Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 22
________________ __ २ द्वात्रिंशिका] अध्यात्मबिन्दुः भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके। तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम् ॥ वर्तमानतत्पर्यायो भावः । तदुक्तम् - भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाऽनुभावात् ॥ नयः प्रमाणप्रतिपन्नाथै कांशग्राही । स द्विविधः - द्रव्यार्थिकः पर्यायार्थिकश्च । तत्र द्रव्य-पर्यायात्मके वस्तुनि द्रव्यं यो मुख्यतया व्यवहरति स द्रव्यार्थिकः । शुद्धाशुद्धनिश्चयावप्यत्रैवान्तर्भवतः, अभेदानुपचरिततया वस्तुनो निश्चयात् । यस्तु पर्यायं मुख्यतया व्यवहरति स पर्यायार्थिकः । तत्र द्रव्यार्थिकस्त्रिधा - नैगम-सङ्ग्रहव्यवहारभेदात् । पर्यायार्थिकश्चतुर्धा-ऋजुसूत्रशब्द-समभिरूद्वैवंभूतभेदेनेति । एते सर्वेऽपि अधो वर्तमाने पदे स्थिताः विकल्परूपत्वेनैषां शुद्धवस्त्ववबोधार्थप्रवणो हि व्यापारः । एतैर्हि सम्यक् स्व-परविभागपूर्वकं बोधिताः शिष्याः सुष्ठ वस्तु परिच्छिन्दन्ति । ततश्च निर्विकल्पपदवीमनधिरूढानां सविकल्पपदे वर्तमानानां धर्मधर्मिशुद्धाशुद्धभेदाभेदादिविवेचनार्थं तदात्वे प्रयोजनवन्तोऽप्येते नित्यनिर्विकल्पानन्दघनपरमसमाधिप्रपन्नानां नार्थक्रियाकारिण इति । एतदेवाह - प्रपश्यताम् इति । शान्तं प्रलीनवासनोन्मेषतयाऽनाकुलम् । अनन्तम् इति आविद्यकसंसारित्वपर्यायप्रध्वंसेऽपि नित्यानन्दस्वरूपेणाऽऽयतौ निरवधिप्रतपनाद् अन्तरहितम् । ऊर्ध्वम् इति कर्तृत्वभोक्तृत्वादिभावव्यपोहपूर्वकं बन्ध-मोक्षपद्धतेरूचं वर्तमानं पदम् आत्माख्यं वस्तु प्रपश्यतां साक्षाद् अनुभवतां योगिनाम् एषां प्रमाणादीनां कतमोऽपि न भाति । साध्यसिद्ध्यर्थं हि कारकचक्रप्रक्रियापर्येषणं प्रामाणिकानां प्रसिद्धम्, परिनिष्ठिते तु कार्ये न तदुपयोगो दण्डादिवदेवेति सिद्धं प्रमाणादीनामधः पदे वर्तमानत्वम्॥१३॥ अथ बन्धादयोऽपि कर्मजा भावा न त्वात्मस्वरूपभूता इत्यावेदयति - बन्धोदयोदीरणसत्त्वमुख्याः, भावाः प्रबन्धः खलु कर्मणां स्यात् । एभ्यः परं यत्तु तदेव धामा ऽस्म्यहं परं कर्मकलङ्कमुक्तम् ॥१४॥ व्याख्या - सकषायस्य जीवस्य कर्मयोग्यपुद्गलादानं बन्धः । तथा च वाचकः 'सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स बन्धः' [तत्त्वार्थसूत्र, ८.२] । स च प्रकृत्यादिभेदाच्चतुर्विधः। तदुक्तम् – 'प्रकृति-स्थित्यनुभाग-प्रदेशास्तद्विधयः' इति [तत्त्वार्थसूत्र,

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122