Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
द्वात्रिंशिका ]
अध्यात्मबिन्दुः
अमुमित्युपलक्षणं केवलनिश्चयस्यापि । यः खलु केवलनिश्चयावलम्बी अबद्धस्पृष्टमात्मानं मन्यमानः सकलमपि क्रियाकाण्डमस्वभावत्वेनानाद्रियमाणः भिन्नसाध्य - साधनभावोपरतचित्तवृत्तिः अभिन्नसाध्य-साधनभावमनासादयन्नन्तराल एव विषण्णः पारमेश्वरीकर्मचेतनां पुण्यबन्धभयेनानङ्गीकुर्वाणः परमनैष्कर्म्यरूपज्ञानचेतनास्वादं स्वप्नेऽप्यसम्भावयन् प्रमादपरतन्त्रः सुप्तोन्मत्तमूच्छित इव प्रकामं पापबन्धमेव प्रकुरुते । उक्तं च -
-
"निच्छयमालंबंता, निच्छयदो निच्छयं अयाणंता ।
१५
नासंति चरण-करणं, बाहिरचरणालसा केई ||" [ ओघनिर्युक्ति गा. ७६१]
केवलग्रहणात् परस्परसापेक्षयोरन्यतरानवलम्बनात् साध्यासिद्धिरुदाहृता । तथाहि ये खलु परमर्षयः चैतन्यरूपात्मतत्त्वविश्रान्ते विहितश्रमाः अनादिप्रवृत्तपरभावविश्रान्तिवैमुख्यमासूत्रयन्तः निष्कम्पवृत्त्याऽऽत्मन्येवात्मानं संचिन्तयमानाः प्रमादकादम्बरीलेशस्याप्यवकाशमयच्छन्तः स्वच्छोच्छलच्चिच्छक्तिनिर्झरानन्दसन्दर्भगर्भितात्मीयानन्तशक्तिसमुज्जीवनासाधारणकारणसमरसीभावप्रधानात्मवृत्तयः स्वर्णादिनिष्कम्पाः समलेष्टुकाञ्चनास्तेऽनाद्यपारसंसारपारावारपारमासाद्यानन्तसुखभाजनं भवन्तीति उभयनयायत्तैव पारमेश्वरीदेशनेति सर्वं सुस्थम् ॥६॥ पूर्वं सामान्यतः प्रोक्तमपि निश्चयस्वरूपं पुनर्विशेषजिज्ञासार्थमाह
आत्मस्वरूपं पररूपमुक्त
मनादिमध्यान्तमकर्तृभोक्तृ । चिदङ्कितं चन्द्रकरावदातं,
प्रद्योतयन् शुद्धनयश्चकास्ति ॥७॥
व्याख्या - आत्मस्वरूपं शुद्धं चिदानन्दमयम्, पररूपं स्वरूपातिरिक्तमौपाधिकरागद्वेषसंवलितचैतन्यानुभवस्तेन मुक्तम् । तथा अनादिमध्यान्तम् इति आदिमध्यान्तवन्तो हि देवनारकादिपर्याया नामप्रकृत्युदयसम्भूता: संख्येयमसङ्ख्येयं कालमात्मनि कृतस्थितयोऽपि न निश्चयतः शुद्धस्य चिदात्मनः स्वरूपभूता आदिमध्यान्तशून्यत्वात् तस्येत्यकृतकस्वरूपमुक्तम्। तथा अकर्तृ, आत्मा हि अशुद्धनिश्चयेन संसारावस्थायामनादिबन्धनबद्धत्वादात्मनः पारिणामिकचैतन्यभावमत्यजन्नेव राग-द्वेषादिभावैः परिणमन् तत्काले तन्मयत्वेन स्थितत्वाद् भवति तत्तद्भावानां कर्ता, 'यः परिणमति स कर्ता' इति उक्तम् । शुद्धनिश्चयतस्तु अबद्धस्पृष्टत्वेनौपाधिकभावानवकाशात् कुतस्तान् परिणामान् व्याप्यान् व्यापकीभूय कुर्याद् येन कर्ता स्यान्नाम? ततः स्थितमेतदकर्त्रिति । तथा अभोक्तृ, यद्यप्यशुद्धनिश्चयेन निमित्तमात्रभूतद्रव्यकर्मनिर्वर्तित

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122