Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1630
________________ भोयण 1622- अभिधानराजेन्द्रः - भाग 5 भोयण एतदनन्तरोक्तं प्रकटभोजनं दुष्ट दोषवत् यस्माद्यतो हेतोर्निदर्शितं प्रतिपादितं शास्त्रे-आगमे ततस्तस्मात्त्यागः परिहारोऽस्य प्रकटभोजनस्य युक्तिमान् उपपत्तियुक्तः, अतो हे कुतीर्थिका यदि यूयं मुमुक्षवस्तदा भवतामपि प्रच्छन्नमेव भोजनं कर्तुं युज्यत इति गतार्थ इति। हा०७ अष्ट उपस्थापिताय भोजनं दत्वा भुञ्जीतनिग्गंथेण य गाहावइकुलं पिंडवायपडियाए अणुप्पविटेणं अन्नयरे अचित्ते अणेसणिज्जे पाणभोयणे पडिग्गाहिए सिया, अत्थि आई व केइ सेहतराए अणुवट्ठावियए, कप्पइ से तस्स दाउंवा अणुप्पदाउं वा, नऽत्थि आइंइत्थ केइसेहतराए अणुवट्ठावियए, ता नो अप्पणा मुंजेज्जा, नो अन्नेसिं दावए, एगते बहुफासुए पएसे पडिलेहित्तापमज्जित्ता परिहावियव्वे सिया।।१३।। अस्य सूत्रस्य संबन्धमाहआहार एव पगतो, तस्स उगहणम्मि वण्णिया सोही। आहेच पुण असुद्धे, अचित्तगहिए इमं सुत्तं / / 430 / / आहार एवानन्तरसूत्रे प्रकृतस्तस्य चाऽऽहारस्य ग्रहणे शोधिर्वर्णिता, यथा शुद्ध आहारो ग्रहीतव्यस्तथा भणितमिति भावः / 'आहच' कदाचित्पुनरशुद्धोऽचित्ताऽहारो गृहीतो भवेत्, तत्र को विधिरित्वस्यां जिज्ञासायामिदं सूत्रमारभ्यते। अहव ण सचित्तदव्वं, पडिसिद्धं दव्वमादिपडिसेहा। इह पुण सचित्तदव्वं, वारेति अणेसियं एसो॥४३१।। अथवा पूर्वतरसूत्रेषु तत्र "नो कप्पति पव्वावित्तए।" इत्यादि तु सचित्तद्रव्यं द्रव्याऽऽदिप्रतिषेधेन- द्रव्यं मण्डलाऽऽदिकं तदाश्रित्य प्रतिषेधो द्रव्यप्रतिषेधस्तेन, आदिशब्दात् "दुट्टे मूढे'' इत्यादिषु च भावाप्रतिषेधेन प्रतिषिद्धम् / इह पुनः प्रकृतसूत्रे सचित्तद्रव्यमनेषणीय वारयति एषः॥४३१।। अनेन सम्बन्धेनाऽऽयातस्यास्य (सूत्रस्य-१३) व्याख्यानिर्ग्रन्थेन गृहपतिकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्टन (अन्नतरे त्ति) उद्गमोत्पादनैषणादोषाणामन्यतरेण दोषेणादुष्टमनेषणीयमशुद्धमचित्तं निर्जीव पानभोजनमनाभोगेन प्रतिगृहीतं स्यात्. तचोत्कृष्ट नयतस्ततः परित्यक्तंन शक्यते, अस्ति चात्र कश्चित् शैक्षतरको लघुतरोऽनुपस्थापितकः अनारोपितमहाव्रतः, कल्पते. (से) तस्य निर्ग्रन्थस्य तस्मै शैक्षाय दातुमनुप्रदातुंवा, तत्र दातुं प्रथमतः, अनुप्रदातुं तेनान्यस्मिन्नेषणीये दत्ते सति पश्चात्प्रदातुम्। अथ नास्त्यत्र कोऽपि शैक्षतरकोऽनुपस्थापितकस्ततो नैवाऽऽत्मना भुञ्जीत, न वा अन्येषां दद्यात्, किं तु एकान्ते बहुप्राशुके प्रदेशे प्रत्युपेक्ष्य प्रमृज्य च परिष्ठापयितव्यं स्यादिति सूत्रार्थः // 13 // अथ नियुक्तिविस्तरःअन्नतरऽणेसणिचं, आउट्ठिय गिण्हणे तु जं जत्थ। अणभोगगहितें जयणा, अजतणदोसा इमे होंति // 432 / / / अन्यतरं दुग्धाऽऽदीनामेकतरदोषदुष्टमनेषणीयमाकुट्टिकया यो गृह्णाति / आकुट्टिका नाम-स्वयमेव भोक्ष्ये, शैक्षस्य वा दास्यामि, यमुपेत्य ग्रहणे येन दोषेणाशुद्ध तमापद्यते / यच यत्र दोषे प्रायश्चित्तं तत्तस्य भवति, अथानाभोगेन गृहीत ततो यतनया शैक्षस्य दातव्यम्। यद्यतनया ददाति तत इमे दोषा भवन्तिमा सव्वमेयं मम देहमण्णं, उक्कोसएणंच अलाहि मज्झं। किं वा ममं दिज्जति सव्वमेयं, ___ इव वुत्ते तु भणाति कोइ / / 433|| तेनानेषणीयमिति कृत्वा शैक्षो ब्रूयात्-मा सर्वमेतदन्नं भक्तं मम दत्त, अथोत्कृष्टमिति कृत्वा मे दीयते, तत्र उत्कृष्टेन भक्तेन ममालं, किंवा सर्वमेतत् मम दीयते इति? एवं शैक्षणोक्ते कश्चिद्भणतिएयं तुभ अम्हं, ण कप्पती चउगुरुंच अणादी। संका व आमिउग्गे, एगेण व इच्छियं होजा / / 434 / / एतत्तव कल्पते, अस्माकं तुन कल्पते, एवं भणतश्चतुर्गुरुकम्, आज्ञाऽऽदयश्च दोषाः, शङ्का वा, तस्य शैक्षस्याभियोगः कार्मणः, तद्विषया भवति, एकेन वा केनचिद् दीयमानमीप्सितं भवेत्, तस्य च ग्लानत्वे यथाभावेन ज्ञाते सति द्वितीयशैक्ष उड्डाहं कुर्यात्। इदमेव भावयतिकम्मोदएँ गेलण्णे, दळूण गतो करेज उड्डाहं। एगस्स वाऽवि, दिण्णे, गिलाण वमिऊण उड्डाहो।।४३५।। कोदयाद्यथाभावेनैव ग्लानत्वे जाते सति स चिन्तयेत्-एतैर्मे व्रतदेयं प्रतिभुञ्जतामिति कृत्वा ममाभियोग्यं दत्तम, एवं दृष्ट्वा ज्ञात्वा स भूयो गृहवासं गत उड्डाहं कुयदितैः कार्मण मम दत्तमिति, एकस्य वा दत्ते सति यदा ग्लानत्वं जातं तदा द्वितीयशैक्षः व्रतं वमित्वा प्रभूतजनसमक्षमुड्डाह कुर्यात्। कि पुनश्चिन्तयित्वास व्रतं वमतीत्याहमा पडिगच्छति दिण्णं, से कम्मण तेण एस आगल्ले / / 436 / / जाव ण दिज्जति अम्हा, वि हु दाणि पलामि ता तुरियं / / मा प्रतिगमिष्यतीति बुद्ध्या कार्मणमस्य दत्तं, तेनायमागल्लो ग्लानः सञ्जातः, अतो यावदस्माकमपि कार्मणं न दीयते तावत्त्वरितिमिदानीमहमपि पलाये। अथवा कश्चिदिदं ब्रूयात्भत्तेण मे ण कजं, कल्लं मिक्खं गतो व मोक्खामि। अण्णं व देहमण्णं, इय अजते उज्झिमगदोसा / / 437 / / भक्तेन (म) ममन कार्य , कल्यं वा भिक्षांगतो वा भोक्ष्येअन्यद्वा भक्तं मह्यं प्रयच्छत (इय) एवमयतनया दीयमाने उज्झनिका पारिष्ठापनिका भवेत् तस्यां च दोषाः कीटिकामक्षिकाऽऽदिविराधनारूपा मन्तव्याः। अथवा एकस्य ग्लानत्वे जाते अपरश्चिन्तयेत्ह णु ताव असंदेह, एस मओऽहं तु ताव जीवामि। वग्घा हु चरंति इमे, मिगचम्मगसंवुता पावा / / 438||

Loading...

Page Navigation
1 ... 1628 1629 1630 1631 1632 1633 1634 1635 1636