Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 10
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः अध्यात्मग्रहणमितरशास्त्रेभ्योऽस्य मुख्यत्वख्यापनार्थम्। 'पक्षि-पिपीलिकागति'न्यायेनैतस्य झटिति मोक्षसमर्पकत्वात् 'अध्यात्मविद्या विद्यानाम्' [भगवद्गीता, १०.३२] इति तीर्थान्तरीयैरपि स्वीकाराच्च । अथ ततः अध्यात्मतः । तत्त्वामृतं प्रपीय केवलश्रवणस्य साध्यसिद्ध्यनङ्गत्वात् प्रपाणमुक्तम् । प्रपाणं नाम श्रद्धापूविका तदुक्तार्थप्रतीतिः । एवं सति यत् पुनः क्षेत्रज्ञः आत्मा, बद्धस्पृहः सन् अनादिमोहवासनाजनिततृष्णान्तकत्वेन बद्धनिबिडानुरागः विषयग्रामेषु शब्दादिष्विष्टविषयसङ्घातेषु मोमुहीति अतिशयवदात्मोत्थानाकुलस्वभावानन्दामृतमनश्नुवानोऽनास्वादितपूर्वेष्विव अदृष्टचरेष्विव अलब्धपूर्वेष्विव अत्यन्ताकुलत्वजनकेषु स्वभावप्रतिघातेषु पञ्चाक्षात्मकवपुःपिशाचपीडामनधिसहमानो व्याधिसात्म्यतां प्रपन्नेषु सुखाभासोत्पत्तिभूमिभूतेषु अतिशयेन मुग्धो भवति, तन्नूनं त्रिजगज्जये धृतिमतः उत्साहवतो मोहस्य विस्फूर्जितं स्वपराविवेकहेतोरलध्यशासनस्य मोहस्यैतच्चेष्टितम्-यद् विवेकिनोऽपि मुह्यन्तीति भावः । अत्र च ब्रह्मदत्तचक्युपाख्यानं बोध्यम् । नन्वात्मनः क्रियावत्त्वसिद्धौ हि बन्धः सिद्ध्यति । निष्क्रियत्वे मुक्तस्येव बन्धानुपपत्तेः । क्रिया च परिस्पन्दात्मिका । तस्याश्च - "रेजाव णं एस जीवे चलइ खुभइ घट्टइ फंदइ तं तं भावं परिणमइ ताव णं एस जीवे छव्विहबंधए वा सत्तविहबंधए वा अट्ठविहबंधए वा एगविहबंधए वा नो चेव णं अबंधए।" इत्यादिना परमागमेन बन्धहेतुत्वाभिधानात्। सा च स्वतोऽसम्भवन्ती कारणान्तरमाक्षिपति। तच्चान्यदसम्भवत् कर्मैवेति तत्कर्तृकां क्रियामाह - धत्तेऽम्भोधिर्जवनपवनाऽऽच्छोटनोन्मूर्च्छदुग्रो ल्लोलश्रेणीचटुलितवपुर्व्याकुलत्वं यथाऽयम् । निष्कम्पोऽपि स्वरसवशतः कर्मकम्पाकसङ्गं तद्वत् क्षुभ्यत्ययमपि परः पूरुषः संप्रपद्य ॥३॥ व्याख्या-यथाऽयम् अम्भोधिः समुद्रःजवनो वेगवान् यः पवनः तस्यआच्छोटनम् अभिघातः सङ्घट्ट इति यावत् तेन उन्मूर्च्छन्त्यः प्रवर्धमाना उग्रा अभंकषा या उलोलश्रेण्यः कल्लोलपङ्क्तयस्ताभिः चटुलितं तरलीकृतं वपुः शरीरं यस्य तादृशः सन् यथा व्याकुलत्वं धत्ते तद्वत् स्वरसवशतःस्वभावतो निष्कम्पोऽपि निष्क्रियोऽप्ययमपि परः पूरुषः प्रत्यगात्मा कर्मैव कम्पाक': पवनः तस्य सङ्गं प्रपद्य क्षुभ्यति क्रियावान् भवति । अयं भावः - जीवः स्वयं यद्यपरिणाम्येव स्यात् तदा दृश्यमानत्रस-स्थावरत्वादिपर्या१ अक्षाणि इन्द्रियाणि । २ द्र० प्रज्ञापना० सू०२२.२८६ । भगवती० ३.३.१५३ । ३ असंभवत् इति वर्तमानकृदन्तरूपम्। ४ कम्पनशीलः कम्पाकः ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 122