Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 9
________________ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा अयं भावः - अनादौ संसारे-आसंसारात् सकलस्यापि प्राणिवर्गस्यानवरतमनन्तैर्द्रव्यादिपञ्चपरावर्तेश्चक्रवर्द्राम्यमाणस्य महता मोहान्धकारेण मुद्रितविवेकलोचनपुटस्य विषयतर्षोत्कर्षविवशीकृतस्याप्रवितायतौ दुःखोदर्कदृष्टनष्टान् स्वप्नोपमान् विषयान् उपरुन्धानस्यानन्तकृत्वो नानायोनिषूत्पत्तिविपत्तिक्लेशैरभिद्रुतस्य परभावेष्वेवाश्रान्तविश्रान्तदृष्टेः स्वतत्त्वविमुखस्य सिकतासरस्वतिपतिता वज्रकणिकेव दुर्लभा मनुष्यत्वावाप्तिः । कथञ्चित् कर्मलाघवात् तदवाप्तावपि जनुषान्धस्य दृगवाप्तिरिव दुर्लभा विवेकख्यातिः, तल्लाभ एव संसारस्य निस्तीर्यमाणत्वात्, तदधिगमोऽपि के षाञ्चित् पुण्यशालिनां भरतादीनां चणकमुष्टिक्रीतचिन्तारत्नगृहकोणवर्तिवणिजवदयत्नसाध्य एवेति भरतोपाख्यानेन तस्य माहात्म्यमुपनिबद्धम् । भरतोपाख्यानं च प्रसिद्धमेवेति न लिखितमिति ॥१॥ लब्ध्वाऽऽयंत्वमथ प्रपद्य च गुरोर्नैकट्यमेनःक्षया च्छ्रुत्वाऽध्यात्ममथ प्रपीय च ततस्तत्त्वामृतं यत् पुनः । क्षेत्रज्ञः किल मोमुहीति विषयग्रामेषु बद्धस्पृह ___ स्तन्नूनं त्रिजगज्जये धृतिमतो मोहस्य विस्फूर्जितम् ॥२॥ व्याख्या - आर्यत्वं प्रज्ञापनादौ' बहुधोक्तमपि इह देश-कुलरूपमेव ग्राह्यम्, उभयरूपस्यापि धर्मोपलब्ध्यङ्गत्वात् । तद् लब्ध्वा-आर्यत्वमन्तरेण गुरूपसर्पणधर्मश्रवणं प्रति आभिमुख्याभावाद् अनार्य-कुलदेशोत्पन्नानाम् आर्द्रकुमारप्रभृतीनां केषाञ्चिद् धर्मानुरागं प्रति आभिमुख्यं तत् कादाचित्कमिति न व्यभिचारः । अथैनःक्षयाद् इति निचितनिकाचितकर्मणां हि पापात्मनां जमदग्निसुतमुख्यानामिव गुरुसङ्गमाभावात् पुण्योदयलभ्यतोक्ता । गुरो कट्यं प्रपद्य इति महामिथ्यादृशामपि केकयपतिप्रभृतीनां गुर्वनुशिष्टिसद्भाव एव सम्यक्त्वमूलस्वर्गावाप्तिश्रवणात् । तदुक्तम् - नरयगइगमणपडिहत्थएण तह पएसिणा रण्णा। अमरविमाणं पत्तं तं आयरियप्पहावेणं ॥ [उपदेशमाला, १०३] इति निसर्गाधिगमयोः कारणत्वोक्तावपि बुद्धबोधितानामेव नैकेषां दर्शनाद् गुरुग्रहणम् । हिमानीदूनस्य [= शीतपराभूतस्य] नरस्य दूरस्थेन्धनसन्धुक्षिताशुशुक्षणिवदनुपकारकत्वान्निकटत्वोक्तिः । तथा अध्यात्मं श्रुत्वा विषयव्यासक्तानामर्थलालसानां च केषाञ्चिद् गुरुसङ्गमेऽपि आगमश्रवणस्य दुर्घटत्वात् चतुरङ्ग्यां श्रुतेः परमाङ्गत्वेन वर्णनाच्च श्रुत्वेत्युक्तम्। १ द्रव्य-क्षेत्र-काल-भाव-भवाः इति पञ्चपरावर्ताः । २ भ्र० रा० ला० । ३ पण्णवणा-प्रज्ञापनासूत्रे प्रथमपदे सू०९९-सू०१३८ पृ० ३६-४४-महावीर जैन विद्यालय प्रकाशन। ४ केकयपतिप्रदेशिनृपकथानकं रायपसेणियसूत्रे समागच्छति । ५ 'तद् निसर्गाद् अधिगमाद्वा' तत्त्वार्थसूत्र १.३।६ "चत्तारि परमंगाणि" इत्यादिना उत्तराध्ययनस्य चतुर्थाध्ययने।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 122