Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
हर्षवर्धनोपाध्यायनिबद्धः
[प्रथमा ८.४] । प्रकृत्यादितया बद्धानामेव त्वेषामबाधापरिक्षये विपाकवेदनम् उदयः। अप्राप्तकालवेदनम् उदीरंणा । बन्धादिलब्धात्मलाभानां कर्मणामात्मप्रदेशेष्ववस्थानं सत्त्वम् । एतन्मुख्या भावाः खलु कर्मणां प्रबन्धः स्यात् ।कर्माण्येव हि बन्धादिनानावस्थाभाञ्जि आत्मनि स्वशक्तिप्रदर्शनेन विकारान् आपादयन्त्यपि निश्चयेन भावान्तरस्वभावेनाभवतों जीवाद् द्रव्यान्तरभूतान्येव नात्र जीवस्य स्वभावलेशोऽपीति । एभ्यः परम् इति दुरन्तकषायचक्रोदयवैचित्र्यबलेन प्रवर्तमानानामप्येषां स्वरूपेणापरिणमनाद् एभ्यो बन्धादिभ्यः परं भिन्नं यत् तदेवाहं परंसर्वातिशायि चन्द्रार्कादितेजसां मितक्षेत्रावभासित्वेन ततोऽप्युपरि वर्तमानं धाम नित्योदितविशदज्ञप्तिज्योतिषाऽक्रमाक्रान्तमूर्तामूर्तातीन्द्रियन्द्रियकादिसमस्तवस्तुस्तोमलक्षणं मेहोऽस्मि । कीदृग् धाम ? इति विशिनष्टि कर्मकलङ्कमुक्तम् इति । व्यवहारदृष्टया संसारित्वभावेऽपि निश्चयतस्तत्कारणीभूतसकलशक्तिप्रतिबन्धककर्मप्रपञ्चदूरीभूतत्वात् कर्मतद्विकाराऽस्पृष्टम् ॥१४॥ अथ कर्मजन्याखिलविकारनाश एव स्वरूपाभिव्यक्तिरिति व्यक्तीकरोति -
वातोल्लसत्तुङ्गतरङ्गभङ्गाद्
___यथा स्वरूपे जलधिः समास्ते। तथाऽयमात्माऽखिलकर्मजन्य
विकारनाशात् स्पृशति स्वरूपम् ॥१५॥ व्याख्या - यथा जलधिः समुद्रः वातेन उल्लसन्तो ये तुङ्गाः तरङ्गाः तेषां भङ्गाद् ध्वंसात् स्वरूपे निस्तरङ्गत्वरूपे समास्ते । अयं भावः - यथा जलधिः समीरसञ्चारनिमित्तं प्राप्य उत्तरङ्गीभवति तदभावाच्च निस्तरङ्गतां प्रपद्यते । तत्रोत्तरङ्ग-निस्तरङ्गत्वे यद्यप्येकस्यैवावस्थे तथाप्युपाधि-तदभावाभ्यां भवन्त्यौ अस्वभावस्वभावतां द्योतयतः । तत्रौपाधिकस्य भावस्योपाधिविलयाद् विलयेऽपि अनौपाधिकस्य स्वरसत एव प्रवृत्तत्वाद् निर्हेतुकत्वाच्च नास्ति विलयः 'नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्' [प्रमाणवार्तिक, ३.३४] इत्युक्तेः । अत उक्तम् स्वरूपे' इति। तथाऽयमात्मा' इत्यादि तथा-जलधिवद् अयमात्मा अखिलाः कर्मजन्या . ये 'विकाराः' राग-द्वेष-मोह-सुख-दुःखादयस्तेषां नाशात् स्वरूपं स्पृशति । अनादिबन्धनोपाधि-प्रवृत्ता हि रागादयो बन्धनसन्निधानासन्निधानाभ्यामात्मनि उन्मज्जन-निमज्जने जनयन्तोऽस्वभावतां ख्यापयन्ति । तथाहि-यत्सद्भावे यज्जायते, यदभावे च यन्न जायते तत् तज्जन्यम् । अस्ति च कर्मोदयेन सहान्वय-व्यतिरेको रागादीनामतस्तद्धेतुकत्वमिति तदभावे च शुद्धात्मनि अप्रादुर्भवन्तः पररूपतां व्यञ्जयन्तो नात्मना सहैकार्थत्वं श्रयन्ति ॥१५॥
अथ चैतन्यातिरिक्ताः सर्वेऽपि परभावा इति बोधयति - १ आसंसारात् । २ तेजः।

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122