Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भोयण 1621 - अमिधानराजेन्द्रः - भाग 5 भोयण अथ दीनाऽऽदेर्याचमानस्याऽपि न दास्यत इति कुतः पुण्यबन्धो भविष्यतीत्याशङ्कयाऽऽहप्रायो न चानुकम्पावांस्तस्यादत्त्वा कदाचन / तथाविधस्वभावत्वाच्छक्नोति सुखमासितुम्॥४| यदि न ददाति तदा न भवति पुण्यबन्धो, न च न पुनरनुकम्पावान् करुणापरायणान्तः करणः प्रायो बाहुल्येन तस्य याचमानस्या दीनाऽऽदेरदत्त्वा दानमकृत्वा कदाचन कस्मिंश्चिदपि काले शक्नोति समर्थो भवति सुखममनः पीड़ यथा भवतीत्येवमासितुं स्थातुं कुत एतदेव-- मित्याह-तथाविधस्तत्प्रकारोयाचमानदीनदाननिबन्धनभूतः स्वभावः / स्वरूपं यस्यानुकम्पावतः स तथा, तस्य भावस्तत्त्वं तस्मानथाविधस्वभावत्वादि ति। हेतुप्रयोगश्चैवम्-यद्वस्तु यत्करणस्वभावंतत्तदकृत्वा नाऽऽसितुं शक्नोति, यथा मद्यं पुरुषस्य वृत्ताऽऽदिक विकारं, दीनदानस्वभावश्चानुकम्पावांस्तस्माददत्त्वा सुखमासितुं न शक्नोतीति / / 4 / / अथ पुण्यबन्धभीरुतया दृढचित्ततां विधाय न दास्यतीति कथं पुण्यबन्धः? इत्याशङ्कयाऽऽह / अथवा पुण्याऽऽदिपरिहारार्थमिहाऽऽदिशब्दोपात्ता याचकाऽप्रीत्यादिदोषप्रतिपादनायाऽऽहअदानेऽपि च दीनाऽऽदेरप्रीतिर्जायते ध्रुवम्। ततोऽपि शासनद्वेषस्ततः कुगतिसंततिः।। अपि चेति पुनःशब्दार्थः, ततो दाने पुण्यबन्धो भवत्यदाने ओदनाऽऽद्यवितरणे पुनींनाऽऽदेर्दीनानाथाऽऽदेरर्थिनोऽप्रीतिश्चित्तोद्वेगो जायते-भवति, तस्यैव ध्रुवमवश्यंभावेन, भवतु सा को दोष? इति चेदत आह- ततोऽपि, अपिशब्दः पुनः शब्दार्थः, ततस्तस्याः पुनरप्रीतेः सकाशाच्छासनद्वेषः आप्तवचनं प्रतिमत्सरस्तस्यैव, ततोऽपि किमित्याह- ततः शासनप्रद्वेषात् कुगतीनां नारकतिर्यानरकुदेवत्वलक्षणदुर्गतीना संततिः सन्तानः प्रवाहः कुगतिसन्ततिर्जायते, दीनाऽऽदेरिति प्रक्रम इति / यदि नाम मिथ्यात्वोपहतबुद्धेस्तस्य स्वदोषादप्रीत्यादयः सञ्जायन्ते ततः किमस्माकमसंक्लेशवन्मानसानामित्याशङ्कयाऽऽह / अथवा पुण्याऽऽदिपरिहारार्थमिहाऽऽदिशब्दोपात्तपा पबन्धप्रदर्शनायाऽऽहनिमित्तभावतस्तस्य, सत्युपाये प्रमादतः। शास्त्रार्थबाधनेनेह, पापबन्ध उदाहृतः॥६॥ शास्त्रार्थबाधनेन पापन्धस्तस्योदाहृत इति संबन्धः। शास्त्रार्थबाधमेव कुतः? इत्याह-निमित्तभावतो दीनाऽऽद्यप्रीतिशासनद्वेषकुगतिसन्ततीनां कारणत्वेन परेषामप्रीत्यादिवर्जन हि शास्त्रार्थस्तस्येति प्रकटभोजकयतेः / नन्वेवं महामुनीनामपि पापबन्धप्रसङ्गः, तेषामपि महामिथ्यात्वोपहतेष्वप्रीत्यादिनिमित्तत्वादित्याशक्याऽऽह-सति विद्यमाने उपाये प्रच्छन्नभोजनलक्षणे दीनाऽऽद्यप्रीत्याद्युत्पत्तिपरिहारस्य हेतौ महामुनीनां तु पराप्रीतिपरिहारोपायाभावे तत्परिहारार्थं च प्रयत्ने सति परिणामविशुद्धेः पापबन्धाभाव इति / नन्वेवं हठाद्दीना- | ऽऽदिना भुञ्जानस्य साधोदर्शन उक्तदोषप्रसङ्ग इत्यत आह-प्रमादतः प्रमादेनाऽऽलस्योपहततया, अप्रमत्तस्य पुनरप्रीत्यादिहेतुत्वेऽपि | शास्त्रार्थाबाधनान्नास्ति पापबन्धोऽहिंसकस्येव / यदाह- "आया चेव अहिंसा, आया हिंस त्ति निच्छओ एस / जो होइ अप्पमत्ता, अहिंसओ हिसओ इयरो।।१।।" शास्त्रार्थस्याऽऽप्ताऽऽगमार्थस्य बाधनमन्यथाकरण शास्त्रार्थवाधन तेन हेतुना; महानर्थनिबन्धन हि शास्त्रार्थबाधनम् / यदाह-''यः शास्त्रविधिमुत्सृज्य, वर्त्तते कामचारतः। न स सिद्धिमयाप्नोति, न सुख नपरां गतिम्॥१॥"शास्त्रं च पराप्रीतिपरिहारप्रयत्नप्रतिपादनपरमेव व्यवस्थितम्। तद्यथा''अणुमित्तो वि न करसइ, बंधो परवत्थुपचया भणिओ। तह वि हु जयति जइणो,परिणामविसोहिमिच्छंता // 1 // " तथा"इय सवेण विसव्वं, सक्क अप्पत्तियं जइजणस्स। नियमा परिहरियव्वं, इयरम्मि सतत्तचिंताओ // 2 // " इहेति प्रकटभोजने पापबन्धो अशुभकर्मोपादानमुदाहृतोऽभिहितस्तत्त्ववेदिभिरिति // 6 // भवतु शास्त्रार्थबाधेति चेन्नेत्याहशास्त्रार्थश्च प्रयत्नेन, यथाशक्ति मुमुक्षुणा। अन्यव्यापारशून्येन, कर्तव्यः सर्वदैव हि // 7 // शास्त्रस्य दृष्टष्टाभ्यामविरुद्धाऽऽगमस्यार्थोऽभिधेयं शास्त्रार्थः, चशब्दः पुनरर्थ एवकारार्थो वा, तेन शास्त्रार्थः पुनः कर्तव्यः शास्त्रार्थ एव वा कर्तव्यः। कथं? प्रयत्नेन महता आदरेण, अनादरकरणे हि विवक्षितफलासिद्धेः कृषीबलानामिव / ननु शास्त्रार्थस्य संहननाऽदिहीनेन समग्रस्य दुष्करत्वादशक्यानुष्ठानोऽयमुपदेश इत्याह-यथाशक्ति शक्तेः शरीरबलस्यानतिक्रमो यथाशक्ति तेन, एवं ह्या-राधनोक्ता। यदाह"अनिगृहितो विरिय, न विराहेइचरणं तव-सुएसु। जइ संजमे वि विरियं, न निगहिजा न हाविज्जा // 1 // ' चरणं न हापयेदित्यर्थः, केनेत्याहमुमुक्षुणा मोक्षेप्सुना, अनन्यो-पायत्वान्मोक्षस्य / यदाह- "जम्हा न मोक्खमग्गे, मुत्तूण आगमं इह पमाणं / विजइ छउमत्थाणं, तम्हा तत्थेव जइयव्व।।१।।'' किंभूते-नान्यव्यापारशून्येन शास्त्रार्थकरणव्यतिरिक्तलोकयात्राऽऽदिकर्त्तव्यविरहितेन, व्यापारान्तरेण हि शास्त्रार्थकरणबाधा भवतीति कर्त्तव्यो विधेयः, किं प्रतिनियतं कालं, नेत्याह- सर्वदैव सदैवाऽऽजन्मापीत्यर्थः, हिशब्दो वाक्यालङ्कारार्थः, यस्मादर्थो वा, ततश्च यस्माच्छास्त्रार्थ एव कर्त्तव्यस्तस्मात् प्रच्छन्नमेव भोजनं विधेयमिति प्रक्रम इति ||7|| प्रकरणार्थमुपसंहरन्नाहएवं [भयथाऽप्येतद्, दुष्टं प्रकटभोजनम् / यस्मान्निदर्शितं शास्त्रे, ततस्त्यागोऽस्य युक्तिमान् / / 8 / / एवं हि अनेनैवानन्तरोक्तेन प्रकारेण, उभयथा दीनाऽऽदेर्दानादानलक्षणाभ्यां वर्णितस्वरूपाभ्यां प्रकाराभ्या, न केवलमेकेनैव प्रकारेण, अपि तुभयथाऽपीत्यपिशब्दार्थः / अथवा- इहलोकापेक्षया, तत्र परलोकापेक्षया प्रकटभोजनस्य दुष्टत्वमुपदर्शितमनन्तरमेव। इहलोकापेक्षया त्यमुतो नीतिश्लोकादवगन्तव्यम्- 'प्रच्छन्नं किल भोक्तव्यं, दरिद्रेण विशेषतः। पश्य भोजनदौर्बल्यान, घटः सिंहेन नाशितः।।१।।"

Page Navigation
1 ... 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636