Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
२४ हर्षवर्धनोपाध्यायनिबद्धः
[प्रथमा वर्णादयः सन्ति, तथापि देहात्मनोः समावर्तितावस्थायां कनक-कलधौतयोरिव परमार्थत एकार्थत्वानुपपत्तावपि व्यवहारमुग्धानां पृथक् स्वलक्षणानिर्ज्ञानाद् एकत्वाध्यासेन जीवस्यैते वर्णादय इति मतिराविरस्ति । तन्मूलं च शरीरसम्बन्धः एवेति एवकारेण, 'मुष्यते एष पन्थाः' इतिवत् "तात्स्थ्यात् तदुपचारः" [
] इति न्यायेन बन्धपर्यायेणावस्थितस्य वपुषो वर्णादयो जीवे व्यवह्रियन्ते न तु परमार्थतोऽमूर्तस्यासाधारणचैतन्यसर्वस्वस्य जीवस्य सन्ति केचन वर्णादय इति द्योत्यते। कस्मिन् क इव? जाम्बूनदादेरुपधेः सकाशाद्वैशद्यभाजि स्फटिके तरङ्गा इव । यथा प्रकृत्या स्वच्छस्फटिकमणेर्जाम्बूनदाधुपाश्रयवशात् स्वच्छताविकारमात्रेण भाव्यमानाः पीततादिवर्णोर्मयो न नाम स्वरूपभूतास्तद्वद् आत्मनोऽपीति भावः । एवं चैतद् अप्रतिबुद्धोक्तं समाहितं दृष्टव्यम् -
जीवो भवेनैव यदा शरीरं तीर्थङ्कराचार्यनुतिस्तदानीम् । सर्वापि मिथ्यैव भवेत् ततो हि देहात्मनोः साधुरभेद एव ॥ तथाहिवक्त्रं पूर्णशशाङ्ककान्तममलं स्वान्तं प्रशान्तं वपु
नेत्रे नीलसरोजपत्ररुचिरे वाणी सुधासारणी। दीप्तिर्यस्य च चण्डरुप्रभृतिसज्ज्योतिष्मतां जित्वरी
__भव्यान् पातु स विश्वविश्रुतयशास्तीर्थेशभट्टारकः ॥
इत्यादिका व्यवहारस्तुतिरेव आत्मस्वरूपबोधकविशेषणालाभात् वक्त्र-स्वान्तादीनां पौद्गलिकत्वात् । तर्हि कीदृशी निश्चयस्तुतिरिति चेत् - मोहं विजित्य करणानि च संनिरुध्य
यो भावयत्यपमलं परमात्मतत्त्वम् । साक्षात्कृताखिलपदार्थमपार्थितोद्यत् -
कर्मप्रपञ्चमवतात् स जिनेन्द्रदेवः ॥ इत्यादिकेति प्रतीहि ॥१७॥ अथ रागादिपरिणामेऽपि नासौ स्वरूपं प्रोज्झतीत्याविर्भावयति -
स्फटिकमणिरिवायं शुद्धरूपश्चिदात्मा,
भजति विविधभावं द्वेष-रागाधुपाधेः । यदपि तदपि रूपं नैव जाहात्ययं स्वं,
न खलु भवति चान्द्री ध्वान्तरूपा मरीचिः ॥१८॥ १ चण्डरुक् सूर्यः।

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122