Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1434
________________ भरह 1426 - अभिधानराजेन्द्रः - भाग 5 भरह गइया पुंडरीयहत्थगया अप्पेगइया सहस्सपत्तहत्थगया इति संग्रहः। अत्र व्याख्या प्राग्वत्, नवरं भरतं राजानं पृष्ठतः पृष्ठतोऽनुगच्छन्ति, पृष्ठ पृष्ठे परिपाट्या चलन्तीत्यर्थः / सर्वेषामपि सामन्तानामे कैव वैनयिकी गतिरिति ख्यापनार्थ वीप्सायां द्विर्यचनं, न केवल सामन्तनृपा एव भरतमनुजग्मुः, किन्तु-किङ्करीजनोऽपीत्याह-(तए णं' इत्यादि) ततः सामन्त-नृपानुगमनानन्तरं तस्य भरतस्य राज्ञः सम्बन्धिन्यो बढ्यो दास्यो भरतं राजानं पृष्ठतोऽनुगच्छन्तीति सम्बन्धः। कास्ता इत्याहकुब्जाः-कुब्जिका वक्रजन्या इत्यर्थः, चिलात्यः-चिलातदेशोत्पन्नाः, वामनिकाअत्यन्तहस्वदेहा, ह्रस्वोन्नतहृदयकोष्ठा वा, वडभिकामहडकोष्ठा धक्राधः-काया वा इत्यर्थः / बर्बर्यो बर्बरदेशोल्पन्नाः, बकुशिकाःबकुशदेशजाः, जोनिक्यो-जोनकनामकदेशजाः, पलविकाः-पह्नवदेशजाः (ईसेणिआ थारुकिणिआओ त्ति) देशद्वयभवाः ईसिनिकाः थारुकिनिकाः, लासिक्यो-लासकदेशजाः, लकुशिक्यो लकुशदेशजाः, द्राविड्यो द्रविडदेशजाः / सिंहल्यः- सिंहलदेशजाः, आरब्यः-अरबदेशजाः, पुलिन्द्यः-पुलिन्द्रदेशजाः, पक्कण्यः-पक्कणदेशजाः, बहल्योबहलिदेशजाः, मुरुण्डयो-मुरुण्डदेशजाः, शबर्य:-शबरदेशजाः, पारसीका:-पारसदेशजाः / अत्र चिलात्यादयोऽष्टादश पूर्वोक्तरीत्या तत्तद्देशोद्भवत्वेन तत्तन्नामिका ज्ञेयाः, कुब्जाऽऽदयस्तु तिम्रो विशेषणमूताः, अथ यथाप्रकारेणोपकरणेन ता अनुययुस्तथा चाऽऽह अप्येकिका वन्दनकलशा मङ्गल्यघटा हस्तगता यासां तास्तथा, एवं भृङ्गाराऽऽदिहस्तगता अपि वाच्याः, तद्व्याख्यानं तु प्राग्यत्, नवरं पुष्पचङ्गे रीत आरभ्य मालाऽऽदिपदविशेषितास्तचड़े र्यो ज्ञातव्याः। लोमहस्तकचङ्गेरी तु साक्षादुपात्ताऽस्ति, अन्यास्तुलाघवार्थकत्वेन सूत्रे साक्षान्नोक्ताः, आद्यन्तग्रहणेन मध्यग्रहणस्य स्वयमेवलभ्यमानत्यात्, एवं पुष्पपटलहस्तगता माल्याऽऽदि-पटलहस्तगताश्च वाच्याः, अप्येकिकाः सिंहाऽऽसनहस्तगताः, अप्येकिकाः छत्रचामरहस्तगताः, तथा अप्येकिकाः तैलसमुद्गाः तैलभाजनविशेषास्तद्धस्तगताः। एवं कोष्ठसमुद्रकहस्तगता यावत्सर्षपसमुद्कहस्तगताः। अत्र समुद्कसंग्रहमाह- 'तेल्ले कोट्ठ-समुग्गे' इति सूत्रोक्ताः, एतदर्थस्तु राजप्रश्नीयवृत्तितोऽवगन्तव्यः, अप्येकिकास्तालवृन्तहस्तगताः-व्यञ्जनपाणयः, अप्येकिका धूपकडुच्छुकहस्तगता इति। अथ यया समृद्ध्या भरत आयुधशालागृहं प्रापतामाह- (तए णं इत्यादि,) ततः स भरतो राजा यत्रैवाऽऽयुधगृहशाला तत्रैवोपागच्छतीति सम्बन्धः, किम्भूत इत्याह- सर्वांसमस्तया आभरणाऽऽदिरूपया लक्ष्म्या युक्त इति गम्यम् / एवमन्यान्यपि पदानि योजनीयानि, नवरं युतिः- मेलः परस्परमुचितपदार्थानांतया बलेन-सैन्येन समुदयेनपरिवाराऽऽदिसमुदयेन, आदरेण प्रयत्नेन आयुधरत्नभक्त्युत्थ-बहुमा - नेन, विभूषयाउचितनेपथ्याऽऽदिशोभया विभूत्याविच्छट्टेन एवंविधविस्तारेणउक्तामेव विभूषां व्यक्त्याऽऽह- 'सव्वपुप्फे' त्यादि, अत्र पुष्पाऽऽदिपदानि प्राग्वत्, नवरम् अलङ्कारो-मुकुटाऽऽदिरेतद्रूपया सर्वेषां त्रुटितानांतूर्याणां यः शब्दोध्वनिर्यश्च स सङ्गतो निनादः- प्रतिध्वनिस्तेन, अत्र शब्दसन्निनादयोः समाहारद्वन्द्वः / अथ "सर्वमनेन भाजनस्थं वृत पीतम् / " इति लोकोक्तेः प्रसिद्धत्वात् सर्वशब्देनाल्पीयोऽपि निर्दिष्ट भवेत्ततश्च न तथा विभूतिर्वर्णिता भवतीत्याशङ्कमानं प्रत्याह- 'महया इड्डीए' इत्यादि / योजना तु प्राग्वदेव, यावत्शब्दात् महायुत्यादि. परिग्रहः / महताबृहता वस्तुटिताना-निःस्वनाऽऽदीनां तूर्याणां यमकसमकंयुगपत्प्रवादितं भाये क्तप्रत्ययविधानात् प्रवादनं ध्वनितमि - त्यर्थस्तेन, शङ्क:- प्रतीतः, पणवोभाण्डपटहो लघुपटह इत्यन्ये, पटहस्त्वेतद्विपरीतः भेरीढक्का झलरीचतुरङ्गुलनालिःकरटिसदृशी वलयाऽऽकारा, खरमुखीकाहला, मुरजोमहामईलः, मृदङ्गोलघुमईलः, दुन्दुभिः-देववाद्यम्, एषां निर्घोषनादितेन, तत्र निर्घोषोमहाध्वनि दितं च प्रतिरवः-एकवद्भावादेकवचनं पूर्वविशेषणं तूर्यसामान्यविषयमिदं तुतद् व्यक्तिसूचकमित्यनयोर्भेदः। आयुधगृहशालाप्राप्त्यनन्तरं विधिमाह'उवागच्छित्ता' इत्यादि, तत्रोपागत्य आलोके दर्शनमात्र एव चक्ररत्नस्य प्रणाम करोति, क्षत्रियैरायुधवरस्य प्रत्यक्षदेवतात्वेन सङ्कल्पनात्, यत्रैव चक्ररत्नं तत्रैवोपागच्छति, लोमहस्तकंप्रमार्जनिकां परामशतिहस्तेन स्पृशति, गृहातीत्यर्थः, परामृश्य च चक्ररत्नं प्रर्जियति, यद्यपि न तादृशे रत्ने रजः सम्भवस्तथापि भक्तजनस्य विनयप्रक्रियाज्ञापनार्थमयमुपन्यासः-प्रमाय॑ च दिव्ययोदकधारया अभ्युक्षतिसिञ्चति; स्नपयतीत्यर्थः / अभ्युक्ष्य च सरसेन गोशीर्षचन्दनेनानुलिम्पति, अनुलिप्यच अप्रैः- अपरिभुक्तैरभिनवैर्वरैर्गन्धमाल्यैश्वार्चयति / एतदेव व्यक्त्या दर्शयति-पुष्पाऽऽरोपणं माल्याऽऽरोपणं वर्णाऽऽरोपणं चूर्णाऽऽरोपणं वस्त्राऽऽरोपणं आभरणाऽऽरोपणं करोति कृत्वा च अच्छ:-अमलैः, श्लक्ष्ण:-अतिप्रतलैः-श्वेतैः रजतमयैरत एव अच्छो रसो येषां ते अच्छरसाः, प्रत्यासम्नवस्तुप्रतिबिम्बाऽऽधारभूता इयातिनिर्मला इति भावः एतादृशैस्तण्डुलैः-अत्र पूर्वपदस्य दीर्घान्तता प्राकृतत्वात्, स्वस्तिकाऽऽदयोऽष्टाष्टमङ्गलकानिमगल्यवस्तूनि आलिखतिविन्यस्यति, अत्र चाऽष्टाऽष्टेति वीप्सावचनात् प्रत्येकमष्टाविति शेयम्, यद्वाअष्टेति संख्याशब्दः अष्टमङ्गलकानीति चाखण्डः संज्ञाशब्दः, अष्टानामपि मङ्गलकानाम्, अथोक्तानामेव मङ्गलकाना व्यक्तितो नामानि कथयन् पुनर्विध्यन्तरमाह, तद्यथा-स्वस्तिकमित्यादि, व्याख्या तु प्राग्वत्, अत्र द्वितीयालोपः प्राकृतत्वात्, इमान्यष्टमङ्गलकानि आलिख्य आकार-करणेन कृत्वाअन्तर्वर्णकाऽऽदिभरणेन पूर्णानि कृत्वेत्यर्थः, करोति उपचारम्उचितसेवामिति, तमेव व्यनक्ति किन्ते इति तद्यथेत्यर्थे , तेन विवक्षित उपचारः उपन्यस्त इत्यर्थः, पाटल-पाटलपुष्पं, मल्लिका-विचकिलपुष्पंयलोके--'वेलि' इति प्रसिद्धम्, चम्पकाशोकपुन्नागाः प्रतीताः चूतमञ्जरी आम्रमञ्जरी, बकुलः-केसरो यः स्त्रीमुखसीधुसिक्तो विकसति तत्पुष्प, तिलको यः स्त्रीकटाक्षनिरीक्षितो विकसति तत्पुष्पम्, कणवीरं कुन्दंच प्रतीते कुब्जक-'कूचो' इति नाम्ना वृक्ष विशेषस्तत्पुष्पं,कोरण्टकंप्राग्वत्, पत्राणिमरुवकपत्राऽऽदीनि, दसनकः-स्पष्टः, एतैर्वरसुरभिः-अत्यन्तसुरभिः, त

Loading...

Page Navigation
1 ... 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636