Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 29
________________ २८. हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा दुःखादिषु भावेषु तन्मयीभूयस्थितत्वाद् भवत्यात्मा वेदकः] सुख-दुःखादयो भावा अप्यनुभाव्यत्वाद् भवन्ति वेद्याः । 'स्वपरिणामान्' इति वाच्ये औपाधिकस्यापि रागादेः स्वभावत्वकथनम्, अनौपाधिकभाववदौपाधिकभावोऽपि स्वभावः, ‘एवं हि' जीवपुद्गलयोविभाव-स्वभावलक्षणपर्यायाधिकरणत्वं सिद्धम् । तथाहि-द्विधा पर्यायः - अर्थपर्यायः व्यञ्जनपर्यायश्च । तत्र अर्थपर्यायो नाम भूतत्व-भविष्यत्त्वसंस्पर्शरहित-शुद्धवर्तमानकालावच्छिन्नं वस्तुस्वरूपम् । तदेतद् ऋजुसूत्रविषयमामनन्ति । तदुक्तम् - "स्थूलो व्यञ्जनपर्यायो वाग्गम्यो नश्वरः स्थिरः। सूक्ष्मः क्षणप्रतिध्वंसी पर्यायश्चार्थगोचरः" ॥ इति [ ] व्यञ्जनं व्यक्तिः । प्रवृत्ति-निवृत्तिनिबन्धनयत्किञ्चिदर्थक्रियाकारित्वम्, तेनोपलक्षितः पर्यायो व्यञ्जनपर्यायः । सोऽपि द्विविधः-स्वभावव्यञ्जनपर्याय: विभावव्यञ्जनपर्यायश्च । उभयोऽपि द्रव्य-गुणनिष्ठत्वेनो भयरूपः । तत्र जीवद्रव्यस्य स्वभावद्रव्यव्यञ्जनपर्यायश्चरमशरीरात् त्रिभागोनसिद्धावगाहनारूपः, विभावद्रव्यव्यञ्जनपर्यायो नर-नारकादिः । स्वभावगुणव्यञ्जनपर्यायोऽनन्तचतुष्टयरूपः, विभावगुणव्यञ्जनपर्यायो मत्यादिः । पुद्गलद्रव्यस्य तु अविभागी पुद्गलपरमाणुः स्वभावद्रव्य-व्यञ्जनपर्यायः, व्यणुकादिर्विभावद्रव्यव्यञ्जनपर्यायः वर्ण-गन्धरसैकत्वात्; विरुद्धस्पर्शद्वयं स्वभावगुणव्यञ्जनपर्यायः, रसरसान्तरगन्धगन्धान्तरादिविभावगुणव्यञ्जनपर्यायः । आत्मीयात्मीयागुरुलघुगुणद्वारेण प्रतिसमयमुदीयमानषट्स्थानपतितवृद्धिहानिनानात्वानुभूतिलक्षणः स्वभावगुणपर्यायस्तु समस्तद्रव्येष्वपि साधारणः । धर्मादीनां तु चतुर्णा द्रव्याणां स्वभावपर्याया एव, न तु विभावपर्यायाः । तदत्र रागादिविभावगुणव्यञ्जनपर्यायः, "जो दु कलुसोवओगो जीवाणं सो कसाउदओ" [ ] इति वचनात् । तद्वद् इति शुद्धाशुद्धस्वभावकर्तृत्ववत् । अयं जीवः चेत् परान् भावान् ज्ञानावरणादिकान् पौद्गलिकान् प्रकुरुते अथवा वेदयते । एवं सति कृतिद्वयस्य स्वपरिणामक्रियालक्षणस्य करणाद् विधानात् स्फुटं सिद्धान्तबाधः स्यात् । अयं भावः - यथा व्याप्य-व्यापकभावेन स्वपरिणामं करोति, भाव्यभावकभावेन तमेवानुभवति जीवस्तथा व्याप्य-व्यापक-भावेन पौगलिकं कर्मापि कुर्यात् भाव्यभावकभावेन तदेव यद्यनुभवेत् ततः स्व-परसमवेतक्रियाद्वयाव्यतिरिक्ततायां प्रसञ्जन्त्यां स्वपरविभागप्रत्यस्तमनाद् अनेकात्मकमेकमात्मानमनुभवन् कुर्वंश्च मिथ्यादृष्टिरेव स्यात् । न ह्येकं द्रव्यं स्वभिन्नद्रव्यान्तरस्य परिणामं कुर्वत् कदापि दृष्टम्, द्रव्यान्तरोच्छेदापत्तेः सर्वसङ्करादिदोषाच्च। ततः समस्तद्रव्याणामात्मीयात्मीयपरिणामैव समं कर्तृकर्मभावः सिद्ध्यति ॥२१॥

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122