Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1633
________________ भोयण 1625 - अभिधानराजेन्द्रः - भाग 5 भोयण एएहिं छहिं ठाणेहि, अणाहारो उ जो भवे। धम्म नाइक्कमे भिक्खू, झाणजोगरओ भवे // 582 // एभिः पूर्वोक्तैः षड्भिः स्थानैरनाहारो यो भवति स धर्म नातिक्रामति भिक्षुरतो ध्यानयोगरतेन भवितव्यमिति। अथेदमुक्तंषभिः कारणैराहार आहारयितव्यः, षभिश्व कारणै हारयितव्यः, ततः किमेतत् भोजनमपवादपदम्? उच्यते- अपवादपदमेवैतत्। यतःमुजतो आहारं, गुणोवयारं सरीरसाहारं / विहिणा जहोवइ8, संजमजोगाण वहणट्ठा / / 583|| भुज्जन आहारं, किंविशिष्ट ? गुणोपकार ज्ञानदर्शनचारित्रगुणानामुपकारक, तथा शरीरस्य साधारकमाहारं भुञ्जन विधिना ग्रासैषणाविशुद्ध 'यथोपदिष्टम्' आधाकाऽऽदिरहितं संयमयोगानां संयमव्यापाराणां वहनार्थ भुञ्जन् अपवादपदस्थ एव भुङ्क्ते, नान्यथा। इदानीं समुद्देष्टे सति संलि (ख) हनकल्पः कर्त्तव्यः भिक्षाभक्तविलिप्तानां पात्रकाणां संलि(ख) हनं कर्त्तव्यमित्यर्थः / तथा चाऽऽहभत्तद्वियावसेसो, तिलंबणा होइ संलिहणकप्पो। अपहुप्पत्ते अन्नं, छो, ता लंबणे ठवए / / 584 / / भुक्तानामवशेषो यः स संलिखनकल्पः कर्तव्यः, स चावशेषो न ज्ञायते कियत्प्रमाणः? अत आह- त्रिलम्बनः त्रिकवलः कवलत्रयप्रमाणो भुक्तावशेषः संलिखनकल्पः कर्त्तव्यः, यदा तु त्रिकवलप्रमाणः संलिखनकल्पो न भवति, तदा अपर्याप्यमाणे अन्यदपि तस्मिन् पात्रके भक्त प्रक्षिप्य ततः त्रीन् कवलान् स्थापयति। संदिट्ठा संलिहिलं, पढमं कप्पं करेति कलुसेणं। तं पाउं मुहमासे, विइअच्छदवस्स गिण्हति // 585 / / संदिष्टाः भुक्ताः सन्तः सलिह्य पात्रकाणि पुनश्च प्रथम कल्पं ददति कलुषोदकेन, पुनश्च तत्पीत्वा (मुहमासो ति) मुखस्य परामर्शः प्रमार्जन कुर्वन्तीति, पुनश्च द्वितीयकल्पार्थमच्छस्य द्रवस्य ग्रहणं कुर्वन्तीति / गृहीत्वा च कल्पार्थभच्छद्रवं मण्डल्या उत्थाय बहिः पात्रकप्रक्षालनार्थ गच्छन्ति। दाऊण बितियकप्पं बहिया मज्झट्ठिओ उ दवहारी। तो देइ तइयकप्पं, दोण्हं दोण्हं तु आयमणं / / 586|| तत्र दत्त्वा द्वितीयकल्पं बाह्यतः पात्रकप्रक्षालनभूमी, ते च मण्डल्याकारेण तत्रोपविशन्ति, तेषां मध्ये स्थितो द्रवधारी भवति, स च पात्रकप्रक्षालनं सर्वेषामेव प्रयच्छतीति, ततो ददति ते साधवः पात्रकाणां तृतीय कल्पं, पुनश्च पात्रकप्रक्षालनानन्तरम्- (दोण्हं दोण्हं तु आयमणं ति) द्वयोर्द्वयोः साध्वोः मात्रकेषु आचमनार्थ निपनार्थम्, उदकं प्रयच्छतीति। एष तावदनदरिते भक्ते विधिरुक्तः। यदा तु पुनरुद्वरित भक्तं तदा को विधिरित्यत आह-- होज सिया उव्वरिय, तत्थ य आयंबिलाइणो होज्जा। पडिदंसि य संदिहो, वाहरइ तओ चउत्थाई / / 587 / / भवेत् स्यात् कदाचिदुद्वरितं तत्र च साधूनां मध्ये कदाचित्कचिदाचाम्लाऽऽदयो भवन्ति / आदिग्रहणादभक्तार्थिको वा कश्चिद्भवेत्ततस्तदुद्वरितं भक्तं रत्नाधिक आचार्याय दर्शयति, पुनश्च प्रदर्शिते भक्ते गुरुणा च संदिष्ट उक्तः यदुत-आहृयाचाम्लाऽऽदीन् साधून येन तेभ्यो दीयते, पुनश्चाऽसौ रत्नाधिकः सन्दिष्टः सन् चतुर्थाऽऽदीन साधून व्याहरति। सच व्याहरन्नेतान्न व्याहरतिमोहचिगिच्छ, विगिट्ट, गिलाण अत्तट्ठियं च मोत्तूण। सेसे गंतु भणई, आयरिआ वाहरंति तुमं // 588|| मोहचिकित्सार्थं य उपवासिकः स्थितस्तं नव्याहरति, तथा विकृष्टतपस साधुन व्याहरति, विकृष्टतपश्च अष्टमादारभ्य भवति, तस्य च कदाचिदेवता प्रातिहार्य करोति, अतस्तस्य न दीयते, ग्लानस्य ज्वराऽऽदिना तं च न ध्याहरति, आत्मलब्धिकं च न व्याहरति, एताननन्तरोदितान् साधून मुक्त्वा शेषान् गत्वा भणति, यदुत-आचार्या व्याहरन्ति युष्मान्। तेषां च मध्ये यश्चतुर्थादिक आकारितः, स आकर्ण्य किं करोति? इत्याहअपडिहणतो आगं-तु-वंदिउं भणइ सो उ आयरिए। संदिसह भुंज जं सर-इ तत्तियं सेस तस्सेव / / 586 / / अनतिलक यन् गुरोराज्ञाम् आगत्य वन्दित्वा भणति तमाचार्य ,यदुतसन्दिशत यूयम् / आचार्योऽपि भणति, भुञ्जीत, सोऽपि भणति-"ज सरइ तत्तियं भुंजामि" शेष यदुद्वरितं तत्तस्यैव यस्य सत्कः प्रतिग्रहकः, पुनश्च स एव परिष्ठापयतीति। अभणंतस्स उ तस्सेव सेसओ होइ सो विवेगो उ। मणिओ तस्स उगुरुणा, एसुवएसो पवयणस्स / / 560 / / अथाऽसौ साधुरेवं न भणति- यदुत "जं सरति तत्तिय' ततस्तस्य एवमभणतः तस्यैव यत् शेषं भक्तमुद्वरितं तद्भवति, स एव विवेचकः परिष्ठापक इत्यर्थः, भणिते तु एवं "यावइयं सरइ तावइयं सरामि त्ति।" ततस्तस्यैव साधोर्यस्य सत्कः पतदग्रहकस्तस्यैव गुरुणा। पतद्ग्रहकः समर्पयितव्यः पुनः स एव कल्पं ददाति। अयं प्रवचनस्य पूर्वोक्त उपदेशः। भुत्तम्मि पढमकप्पे, करेमि तस्सेव देंति तं पायं / जावतियंतिय भणिए, तस्सेव विगिचणे सेसं // 561 / / अथ यदुद्वरितं तत्सर्व भुक्ते, ततस्तस्मिन् भुक्ते सति तस्य पात्रकस्य प्रथमकल्पं ददाति / कृते च तस्मिन् प्रथमकल्पे तस्यैव साधोर्यस्य सत्कः पतद्ग्रहकस्यैव तत्पात्रकंददातिसमर्पयतीत्यर्थः। अथैतन्नबूते, यदुत-"जावइयं

Loading...

Page Navigation
1 ... 1631 1632 1633 1634 1635 1636