Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 28
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः २७ परभावकर्तृतामात्मन्युपढौकमानो न कदाचिदपि स्वरूपाभिमुखीभवति, नित्यं कर्तृभावमेवावलम्बते ॥२०॥ अथ स्वभावकर्तृत्ववत् परभावकर्तृत्वे महान् दोषोपनिपात इत्याह - व्याप्यव्यापकभावतः प्रकुरुते जीवः स्वभावान् यथा भावान् वेदकवेद्यतोऽनुभवति स्वांस्तान् स्वभावान् पुनः । तद्वद् वेदयतेऽथवा प्रकुरुते भावान् परांश्चेदयं स्यादेवं हि कृतिद्वयस्य करणात् सिद्धान्तबाधः स्फुटम् ॥२१॥ व्याख्या - जीवः यथा व्याप्य-व्यापकभावतः स्वभावान् प्रकुरुते ।स्वस्य भावाः स्वभावाः शुद्धाशुद्धरूपाः स्वपरिणामास्तान्। भावशब्दोऽत्र परिणामवाची। परिणाम-परिणामिनोश्च तादात्म्यम् एकवस्तुत्वात् । वस्त्वेव हि तन्नानाकारतया विवर्तते । द्रव्यं हि मयूराण्डकललवत् सम्मूच्छितसर्वभेदप्रभेदं द्रव्यादिसामग्रीमवाप्य तत्तवृत्त्यन्तरव्यक्तिरूपेण व्यपदिश्यते - 'जायते अस्ति विपरिणमते वर्धते अपक्षीयते अपचीयते विनश्यति' (व्याकरणमहाभाष्य) इत्यादि । तथाहि - एकमेव मृद्रव्यं पिण्डातिरिक्तवृत्त्यन्तररूपतया परिणममानंजायत इत्युच्यते, सव्यापारा हि भवनवृत्तिः। अस्ति इत्यनेन निर्व्यापारा आत्मसत्ता आख्यायते; भवनवृत्तेरुदासीनं हि अस्ति इत्युच्यते। विपरिणमते इत्यनेनापि तिरोभूतात्मरूपस्यानुच्छिन्नतथावृत्तिकस्य रूपान्तरेण भवनम्, यथा क्षीरं दधिभावेन विपरिणमते - विकारान्तरवृत्त्या भवनवृत्तिय॑ज्यते । [ वर्धते' इत्यनेन तस्यैव परिणामोपचयवृत्तिः कथ्यते] अपक्षीयते इत्यनेन तु तस्यैव परिणामस्यापचयवृत्तिराख्यायते, दुर्बलीभवत्पुरुषवद् अपचयरूपभवनवृत्त्यन्तर-व्यक्तिरुच्यते। विनश्यति इत्यनेन आविर्भूतभवनवृत्तितिरोभवनमुच्यते यथा विनष्टो घट इति प्रतिविशिष्टसंस्थानात्मिका भवनवृत्तिस्तिरोभूता, न त्वभावरूपतैव जाता, कपालाद्युत्तरीभवनवृत्त्यन्तरक्रमावच्छिनरूपत्वादित्येवमादिभिराकारैर्द्रव्यमेव तथा विवर्तते । तदत्र रागादिपरिणामो व्याप्यस्तनिष्ठत्वात्, आत्मा तु व्यापकः विवक्षितपरिणाममन्तरेऽपि तस्य वृत्तिसद्भावात्; 'व्यापकं तदतन्निष्ठम् व्याप्यं तन्निष्ठमेव हि' [ ] इति वचनात् । तथा च, यथा जीवः स्वयं व्यापको भूत्वा व्याप्यान् रागादिपरिणामान् प्रकुरुते - करोतिः इह परिणामार्थः - रागादिरूपतया परिणमतीत्यर्थः । तथा वेदक-वेद्यतो भावान् तान् स्वान् आत्मीयान् स्वभावान् वेदयते अनुभवति रागादिपरिणतिक्षणे हि 'रागादिमान् अहम्' इत्यनुभवस्य सर्वजनसिद्धत्वात् । तदत्र स्वपरिणामा वेद्या वेदकस्त्वात्मा।अयं भावः - इष्टानिष्टविषयसमवधाने हि सुख-दुःखादिपरिणत आत्मा तानेव स्वपरिणामान् वेदयमानः ['सुख्यहम्, दुःख्यहमित्यभिमन्यते । तदत्र सुख१ कोष्ठान्तर्गतः पाठः रा प्रतौ नास्ति ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122