Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1580
________________ भिक्खुपडिमा 1572 - अभिधानराजेन्द्रः - भाग 5 भिक्खुपडिमा न पूर्वसङ्ख्याविरोधः, एवं दश 10, एकादशी अहोरात्रप्रमाणा अहोरात्रिकी 11, एकरात्रिन्दिवा एकरात्रिप्रमाणा, अत्र रात्रिन्दिवाशब्दादपि रात्रिरेव ग्राह्या, अन्यथा एकरात्रिकी इत्यस्याऽविरोधात. पूर्वं तु अहोरात्रिका इत्यस्याऽभिधानात् / / 12 // इति संक्षेपतो द्वादशभिक्षुप्रतिमाणां स्वरूपमभिधाय सम्प्रति प्रत्येकमाचारविधिमभिधित्सुराहमासियं भिक्खुपडिमं पडिवन्नस्स अणगारस्स, निचं वोसट्ठकाए चियत्तदेहे, जे केई उवसग्गा उप्पजंति। तं जहा- दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पण्णे सम्म सहति, खमति, तितिक्खति अहियासेति। मासिकी भिक्षुप्रतिमा प्रतिपन्नस्य भिक्षोः, अयमाचारो भवति इति शेषः / तद्यथा-(निचं वोसट्ठकाए त्ति) नित्यमनवरतं व्युत्सृष्टकायः परिकर्मवर्जनात्, प्रीतः प्रीतिकारीति, उक्ताऽनेकपरीषहसहनादिह येन स त्यक्तप्रीतदेहः; व्यत्ययः प्राकृतत्वात् / ये केचन उपसर्गा उत्पद्यन्ते। तद्यथा-दैवा देवकृताः, मानुष्या मनुष्यकृताः तिर्यग्योनिकास्तिर्यककृताः। (ते इति) तान् परीषहान् उत्पन्नान् सम्यग्यथा भवति मुखाऽऽद्यविकारकरणेन सहते सभयाभावेन, (खमति त्ति) क्षमति क्रोधाऽभावेन, तितिक्षते दैन्यानवलम्बनेन अचलकायतया। मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पति एगा दत्ती भोयणस्स पडिग्गाहित्तए, एगा पाणस्स, अण्णाउत्थं सुद्धं उवहडं णिज्जूहित्ता बहवे दुपयचउप्पयसमणमाहण अतिहिकिवणवणीमए कप्पति से एगस्स भुंजमाणस्स पडिग्गाहेत्तए, णोदोण्हं, णो चउण्हं, णो पंचण्हं, नो गुव्विणीए, नो बालवच्चाए, णो दारगं पेजमाणीए, णो अंतो एलु यस्य दो वि पाए साहल दलमाणीए, णो बाहिं एलुयस्स दोवि पाए साहट्ट दलमाणीए, एगं पादं अंतो किच्चा एगं पादं बाहिं किच्चा एलुयं विक्खंभइत्ता एवं दलयति, एवं से कप्पति पडिग्गाहित्तए, एवं से नो दलयति, एवं णो कप्पति पडिग्गाहित्तए। (अणगाररस त्ति) द्रव्यभावभेदभिन्नागारद्वयवर्जितस्य कल्पते युज्यते एका दत्तिर्भोजनस्याशनस्य प्रतिग्रहीतु केवलं कामतया। अत्र पानीयस्य दत्तिप्रमाणम्- ('दति' शब्दे चतुर्थभागे 2446 पृष्ट 106-110 गाथाभ्या निरूपितः )(अण्णाउत्थंति) अज्ञातोत्थपरिचयाकरणेनाज्ञातः सन उत्थं द्रव्यगृहस्थप्रग्रहोद्वरितं भावतोऽन्यभिक्षुकवत्तथाविधप्रतिपत्तिं विना दत्तं न तु ज्ञात तद् बहुमतमिति, एतदपि शुद्धम् उद्गमाऽऽदिदोषरहितं न तु तद्विपरीतम्। अथवा शुद्धं मलापहृतं (उवहडमिति) अन्यस्य भोक्तुकामस्य कृते उपनीतं, भिक्षाचरस्य वा कृते उपनीतं, तेन च नेप्सितं दत्तशेष वा (पिज्जू-हिता इति) निर्वर्त्य बहून् द्विपदचतुष्पद श्रमण - बाह्यातिथिकृपणवनीपकान् यथतेषामन्तायदोषो न भवति तथैव ते परिहर्त्तव्याः / तत्र द्विपदा मनुष्यपक्षिणः, चतुष्पदा गोमहिष्यादयः, श्रमणाः निर्ग्रन्थशाक्यतापसगिरिकाऽऽजीविका इति, ब्राहाणा भोजनकालोपस्थायिनः, अतिथयस्त्वेवम्- ('अइहि 'शब्दे प्रथमभागे 33 पृष्ठे दर्शिताः) कृपणा दरिद्राः, (ते च कियण' शब्द तृतीयभागे 561 पृष्ठे दर्शिताः) वनीपका वन्दिप्रायाः, एकस्य भुजानस्योपनीतं प्रतिग्रहीतुं कल्पते, न द्वयोः, न त्रयाणां,न चतुर्णा न पञ्चानाम् / उपलक्षणं चैतद् बहूनामेतेषामप्रीतिर्भवदिति / नोगुर्वेिण्या गर्भवत्याः, यतस्तस्या हस्ते आहारग्रहणे गर्भस्य पीडा भवति, जिनकल्पिकप्रतिमाप्रतिपन्नास्तु गर्भवती ज्ञात्वा परिहरन्ति, गच्छवासिनस्तु अष्टमनवममासयोः परिहरन्ति / नो बालवत्साया हस्ते आहारो ग्रहीतुं कल्पते, नोदारकं बालकं पाययन्त्याः , क्षीरमिति गम्यम् / (णो अंतो ति) नोऽन्तमध्ये एलुकरयापवरकस्य द्वावपि पादौ संहत्य ददत्याः / एवं बहिरेलुकस्य। कथ तर्हि कल्पते? इत्याह-(एगमित्यादि) एकंपादम्, अन्तर्मध्ये एकंच बहिरपवरकस्य (एलुयं विक्खंभयित्ता) विष्कम्भ्य ददाति, एवं अमुनेव विधिना (से) तस्य साधोः कल्पते प्रतिग्रहीतु एवं चेव ददाति तदा न कल्पते। मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स तओ गोयरकाला पण्णत्ता / तं जहा-आदि, मज्झे, चरिमे / आदि चरेजा णो मज्झे णो चरिमे चरेज्जा, मज्झे चरेजा नो आदि चरेजा णो चरिमे चरेज्जा, चरिमं चरेजा णो आदि चरेज्जा णो मज्झे चरेजा। (मासियं णमित्यादि) मासिकी भिक्षुप्रतिमा प्रतिपन्नस्यान-गारस्य ज्यविसङ्ख्या गोचरकालाः गोरिव चरस्तस्य कालाः प्रस्तावाः प्रज्ञप्ताः। तद्यथा-आद्यो, मध्यः, चरमः। तेषु एवम् अनन्तरोक्तविभागेन चेरत, यथावत्, स क? रूपवत्याः स्त्रियो रूपाऽऽदिषु अमूर्छितो विचरति, किंतु तदानीताऽऽहाराऽऽदिष्वेव निविष्टचेताः तथा-ऽयमपि भगवान् श्रद्धाऽऽदिष्वमूर्छितः तृतीयपौरुष्यामटति। पूर्वमाद्यभङ्गकस्वरूपं यथायत्र भिक्षावेलायां भिक्षाचरानायान्ति भिक्षार्थ तत्र साधुः पूर्वमेव चरति भिक्षार्थम्, अयमाद्यः, द्वितीयस्तु यत्र भिक्षावेलातः पश्चादायान्ति भिक्षुकाः पूर्वमप्यायान्ति तत्र साधुना मध्यकाले गन्तव्यं, यत्रच पूर्वकाले मध्ये च भिक्षवो यान्ति भिक्षायै तत्र साधुना चरमकाले गन्तव्यम् / तथा चोक्तम्"पुव्वं व चरति तेसिं, निययवारेसुवा अडतिपच्छा। जत्थ दोण्णि भवे काला, चरता तत्थ अतिथिए।।१॥" अण्णारट्टे व, अण्णेसु मझे चरति संजतो। गेण्हत देंतयाणं तु, वज्जेय नो अपत्तियं / / 2 / / "जति अण्णे भिक्खायरा मज्झे अडति तो सो पुव्व भिक्ख अडति। अहवा सणियमुसु भिक्खायरेसुपच्छा अडति, जत्थ दो भिक्खवेलाओ तत्थ पढमभिक्खवेले अतिक्कते वितिए भिक्खवेले अप्पत्ते हिंडति।" एवं (दो मासि यंण ति) इत्यादि व्यक्तम्। मासियं भिक्खुपडिम पडिवन्नस्स अणगारस्स छविधा गोयर-चरिया पण्णत्ता / तं जहा- पेला, अद्धपेला, गोमुत्तिया, पयंगविधिया, संबूकाऽऽवट्टा, गंतुं पचागता / मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स जत्थ णं केइ जाणइ कप्पति से तत्थेगराइयं वसित्तए, एत्थ णं के इन जाणति कप्पति से तत्थ एगरातियं वा दुराइयं वा वत्थए, णो

Loading...

Page Navigation
1 ... 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636