लोकालोकं कवलीकृत्ये व्यवस्थितत्वादस्त्यनाकुलत्वम्, तदेव पारमार्थिकं सौख्यमिति । बोधश्चानन्दनिरूपणेनैव लब्ध इति न तदर्थं पुनर्यत्नः ॥३०॥ अथ शुद्धनयव्यवस्थापितं जीवस्वरूपं प्रपञ्चयन्नाहयत् पञ्चेन्द्रियवर्जितं प्रविगलत्कर्माष्टकं प्रस्खलत् -
स्वान्तं विग्रहपञ्चकेन वियुतं स्पृष्टं न च प्रत्ययैः । शान्तं शाश्वतमक्रियं निरुपधि द्रव्यान्तरासङ्गतं .
विष्वक् प्रोल्लसदर्चिषा परिगतं तत्त्वं तदेवास्म्यहम् ॥३१॥ व्याख्या - यत् महः पञ्चेन्द्रियवर्जितम् । इन्द्रियाणि किल द्रव्य-भावभेदाद् द्विधा । तत्र द्रव्येन्द्रियाणि स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणि पञ्च पौद्गलिकानि शरीरपरिणामापन्नानि निरवधिबन्धपर्यायवशतः आत्मना सहानादिसंसर्गवन्ति अनात्माज्ञानानामात्मवदवभासमानानि, तैः वर्जितम्-इन्द्रियाणि यस्य न सन्तीत्यर्थः । व्यतिरिक्तास्तित्वयोगित्वाद् इतद्रव्यतादात्म्यस्य सर्वथा निषिद्धत्वान्निश्चयतः परद्रव्यसंस्पर्शशून्यत्वान्निर्माणनामोदयवन्ध्यत्वाच्चेति शुद्धद्रव्यनिरूपणाया इह प्रक्रान्तत्वात् । यानि तु प्रतिविशिष्टस्वस्वविषयव्यवसायितया खण्डशः आकर्षणलक्षणानि लब्ध्युपयोगलक्षणभावेन्द्रियाणि तान्यपि क्षायोपशमिकत्वान्नात्मस्वरूपभूतानि, ततस्तैरपि वर्जितम्, अखण्डचिच्छक्तिशालितया भगवदात्मनः क्षायोपशमिकभावानवकाशात् क्षायोपशमिकस्य कर्मजपरिणामाच्च । तथा प्रविगलत्कर्माष्टकम् इति ज्ञानावरणादीनि स्वसमयप्रसिद्धानि तैरपि शून्यं यत् तत्त्वं निश्चयतः स्वरूपपर्यालोचनायामबद्धस्पृष्टत्वात् पुष्करपलाशवनिर्लेपत्वादितरद्रव्यस्य स्वरूपे प्रवेशाभावाच्च, यानि तु भावकर्माणि द्रव्यकर्मारोपितविकाररूपाणि तैरप्यपोढं निश्चयतो निर्विकारत्वात् । तथा प्रस्खलत्स्वान्तम् इति, स्वान्तं मनः । तच्च द्रव्य-भावभेदाद् द्विधा । तत्र द्रव्यमनः पुद्गलघटितं मनः पर्याप्त्याख्यनामकर्मोदयजन्यम्, भावमनस्तु सङ्कल्पात्मकम्। तदुभयशून्यं द्रव्यम्, मनोव्यतिरेकस्तु भिन्नसत्ताकत्वादेव सिद्धः, निश्चयतः परारोपितविकाराणामात्मन्यसत्त्वाद् भावमनसोऽप्यसत्त्वम्। १ परिणमयन्ति तथा सन्ति एते द्वे अपि वर्तमानकृदन्तरूपाणि प्रथमाबहुवचनं 'धातिकर्माणि' इत्यस्य विशेषणरूपाणि । २ कवलीकृत्य प्रत्यक्षीकृत्य इति भावः ।

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122