Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 20
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः पुरुषः आत्मा । परात्मनोस्तत्त्वमसंविदानः रागाद्युपहितस्वरूपशंवेदनेन ज्ञेय-ज्ञायकभावापन्नौ परात्मानावेकत्वेनावबुध्यमानः आत्मन्यसकृत् कर्तृत्वं प्रयुडक्ते । अयं सिद्धान्त :- अयं किल आत्मा परभावसंवलितस्वरूपस्वादनेनानुबुद्धभेदज्ञानशक्तिरनादित एवास्त। ततः परात्मानावेकत्वेन जानन् 'क्रोधोऽहम्' इत्यादिविकल्पं करोति । ततो निर्विकल्पादकृतक-ज्ञानरसनिर्भरात् स्वस्वरूपात् प्रच्युतो भूयो भूयोऽनेकविकल्पैरात्मानं व्याकुलयन् ‘करोम्यहमेषः' इति कर्तृत्वमात्मन्यध्यास्य कर्ता प्रतिभाति। ज्ञानी तु सन् परभावविविक्तस्वस्वरूपस्वादनेन उद्बुद्धभेदज्ञानशक्तिः 'ये एते कषायास्ते ममास्वभावभूताः, एतैः सह यदेकत्वविकल्पकरणं तदज्ञानात्' इत्येवं नानात्वेन स्व-परौ जानन् क्रोधादिभ्य आत्मनो व्यावर्तनेन समस्तमपि कर्तृत्वमत्यस्यति, ततो नित्यं जगत्साक्षीभूतो जानीत एवेति सिद्धं भेदज्ञानस्यैव पुरुषार्थसिद्ध्युपायत्वम् । तदभावे तु कर्तृकर्मजा क्लेशसन्ततिरविच्छनप्रवाहैवेति ॥११॥ अथ परद्रव्येष्वात्माऽऽत्मीयबुद्धेः स्वाज्ञानविजृम्भितत्वेन तदपनोदप्रकारमाहस्वतोऽन्यतो वाऽप्यधिगत्य तत्त्वं यदेष देवः किल संप्रबुद्धः । द्रव्यं परं नो मम नाहमस्ये तीयति बुद्धि यदि बध्यते किम् ? ॥१२॥ व्याख्या - एषः अनुभवसिद्धज्ञानदर्शनसामान्यात्मा देवः सकलाऽविद्याविलये ज्ञानानन्दात्मनि स्वरूपे क्रीडनात् स्वतो निसर्गतः अन्यतो गुरूपदेशाद्वा तत्त्वमधिगत्य प्राप्य । निसर्गाधिगमयोरुभयोरपि तत्त्वाधिगमं प्रति हेतुत्वादुभयोपन्यासः । तत्र निसर्गतोऽनादिमिथ्यादृष्टेर्दर्शनमोहोपशमात्, तदितरस्य तु तत्क्षयक्षयोपशमादिप्रकारेणाऽऽजन्म-दुःस्थस्य चिन्तारत्नलाभ इव स्वरूपज्ञानलाभो जायते । एवं संप्रबुद्धः सन् 'परं द्रव्यं मम नो''अहमस्य नो' इति यदि बुद्धिमियर्ति अधिगच्छति तर्हि किं बध्यते अपि तु न । अयं भावः - अस्य किलात्मनो मोहानलतप्तस्याविचारितरमणीयेषु परभावेषु तृष्णातिरेकवशात् स्व-स्वामिभावबुद्धिर्जायते, ततोऽनवरतं तेष्वभिष्वङ्गपरस्य ज्ञेयार्थपरिणमनलक्षणया क्रियया युज्यमानत्वात् क्रियाफलभूतो बन्धः सम्पद्यते। तथाहि - अस्ति हि इष्टानिष्टान् विषयानवाप्य राग-द्वेषाभ्यां तद्भावनाभावितस्य तन्मयीभूय तदेव वस्त्वध्यवस्यतो ज्ञानस्य ज्ञेयाकारता । ज्ञानं हि भावनाबलादसन्निहितमपि वस्तु तदाकारीभूय पुरःस्थितमिवावभासयति । तथा - १ कर्तृत्वम् अत्यस्ति-दूरे क्षिपति ।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122