Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 19
________________ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा लीनां स्वस्मिन् तामयंस्तां नितान्तं तान्तं स्वीयं रूपमुज्जीवयेत ॥१०॥ व्याख्या - भेदज्ञानाभ्यासतः शुद्धचेताः शुद्धं निरुपरागं चित्तं यस्य तादृशः अयं सम्यग्दृष्टिः नव्यकर्मावलीनां शुभाशुभाध्यवसायतः सञ्चीयमानपौद्गलिककर्मणां नेता आस्रवयिता न स्यात् । अयमर्थः - भेदज्ञानबलेन शुद्धात्मभावनारसिकः परद्रव्येषु ममत्ववासनोन्मेषशून्यः स्व-स्वामिभावसम्बन्धस्य मोहजन्यत्वेनापारमार्थिकत्वात् 'नाहं धर्मः' 'नाहमधर्मः' 'नाहमन्तरिक्षम्' 'नाहं कालः' 'नाहं पुद्गलः' नाहं जीवान्तरम्' 'न चैते मम' इति समस्तपरद्रव्येभ्य आत्मानं व्यपोह्य केवलमात्मानं सञ्चेतयमानः परारोपितविकाराणां चात्मत्वेनाऽमननाद् भावास्रवाभावे भवत्येव द्रव्यास्रवाभावः । ननु तर्हि पूर्वसञ्चितायाः कर्मावले: का गतिरित्यत आह - लीनाम् इति । स्वस्मिन् आत्मनि लीनां श्लिष्टां तां कर्मावली नितान्तम् अत्यन्तं तामयन् 'तमू ग्लानौ' इति वचनात्, अन्तरङ्ग-बहिरङ्ग-तपोऽनलेन ग्लपयन् निर्जस्यन्निति यावत्। तान्तम् अनादि मोहेन शुद्धचैतन्यरूपाद् आत्मतत्त्वात् प्रच्याव्य क्षायोपशमिकशक्त्यधीनतया नितान्तं मन्दत्वापादनेन ग्लानि नीतंस्वीयं रूपम्आत्मनः स्वरूपम् उज्जीवयेतशुक्लध्यानानलेन घातीनि समूलकाषं कषित्वा पुनस्तादवस्थ्यमापादयेत् ॥१०॥ अथास्यात्मनः कर्तृत्वाध्यासे हि संसारः, स एव कथमिति तद्वीजमुद्घाटयति अज्ञानतो मुद्रितभेदसंवि च्छक्तिः किलायं पुरुषः पुराणः । परात्मनोस्तत्त्वमसंविदानः कर्तृत्वमात्मन्यसकृत् प्रयुङ्क्ते ॥११॥ व्याख्या - अज्ञानतः स्व-परयोरेकत्वाध्यासेन एकत्वश्रद्धानेन एकत्वानुष्ठानेन चमुद्रिता स्थगिता भेदसंविच्छक्तिः 'त्रिसमयानवधिप्रवृत्तानवरतानुभूयमानात्यन्तस्वादीयश्चैतन्यरसोऽयमात्मा' 'एतद्विपरीतस्वभावाश्च कषायाः' इत्येवं भेदज्ञानसामर्थ्य यस्य तादृशः अयम् अनुभवसिद्धः। पुराण इति अनादिनिधनत्वाद् द्रव्यव्यवस्थिते: अनादिनिधनस्य च साधनान्तरानपेक्षत्वाद् गुणपर्यायात्मानमात्मनः स्वभावं मूलसाधनमुपादाय सिद्धत्वात् । यत् तूत्पद्यते न तद् द्रव्यं कादाचित्कत्वात्, स पर्यायः व्यणुकादिवत् मनुष्यादिवच्चेति । पुरुष इति पुरि-देहे शयनात् १ अयं देवादिको धातु तेन च 'तान्त'शब्दस्य निष्पत्तिः २ घाति इति नामकं कर्म।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122