Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भोयण 1620 - अभिधानराजेन्द्रः - भाग 5 भोयण पाहुडियं आलोइत्ता सज्झायं पट्ठावित्तु तिसण्हं धम्मो मंगलाई कड्डेजा चउत्थधम्मो मंगलगेहिं च णं अपयट्ठिएहिं चेइयं साहूहिं अवंदिएहिं पारावेज्जा पुरिमढं / महा० 10 // (तत्र विधिः 'उग्गाल' शब्दे द्वितीयभागे 730 पृष्ठे उक्तः) (संसक्तग्रहणं, संसक्तभोजनं च संसत्त' शब्दे) (पात्रे उदकविन्दुः पतेत्तत्र भोजन 'परिहवणा' शब्देऽस्मिन्नेव भागे 572 पृष्ठे उक्तम् ) (पर्युषितान्नभोजननिषेधो 'गोयरचरिया' शब्दे तृतीयभागे 667 पृष्ठेगतः)(उदकतीरे भोजननिषेधः 'दगतीर' शब्दे चतुर्थभागे 2442 पृष्ठे गतः) (कालातिक्रान्तक्षेत्रातिकान्तपानभोजने गोयरचरिया' शब्दे तृतीयभागे 977 पृष्टगते) भोजनगृद्धो न चरेत्न य भोयणम्मि गिद्धे, चरे उंछं अयंपिरो। अफासुयं न भुजिजा, कीयमुद्देसियाऽऽहडं / / 23 / / न च भोजने गृद्धः सन् विशिष्टवस्तुलाभायेश्वराऽऽदिकुलेषु मुखम- | ङ्गलिकया चरेत्, अपि तु-उञ्छं भावतो ज्ञाताज्ञातमजल्पनशीलो धर्मलाभमात्राभिधायी चरेत्, तत्राप्यप्रासुकं सचित्तं सन्मिश्राऽऽदि कथञ्चिद् गृहीतमपि न भुञ्जीत, तथा क्रीतमौद्देशिकाऽऽदिहृतं प्राशुकमपि न भुञ्जीत, एतद्विशोध्य विशोधिकोट्युपलक्षणमिति सूत्रार्थः। दश० 8 अ०२ उ०। (भोजनाभोजनकारणानि 'आहार' शब्दे द्वितीयभागे 516 पृष्ठे उक्तानि) (भोजनप्रमाणं तदोषाश्चापि 'आहार' शब्दे द्वितीयभागे 521 पृष्ठे उक्ताः )(रात्रिभोजनं 'राइभोयण' शब्दे वक्ष्यते) (दुरभि परिस्थाप्य सुरभिं भुङ्क्ते इति परिदुवणा' शब्देऽस्मिन्नेव भागे 584 पृष्ठे गतम्) (उपभोगपरिभोगः 'वय' शब्दे वक्ष्यते) श्रावकस्याभोज्यानि द्वाविंशतिःचतुर्विकृतयो निन्द्या, उदुम्बरकपञ्चकम् / हिमं विषं च करका, मृजाती रात्रिभोजनम् / / 3 / / बहुबीजाज्ञातफले, संधानानन्तकायिके। वृन्ताकं चलितरसं,तुच्छं पुष्पफलाऽऽदि च / / 33 / / आमगोरससंपृक्तद्विदलं च विवर्जयेत् / द्वाविंशतिमभक्ष्याणि, जैनधर्माधिवासितः॥३४|| त्रिभिः विशेषकम् / जैनधर्मेणाऽऽर्हतधर्मेणाऽधिवासिप्तो भाविताऽऽत्मा पुमान् / ध० 2 अधि० / (उदुम्बरपञ्चकाऽऽदीनि च स्वस्वस्थाने व्याख्यातानि) अशनाऽऽदिगुणसंपदुपेतः पिण्डो विशुद्धः शुद्धिकारक इत्युक्तम्, सच शुद्धिकारकः प्रकटभोजने न संभवतीति प्रच्छन्न भोजन यतिना विधेयमित्युपदिशन्नाहसर्वाऽऽरम्भनिवृत्तस्य, मुमुक्षोभाविताऽऽत्मनः। पुण्याऽऽदिपरिहाराय, मतं प्रच्छन्नभोजनम् // 1 // मुमुक्षोर्मतं प्रच्छन्नभोजनम् इति क्रिया, किंविधस्येत्याह-सर्वे निर्विशेषा मनोवाक्कायकृतकारितानुमतिभेदा ये आरम्भाः पृथिव्यादिजीवसंघट्टपरितापातिपातरूपास्तेभ्यो निवृत्तो यः स तथा तस्य, एतस्य हि प्रकट भुजानस्य दीनाऽऽदिकाय याचमानाय तद्दाने तत्पोषणत आरभिप्रवृत्तिहेतुत्वेन सर्वाऽऽरम्भनिवृत्तिक्षतिर्भवतीति तत्परिहारार्थमेतेन प्रच्छन्नमेव भोक्तव्यमित्युपदेष्टु सर्वाऽरम्भनिवृत्तस्येत्युक्तम्, अनेन चेह तदन्यस्य व्यवच्छेदः, तस्य हि प्रकटभोजनेऽपि न सर्वाऽरम्भनिवृत्तेः क्षतिः, तदभावादिति। कस्यैवंभूतस्येत्याह-भोक्तुंन मोचयितुं कर्मबन्धनादात्मानमिच्छतीति मुमुक्षुर्दीक्षितस्तस्य, अनेन चामुमुक्षोळवच्छेदः, तस्य हि पुण्यबन्धस्यानुज्ञातत्यादिति / पुनः किंभूतस्य ? भावितो वासितः स्वपरोपकारकरणधर्मया प्रशमवाहितया जिनाऽऽज्ञया वा आत्मा अन्तःकरणं येन स तथा तस्य, एतेन हि साधुसामाचार्यां यत् प्रकटभोजनं तज्जन्यो यः प्रवचनोपघातः स्वपरानर्थनिबन्धनभूतोऽप्रशमाऽऽवहो जिनाऽऽज्ञाभङ्गरूपः, सोऽवश्य परिहार्य इत्यावेदितं भवति, निषिद्धं च जिनाऽऽगमे प्रकटभोजनम् / यदाह- "छक्काय-दयावंतो, विसंजओ दुलह कुणइबोहिं। आहारे नीहारे, दुगुछिए पिंडगहणे य॥१॥" किमर्थमित्याह-पुण्यं शुभकर्म, आदिशब्दाद्याचकाप्रीत्यादिदोषः, पादमसंयतपोषणद्वाराऽऽयाताऽऽरम्भप्रवर्तन, प्रवचनोपघातश्च पस्मिह्यते, अतः पुण्याऽऽदीनां परिहारो वर्जन पुण्याऽऽदिपरिहारस्तस्मै पुण्याऽऽदिपरिहाराय मत सम्मतं विदुषां प्रच्छन्नभोजनम्--अप्रकटजेमनमिति / / 1 / / ___ कथमप्रच्छन्नभोजने पुण्यबन्ध इत्याहमुजानं वीक्ष्य दीनाऽऽदिर्याचते, क्षुत्पपीडितः। तस्यानुकम्पया दाने, पुण्यबन्धः प्रकीर्तितः।।२।। भुञ्जानमभ्यवहरन्तं, मुमुक्षुमिति गम्यते। वीक्ष्य दृष्ट्वा, क इत्याहदीनाऽऽदिर्दीनो दैन्यवान्, आदिशब्दादनाथक्नीपकाऽऽदिपरिग्रहः / याचते मृगयते, किंविधः सन्? क्षुत्पपीडितः बुभुक्षाऽत्यन्तबाधितः, अपीडितस्य हि याचनेन तथाविधानुकम्पोत्पाद इत्यसौ विशेषितः तस्येत्थंभूतस्य दीनाऽऽदेरिह च संप्रदानेऽपि षष्ठी, संबन्धस्यैव विवक्षितत्वादिति / अनुकम्पया करुणया दाने भोजनस्य वितरणे पुण्यबन्धः शुभकर्मोपादानं प्रकीर्तित आगमेऽभिहितः, यदाह- "भूयाणुकंपवयजो-- गउज्जओ खंतिदाणगुरुभत्तो। बंधइ भूओ साय, विवरीयं बंधए इयरो॥१॥” इति कथं प्रकट मुमुक्षुर्भुजीतेति // 2 // __भवतु पुण्यबन्धः, का नो हानिरिति चेदत आहभवहेतुत्वतश्चाऽयं, नेष्यते मुक्तिवादिनाम्। पुण्यापुण्यक्षयान्मुक्तिरिति शास्त्रव्यवस्थितेः||३|| भवहेतुत्वतः संसारकारणत्वात्, चशब्दः पुनरर्थः अयमनन्तरोद्दिष्टः पुण्यबन्धो नेष्यते, आश्रयणीयतया नानुमन्यते, प्रवचनप्रणेतृभिः, केषामित्याह- मुक्तिं सकलकर्मनिर्मोक्षं स्वकीयस्यानुष्ठानविशेषस्य फलतया वदितुं शीलं येषां ते मुक्तिवादिनस्तेषां, मोक्षार्थिनामिति हृदयम् / अथवा- मुक्तिवादिनामित्येतत्पदं शास्त्रव्यवस्थितेरित्यनेन संबन्धनीयं नेष्यते इति कुतोऽवसितमिति चेदत आह- पुण्याऽपुण्यक्षयात् शुभाशुभकर्माऽऽत्यन्तिकप्रलयादेव मुक्तिर्मोक्षो जीवस्य स्वरूपेऽवस्थानं, भवतीति गम्यते, इत्येवंप्रकारायाः शास्त्रव्यवस्थितेरामप्रणीताऽऽगमव्यवस्थाया हेतोरिति // 3 //

Page Navigation
1 ... 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636