Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1583
________________ भिक्खुपडिमा 1575 - अभिधानराजेन्द्रः - भाग 5 भिक्खुपडिमा भ्यामुगावते कदाचिनथा (से) तस्य यत्र तत्रावग्रहीतु परिष्ठापयितु च प्रस्रवणाऽऽदिकं, किं तु कल्पते (से) तस्य पूर्वानुज्ञाते पूर्वप्रतिलिखिते स्थण्डिले उच्चारं प्रसृवणं वा परिष्ठापयितुं, रजः स्वेदतया जल्लतया मल्लतया पङ्कतया (विद्धत्थे ति) विध्वस्तो विनाशं प्राप्तोऽपि परिणतोऽचित्तीजात इति यावत्, तदा (से) तस्य कल्पते गृहपतिकुलं भक्ताय वा पानाय वा निष्क्रमितु प्रवेशयितुमिति / तत्र स्वेदो नाम प्रस्वेदः, जल्लो नाम मलः कठिनीभूतः, मल्लो हस्ताऽऽदिघर्षितः स एव मलो यदा स्वेदेनाऽऽो भवति तदा पङ्कइत्युच्यते इति। (सीओदगवियडेणं ति) शीतं च तदुदकं च शीतोदकं तदेव विकटं विगतजीवमेवमुष्णोदकविकट, वाशब्दो विकल्पसूचकः (हत्थाणि व त्ति) हस्तौ च, बहुत्वं नपुसंकत्वं च प्राकृतत्वात्, एवं पादौ,दन्ताः, अक्षिणी, मुखं वा उच्छोलनया अयतनया धावयितु प्रकर्षेण यतनयाऽपि धावयितु प्रधावयितु, नाऽन्यत्र वक्ष्यमाणादन्यत्रेत्यर्थः / "लेवालेवेण वा लेपस्य उदकेन पात्रादिधावनरूपस्य आसमन्तात् लेपेन आर्द्रतालक्षणेन शरीरे वा शुच्यादिलेपेन / अथवा-शकुनकाऽऽदिना मुखेन वा नयनेन वा (?) हस्ताऽऽदिस्पर्श कृते हस्ताऽऽदिव्याधाते, एतस्मादन्यत्र तथाविधकारणमन्तरा न धावये (?) दाहाराऽऽदिकम् (आसस्सेत्यादि) सुबोध, दुष्टस्याऽऽपतत आगच्छतोवधाऽऽद्यर्थं न कल्पते पदमपि प्रत्यवसर्पितुम, अपिगृह-णादर्द्धपदमपि, इति अदुष्टस्याश्वाऽऽदेः स्वभावत एवा55 - गच्छतः कल्पते युगमानं प्रत्युपसर्पितु, माऽयमुन्मार्गो गत्या हरिताऽऽदिमर्दनं करिष्यतीति कृत्वा स्वयमेव प्रत्यवसप्त। (छायातो त्ति) छायातः शीतकाले शीतमिति कृत्वा, उष्णे शीतपे स्थानं गन्तुम् आगन्तुम्, एवमुष्णकाले उष्णमिति कृत्वा शीतमिति / यद्येव न करोति तदा कि कुर्यादित्याह- 'जं जत्थ' इत्यादि। यद्यत्र यदा शीतादितत्ततः शीताऽऽदिक तत्र तरिमन्नेव स्थाने तदा तस्मिन्नेव शीताऽऽद्यवसरे अध्यासते। एवमित्यादि एवमनन्तरोक्तप्रकारेण, खुरवधारणे, सा एषाऽन्तरोक्ता मासिकी भिक्षुप्रतिमा। (अहासुत्त ति) सामान्यसूत्रानतिक्रमेण (अहाकप्पं ति) प्रतिमाकल्पानतिक्रमेण तत्कल्पवस्त्वनतिक्रमेणवा (अहामग्गं ति) ज्ञानाऽऽदिमोक्षमार्गानतिक्रमेण क्षयोपशमकभावानतिक्रमेण वा (अहातचं ति) यथातत्त्वं तत्त्वानतिक्रमेण मासिकी भिक्षुप्रतिमेति शब्दार्थानतिलङ्घनेनेत्यर्थः / (जहासम्म ति) यथासमं समभावानतिक्रमेण (कारणं फासिय त्ति) कायेन शरीरेण न पुनर्मनोरथमात्रेण स्पृष्ट उचितकाले विधिना ग्रहणात्, (पालिय त्ति) पालितः, असकृदुपयोगेन प्रतिजागरणात् (सोहिया इति) पारणकदिने गुर्वादिदत्तशेषभोजनकरणात्, शोधिता वा अतीचारपङ्कक्षालनात् (तीरिय इति) तीरिता पूर्णेऽपि तदवधौ स्तोककालावस्थानात् (पूरिय ति) सम्पूर्णेऽपि तदवधौतत् कृत्यपरिमाणपूरणात् (किट्टिय त्ति) कीर्तिता पारणकदिने इदं च दिने कृत्यं तच मया कृतमित्येवं कीर्तनात् (अणुपालेत त्ति) तत्समाप्तौ | तदनुमोदनात् / किमुक्तं भवतीत्याह आज्ञया आराधिता आज्ञया अनुपालिता भवति। इत्युक्तं प्रथमप्रतिमास्वरूपम्। साम्प्रतं क्रमप्राप्त द्वितीयाऽऽदिप्रतिमास्वरूपमुच्यते-- दोमासियं भिक्खुपडिमं पडिवन्नस्सानगारस्स निच्चं बोसट्टकायं चेव ०जाव दो दत्तीओ, तिमासियं तिन्नि दत्तीओ, चतमासियं चत्तारिदत्तीओ, पंचमासियं पंच दत्तीओ, छम्मासियं छ दत्तीओ, जति मासिया तति दत्तीओ। पढमा सत्तरातिदियाणि भिक्खुपडिम पडिवनस्स अणगारस्स निचं वोसट्टकाए जाव अधियासेति, कप्पति से चउत्थेणं भत्तेणं अपाणएणं बहिया गामंसि वा०जाव राजहाणीए वा उत्ताणगस्स वा पासेल्लगस्स वा नेसञ्जियस्स वा ठाणं ठाइत्तए, तत्थ णं दिव्वमाणुस्सतिरिक्खजोणिया उवसग्गा उप्पज्जेज्जा, ते णं उवस्सगा पयलिज वा पवजिज्ज वा, णो से कप्पति पयलित्तए वा, पवडित्तए वा, तत्थ से उच्चारपासवणं ओघाविजा, णो से कप्पति उच्चारपासवणं ओगिण्हित्तर वा, कप्पति से पुव्वपडिलेहियंसि थंडिलंसि उच्चारपासवणं परिट्ठवित्तए, अधावि धम्मेऽवट्ठाणं ठाइत्तए, एवं खलु पदमा सत्तराइंदिया भिक्खुपडिमा अहासुत्तं०जाव आणाए अणुपालित्ता भवति। एवं दोचा सत्तरातिंदिया वि, नवरं दंडातियस्स वालगंडसाइयस्स वा उकुडयस्स वा ठाणं ठाइत्तए, सेसं तं चेव जाव अणुपालित्ता भवति। एवं तच्चा सत्तरातिंदिया वि भवति, नवरं गोदोहियाए वा वीरासणियस्स वा अंबखुजस्स वा ठाणं ठाइत्तए, सेसं तं चेव०जाव अणुपालित्ता भवति, एवं अहोरातिया वि, णवरं छटेण भत्तेण अपाणएणं बहिया गामस्स वाजाव रायहाणिस्स वाइसिं दो वि पाए साहट्ट वग्धारियपाणिस्स ठाणं ठावित्तए, सेसं तं चेव०जाव अणुपालित्ता यावि भवति / एगरातियं णं भिक्खुपडिम पडिवनस्स अणगारस्स निच्चं वोसट्ठकाण्णंजाव अधियासेति, कप्पति से अट्टमेणं भत्तेणं अप्पाणएणं बहिया गामस्स वा०जाव रायहाणी ईसिपब्भार गतेणं कारणं एगपोग्गलट्ठिताए दिट्ठीए अणिमिसनयणे अहापणिहितेहि गातेहि सविहिएहिं गुत्ते दो विपाए साहट वग्धारियपाणिस्स ठाणं ठाइत्तए० जाव अधाविधिमेव ठाइत्तु एगरातियं णं भिक्खुपडिमं अणुपालेमाणस्स अणगारस्स इमे तओ ठाणा अहियाए असुहाए अक्खमाए अणिस्सेसाए अणाणुगामियत्ताए भवंति, उम्मायं वालभिजा, दीहकालियं वा रोगायंक पाउणेजा, केवलिपण्णत्ताओ धम्मातो भंसिज्जा, एगरातिदियं णं भिक्खुपडिमं सम्म अणुपालेमाणस्स अणगारस्स इमे तओठाणा हिताएजाव आणुगामियत्ताए भवति। तं जहा-- ओहिनाणे वा से समुप्पजेजा, मणपञ्जवनाणे वा से समुप्पजेजा, केवलनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा, एवं ख--

Loading...

Page Navigation
1 ... 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636