Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 21
________________ २० हर्षवर्धनोपाध्यायनिबद्धः पिहिते गर्भागारे तमसि च सूचीमुखाग्रदुर्भेदे । मयि च निमिलितनयने तथापि कान्ताननं व्यक्तम् ॥ इति ॥ ज्ञानात्तु तेष्वात्मात्मीयबुद्ध्यभावादौदासीन्यपरस्य सततोल्लसदनेकविकल्पव्यपोहाद् निर्विकल्पमात्मानं चेतयमानस्य प्रतिवस्तु पातोत्पाताभावाद् ज्ञेयार्थपरिणमनेनायुञ्जानस्य कारणाभावादेव कार्यानुदयात् तत्फलभूतो बन्धोऽपि न सिद्ध्येत ॥१२॥ अथ प्रमाणादयोऽप्यधोभूमिकास्थस्यैव वस्तुन आवेदका ऊर्ध्वं तु न तेषां व्यापार इत्यावेदयति प्रमाण-निक्षेप - नयाः समेऽपि स्थिताः पदेऽधः किल वर्तमाने । प्रपश्यतां शान्तमनन्तमूर्ध्वं पदं न चैषां कतमोऽपि भाति ॥ १३ ॥ [ प्रथमा व्याख्या - प्रमाण-निक्षेप - नयाः समेऽपि अधो वर्तमाने पदे स्थिता । तत्र प्रमीयते येन तत् प्रमाणम् । तच्च द्विविधम्- प्रत्यक्षं परोक्षं चेति । तत्र स्पष्टावभासं प्रत्यक्षम् । अन्तःकार्मणमलविश्लेषविशेषनिबन्धनो विशुद्धिविशेषः स्पष्ट्यम् । तत् प्रत्यक्षं द्विविधम् - सांव्यवहारिकं मुख्यं च। सांव्यवहारिकमपि द्विविधम् - इन्द्रियप्रत्यक्षम् अनिन्द्रियप्रत्यक्षं चेति । तत्रेन्द्रियस्य चक्षुरादेः कार्यं बहिर्नीलादिविषयसंवेदनमिन्द्रियप्रत्यक्षम्, तत्रापि शक्तिनियमादेव विषयनियमः । अनिन्द्रियं मनः । मुख्यं प्रत्यक्षं द्विविधम् - विकलं सकलं च । तत्र अवधि - मनः पर्यायौ विकलप्रत्यक्षम् । केवलं तु सकलप्रत्यक्षम्, केवलात्मप्रतिनियतत्वेन प्रवर्तमानत्वात् सकलद्रव्यपर्यायसाक्षात्कारित्वाच्च । अस्पष्टावभासं परोक्षम् । तत् पञ्चविधम्- स्मृतिः प्रत्यभिज्ञानं तर्कोऽनुमानमागमश्चेति । निक्षिप्यते नामादिभेदैर्वस्तु व्यवस्थाप्यते एभिरिति निक्षेपा नाम-स्थापनाद्रव्य-भावाख्याश्चत्वारः । तत्रातद्गुणे वस्तुनि संज्ञाकरणं नाम । तदुक्तम् - यद् वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ इति । सोऽयमित्यन्यत्र प्रतिनिधिव्यवस्थापनं स्थापना । तदुक्तम् -यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत् करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥ इति । वर्तमानतत्पर्यायाद् अन्यद् द्रव्यम् । तदुक्तम् -

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122