Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 27
________________ २६ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा दर्शने सर्वद्रव्यमयत्वेन रागादिपरभावत्वेन च कलयन् । अयं स्वसंवेदनसिद्धो भगवान् आत्मा राग-द्वेषादयो ये अनियता अपरिमिता विभावा स्वभावाऽन्यथाभावरूपाः विकाराश्चैतन्यपरिणामास्तै परिणतः सहजोदासीनावस्थात्यागेन तत्तां प्रपन्नो भवतीति शेषः । अयं भावःकर्मविकाराकलङ्कितजगत्साक्षिनिर्मलकेवलालोकविविक्तमात्मस्वरूपमनवगच्छन् सन् नानाविकारकरम्बितमेवात्मानमनुभवति मन्यते च, न च नवतत्त्वोत्तीर्णम्। तादृशश्च न परभावकर्तृतां कदाचिदप्यपोहतीत्याह-तत इति । ततः अशुद्धपरिणामानामात्मत्वेन मननाद्धेतोः । अहं रज्ये, अहं रुष्यामि इति विकल्पान् अनुकलं प्रतिक्षणं प्रकुर्वन् अयं जीवो जगति कर्माणि कुरुते । रागद्वेषादिपरिणामान् ज्ञानादिवत् स्वसमानाधिकरणतयाऽनुभवन्ननादिनिधनाविकल्पाकर्तृकविज्ञानघनस्वरूपात् प्रभ्रष्टो वारंवारमनेकविकल्पैः परिणमन् द्रव्यभावभेदभाञ्जि कर्माणि तनोतीत्यर्थः । शुभाशुभभावैः परिणमन् योगद्वारेण प्रविशतां पुद्गलानां कर्मभावोत्पत्तौ निमित्तं भवतीत्यर्थः ॥१९॥ स्व-परयोरेकत्वाध्यासादेव कर्तृत्वमाविरस्तीति दृष्टान्तद्वारेण समर्थयतेभूताविष्टो नर इह यथाऽज्ञानतः स्वं च भूतं, चैकीकुर्वन् भवति विसदृक्चेष्टितानां विधाता। अप्यात्माऽयं निज-परविवेकच्युतः कामकोपा दीनां कर्ता भवति नितरां शुद्धचिद्रूषकाणाम् ॥२०॥ व्याख्या - इह जगति यथा भूताविष्टो नरः अज्ञानतः स्व-परविवेकानवबोधात् स्वम् आत्मानं भूतं चैकीकुर्वन् विसदृक्चेष्टितानाम् अमानुषोचितविशिष्टधावन-वल्गनासम्बद्धभाषितादिचेष्टानां विधाता भवति तथा अयमात्मापि निज-परविवेकच्युतः स्वपरयोरेकत्वाध्यासाद् आत्म-परयोविवेकमलभमानःशुद्धचिद्रूषकाणां काम-कोपादीनां नितरां कर्ता प्रतिभाति । आत्मा हि कामादिपरिणतिक्षणे तन्मयत्वेन व्यापकीभूय तत्परिणामानां कर्ता भवति । कामादयो स्वपरिणतिक्षणे तन्मयत्वेन व्याप्यत्वाद् आत्मनः कर्म भवन्ति । परिणामिनः कर्तृत्वोक्तौ परिणामानां कर्मत्वमर्थादेवाऽऽपद्यते निश्चयेन कर्तृकर्मणोख्यतिरेकात् । अयं भावःयथाऽयमात्माऽनौपाधिकस्य स्वलक्षणभूतस्य कालत्रयेऽप्यात्मनोऽविष्वग्भूतस्य ज्ञानस्यात्मनश्च भेदमपश्यन्नात्मतया ज्ञाने वर्तते तथाभूतश्च ज्ञानक्रियाया अप्रतिषिद्धत्वाज्जानाति तथा सोपाधिकस्यास्वलक्षणभूतस्य कालत्रयेऽप्यात्मनो विश्वग्भूतस्य क्रोधादेरात्मनश्च विवेकाऽऽलोकानुद्गमाद् भेदमपश्यन्नात्मतया क्रोधादिषु वर्तते तथाभूतश्च निषिद्धानामपि क्रोधादिक्रियाणामात्मीकरणात् क्रुद्ध्यति रज्यते कामयते; ततश्च तत्तन्मोहविकारात्मानं कलुषीकुर्वन्

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122