Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भिक्खु 1562 - अभिधानराजेन्द्रः - भाग 5 भिक्खु नर्थाय वा विना प्रयोजनेनाऽऽर्तध्यानचिन्तनखराऽऽदिभावणलक्ष्येवधनाऽऽदिभिः प्राणातिपाताऽऽदौ प्रवृत्तान तत्परान् तानेवंभूतान् विद्याद्विजानीयात् द्रव्यभिक्षून इति, प्रवृत्ताश्चैवं शाक्याऽऽदयः, तद्रव्यभिक्षव इति गाथार्थः / / 336 / / एवं स्त्र्यादिसंयोगात् विशुद्धतपोनुष्ठानभावाच्चाबहाचारिण एते इत्याहइत्थीपरिग्गहाओ,आणादाणाइभावसंगाओ। सुद्धतवाभावाओ, कुतित्थियाऽवंभचारित्ति॥३४०|| स्त्रीपरिग्रहादिति दास्यादिपरिग्रहात्, आज्ञादानाऽऽदिभावसङ्गाच्च परिणामाशुद्धेरित्यर्थः, न च शाक्या भिक्षवः, शुद्धतपोऽभावादिति शुद्धस्य तपसोऽऽभावात्, तापसाऽदयः कुतीर्थिका अब्रह्मचारिण इति, ब्रह्मशब्देन शुद्धं तपोऽभिधीयते, तदचारिण इति गाथाऽर्थः / उक्तो द्रव्यभिक्षुः / दश० 10 अ०। भावभिक्षुर्द्विधा-आगमतो, नोआगमतश्च / आगमतो भिक्षुशब्दार्थस्य ज्ञाता तत्र चोपयुक्तः, "उपयोगो भावनिक्षेपः" इतिवचनात्। नोआगमतः संयतः। तथा चाऽऽह-''भावेण उ संजतो भिक्खू।"भावेन भिक्षुः, तुशब्दो विशेषणार्थः, स चामु विशेष द्योतयति-नोआगमतः संयतः सम्यक् त्रिविधं त्रिविधेन समस्तसावद्यादुपरतः / (5 गा०टी०) अत्रैव नोआगमतो भावभिक्षुः भिक्षणशीलो भिक्षुरिति व्युत्पत्तिमधिकृत्याऽऽक्षेपपरिहारावभिधित्सुराह भाष्ययकार:भिक्खणसीलो मिक्खू, अण्णे विनते अणण्णवित्तिता। निप्पिसिएणं नायं, पिसियालंभेण सेसाओ।।६।। ननुयदेतत्त्वयोक्तम् भिक्षणशीलो भिक्षुः, इति तदसमीचीनम्, अतिव्याप्तिदोषप्रसङ्गात्। तथाहि-भिक्षणशीलो भिक्षुरित्युच्यमानेऽन्येऽपि रक्तपटाऽऽदयो, नोआगमतो भावभिक्षवः प्राप्नुवन्ति तेषामपि भिक्षाजीवितया भिक्षणशीलत्वात्, न चैतदिष्यते, तस्मादतिव्याप्तिःभाव भिक्षुलक्षणस्य दोषः / अत्र सूरिराह-नते शेषा रक्तपटप्रभृतयो भिक्षवः / कुतः? इत्याह-अनयवृत्तित्वात्, न विद्यते अन्या भिक्षामात्रत्वात्व्यतिरिक्ता वृत्तिर्वर्तन येषां ते अनन्यवृत्तयस्तद्धावस्तत्वं तस्मात्, अनन्यगतिकत्वादित्यर्थः / किमुक्तं भवति?यदा आधाकर्मिकमौद्देशिकमध्याहृतं वा न लभन्ते तदा अनन्यगतिकतया भिक्षापरिभ्रमणशीलास्ततो न ते भिक्षवः / इयमत्र भावनाद्वे शब्दस्य निमित्ते। तद्यथा-व्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं च। यथा गोशब्दस्य तथाहि-गोशब्दस्याव्युत्पत्तिनिमित्त गमनक्रिया, गच्छतीति गौरिति व्युत्पादनात् तेन च गमनेनैकार्थिसमवायितया यदुपलक्षितं सारूस्नाऽदिमत्त्वं तत्प्रवृत्तिनिमित्तं तेन च गच्छति वाऽगच्छति वा गोपिण्डे गोशब्दः प्रवर्तते, उभय्यामप्यवस्थायां प्रवृत्तिनिमित्तभावात्, अश्वाऽऽदौ तु न प्रवर्तते। यथोक्तरूपस्य प्रवृत्तिनिमितस्य तत्राभावात् / एवमत्रापि भिक्षुशब्दस्य द्वे निमित्तेव्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं च / तत्र भिक्षणं व्युत्पत्तिनिमित्त भिक्षते इत्येवं शीलो भिक्षुरिति व्युत्पत्तेः, तेन च भिक्षणेनैकार्थेसमवायितया यदुपलक्षितमिहपरलोकाऽऽशंसाविप्रमुक्तया यमनियमेषु व्यवस्थितत्वं तत्प्रवृत्तिनिमित्तं, तेन भिक्षमाणे अभिक्षमाणे वा भिक्षौ भिक्षुशब्दः प्रवर्तते, उभय्यामपि अवस्थाया प्रवृत्तिनिमित्तसद्भावात्रक्तपटाऽऽदौ तु न प्रवर्तते, नवकोट्यपरिशुद्धाऽऽहारभोजितया तेषु यथोक्तरूपस्य प्रवृत्तिनिमित्तस्याभावात्, अत्रार्थे ज्ञातम्- उदाहरणं कर्त्तव्यं, पिशिताऽलाभेन | यो निष्पिशितस्तेन, यथा कोऽपि ब्रूयात् यावद् मांस न लभे, तावदह निष्पिशितः पिशितव्रती। अविहिंस बंभयारी, पोसहिय अमज्जमंसिया चोरा। सति लंभे परिचाई, हुंति तदक्खा न सेसा उ / / 7 / / कोऽपि भाषेत- अहमहिंसावृत्तिःयावत् मृगाऽदीनपश्यामि / अन्यः कोऽप्येव ब्रूयात--अहं ब्रह्मचारी यावन्मम स्त्री न संपद्यते / अथवाकोऽप्येवमाह-अहमाहारपौषधीयावन्मम आहारोनसंपद्यते। यथा वा कोऽपि वदेत्-अहमद्यमांसवृत्तिः यावन्मद्यमांसे न लभे यथा वा कोऽपि नियमं प्रतिपद्यते अचौरवृत्तिरहं यावत् परस्य छिद्रं न पश्यामीति / एते यथा पिशिताद्यऽऽलाभेन निःपिशिताऽऽदयो नामपिशितवृत्त्याऽदयः / व्रतंच सति असति वा वस्तुनितदिच्छापरित्यागतस्तन्निवृत्तिः निष्पिशिताऽदीनां तु पिशिताऽऽदिष्विच्छासततानुबन्धिनी ततो न ते पिशितव्रत्यादयः व्रतिशब्दप्रवृत्तिनिमित्तभावात् / तथा चाह- (सति लभे इत्यादि) सति विवक्षितस्य पिशिताऽदेर्वस्तुनो लाभेऽपि तत्परित्यागिनस्ते तदाख्यापिशितव्रत्याख्या भवन्ति / सत्यपि वस्तुनो लाभे तत्परित्यागतः, सतिअसतिवा वस्तुनि तद्विषयेच्छापरित्यागात, शेषास्त्वनन्त रोदिता निष्पिशितऽऽदयो न तदाख्याः पिशिताद्यलाभेऽपि तद्विषयेच्छानिवृत्त्यभावात्। एवं रक्तपटाऽऽदयोऽपि न भिक्षवः पचनपाचनाऽऽदिनवकोटीविषयेच्छानिवृत्त्यभावात्तदभावश्चाधार्मिकाऽऽदिष्वपि प्रवृत्तेः तदेवं निष्पिशिताऽऽदिदृष्टान्तोपन्यासेन रक्तपटाऽऽदिषु यथोक्तरूपप्रवृत्तिनिमित्ताऽभावतो भिक्षुशब्दप्रवृत्यभाव उक्तः। अथवाकि मेतेरुपन्यस्त दृष्टान्तैर्भिक्षुवृत्तेः जगत्प्रसिद्धायास्तेषु साक्षादभावः दर्शनत एव भिक्षुशब्दप्रवृत्त्यभावस्य सिद्धत्वात्। तथा चाऽऽहअहवा एसणासुद्धं, जहा गेण्हंति साहुणो। भिक्खं नेव कुलिंगत्था, भिक्खजीवि वि ते जदि।।८।। अथवेति-प्रकारान्तरद्योतने, तच्च प्रकारान्तरं पातनिकायामेव भावित, यद्यपि ते रक्तपटाऽऽदयो भिक्षाजीविनस्तथापि यथा साधवः एषणाशुद्धाम् एषणादोषेः-शङ्किताऽऽदिभिः, उपलक्षणमेतत्-उद्गमदोषैःआधाकर्मादिभिः उत्पादनादोषैः- धात्रीदूत्यादिभिः परिशुद्धां भिक्षा गृह्णन्ति, नैवम्-अमुना प्रकारेण कुलिङ्गस्थाः - कुत्सितलिङ्गधारिणो रक्तपटाऽऽदयः ततो भिक्षुवृत्तेर्जगत्प्रसिद्धायास्तेष्वभावतो न ते भिक्षवः। तथा चाऽऽहदगमुद्देसिय चेव, कंदमूलफलाणि य। सयं गाहा परतो य, गेण्हंता कहं भिक्खुणो दकम्- उदकं सचित्तं तडागाऽऽदिगतम्, उद्देशिकम्- उद्दिष्टकृत-- कर्मभेदम् उपलक्षणमेतत् आधाकाऽऽदि च तथा कन्दमूलफलानि च स्वयम-आत्मना गृह्णन्तीति स्वयं ग्राहाः। "वा ज्वलाऽऽदिदुनीभूग्रहास्रोर्णः" / 5 / 16 / इति वैकल्पिको णप्रत्ययः / स्वयं गृह्णन्त इत्यर्थः / परतश्च गृह्णन्तः कथं भिक्षवः, भिक्षावृत्तेरभावात्। अथका सा जगत्प्रसिद्धा भिक्षुवृत्तिर्यदभावान्न ते भिक्षव इति भिक्षुवृत्तिमुपदर्शयति-- अचित्ता एसणिज्जा य, मिया काले परिक्खिया।

Page Navigation
1 ... 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636