Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
२५
द्वात्रिंशिका]
अध्यात्मबिन्दुः व्याख्या - अयं शुद्धरूपः शुद्धद्रव्यार्थिकनिरूपणया क्षीरोदकवत् कर्मपुद्गलसंश्लेषेऽपि स्वरूपापरित्यागाद् विशुद्धस्वभावः । चिदात्मा सत्त्वप्रमेयत्वाद्यनन्तधर्माधारत्वेऽपि चेतनयैवेतरद्रव्यव्यावृत्तिसम्भवादसाधारणगुणत्वख्यापनार्थं चिद्ग्रहणम् । द्वेषरागाद्युपाधेः स्वतः पृथग्भूतद्रव्यान्तरपौद्गलिकमोहोत्तरप्रकृतिभूताद् द्वेष-राग-लक्षणादुपाधेः । आदिशब्देन द्रव्यान्तरभूता मिथ्यात्वादयोऽपि गृह्यन्ते। मिथ्यात्वादयो हि भावा जीवाजीवाभ्यां भाव्यमानत्वाज्जीवाजीवभूताद्वैततां नातिवर्तन्ते। अत एव जीवमिथ्यात्वमजीवमिथ्यात्वम्, जीवाविरतिरजीवाविरतिः, जीवकषायोऽजीवकषाय इत्यादि तन्त्रान्तरे गीयते । तत्र पौद्गलिककर्मणा भाव्यमाना अजीवा इत्युच्यन्ते, चैतन्यविकारमात्रेण जीवेन भाव्यमाना जीवा इत्युच्यन्ते । तदत्र पौद्गलिका गृह्यन्ते । तल्लक्षणादुपश्लेषाद् यदपि स्फटिकमणिरिव विविधभावं नानारूपतां भजति । तथाहि - यथा स्फटिकमणिः परिणामस्वभावत्वे सति काञ्चन-कदली-पा(प)त्रादिविचित्रोपाश्रयवशात् पीत-हरितादिरूपतामास्कन्दति।तदपि अयम् आत्मास्वं रूपं नैव जाहाति चिन्मात्रतां त्यक्त्वा अचिद्रूपतां नाऽऽपद्यते । कारणसहस्रेणापि स्वभावस्यापोहितुमशक्यत्वादिति भावः । एतदेवार्थान्तरन्यासेन दृढयति-न खलु इति । चान्द्री मरीचिर्ध्वान्तरूपा न खलु भवति । एवं च रागाद्यात्मपरिणामानां पौद्गलिकमोहप्रकृतिविपाकजन्यत्वात् "कारणानुविधायि कार्यम्" [
] इति न्यायाद् असद्भूतव्यवहारेणाचेतनत्वमपि सिद्धमिति भावः । यत्तु 'मोहणकम्मस्सुदया' [समयसार, १.६८] इति समयसारीयगाथाव्याख्यानावसरे अमृतचन्द्रसूरिणा गुणस्थानातिदेशेन मार्गणास्थानादिप्रमुखाणामपि केषाञ्चिदौदयिकत्वेनाचेतनत्वमापादितम्, तत्र मार्गणान्त:पातिकेवलज्ञानदर्शनादीनामप्यौदयिकत्वमचेतनत्वं चापतत् केन निवार्यम् ? न चैतदिष्टं जैनागमे क्वाऽप्यदृष्टत्वात् । तस्मात् तदभिप्रायं स एव वेद । जाहाति इति 'ओहाक् त्यागे' इत्यस्य यङ्लुकि रूपम् ॥१८॥ अथ अज्ञानादेव कर्म प्रभवतीत्याह -
परं स्वात्मत्वेन स्वमपि च परत्वेन कलय
नयं रागद्वेषाद्यनियतविभावैः परिणतः। ततो रज्ये रुष्याम्यहमिति विकल्पाननुकलं
----- प्रकुर्वन् जीवोऽयं ननु जगति कर्माणि कुरुते ॥१९॥ व्याख्या - परं राग-द्वेष-सुख-दुःखादिरूपपुद्गलपरिणाम, तन्निमित्ततयाऽनुभवन् पुद्गलप्रचयरूपं शरीरादिकं च स्वात्मत्वेन कलयन् अज्ञानेन परस्परविशेषानिर्ज्ञानात् स्वस्वभावत्वेन जानन् । तथा शुद्धबुद्धैकचैतन्यस्वरूपस्वात्मानं च परत्वेन विश्वरूपोऽहमिति

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122