Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1626
________________ भोयण 1618 - अभिधानराजेन्द्रः - भाग 5 भोयण याऽऽह- 'पुव्वं तु अहाकडगा' पूर्व प्रथम यथाकृता ति प्रतिकर्मरहितानि लब्धानि यानि तानि समुद्देशनार्थ मुच्यन्ते, एतदुक्तं भवति-- प्रथममप्रतिकर्मा प्रतिग्रहको भ्राम्यते, ततः क्रमेणः 'इतरे' अल्पपरिकर्मबहुपरिकर्माणि च मुच्यन्ते। भोयण त्ति' गयम्। इदानीं 'भोयण' ति व्याख्यायतेनिद्धमहुराणि पुव्वं, पित्ताईपसमणट्ठया भुंजे। बुद्धिबलवडणड्डा, दुक्खं खु विगिंचिउं निद्धं / / 284 // प्रथमार्द्ध सुगम, किमर्थ स्निग्धमधुराणि पूर्व भक्ष्यन्ते? यतो बुद्धेर्बलस्य च वर्द्धन भवति, तथा चाऽऽह-- "घृतेन वर्द्धते मेधा'' इत्यादि, बलवर्द्धन च प्रसिद्धमेव, बलेन च वृद्धेन वैयावृत्याऽऽदि शक्यते कर्तु, दुःखं परिस्थापयितु स्निग्धं धृताऽऽदि भवति यतोऽसंयमो भवतीति / / अह होज निद्धमहुराणि अप्पपरिकम्मसपरिकम्मे हिं। भोत्तूण निद्धमहुरे, फुसिय करे मुंचऽहागडए / / 285 / / अथ भवेत् स्निग्धानि मधुराणि च द्रव्याणि अल्पपरिकर्मसु बहुपरिकर्म जनितेषु च पात्रकेषु ततः को विधिरित्यत आह-तान्येव भुक्त्वा स्निग्धमधुराणि ततः करान् प्रोञ्छ्यति, प्रोञ्छयित्वा च करान् (मुच अहागडए त्ति) यथाकृतानि-अपरिकम्माणि पात्रकाणि समुद्दिशनार्थ मुच्यन्ते / 'भायण त्ति गये। इदानीं ग्रहणद्वारप्रतिपादनायाऽऽहकुक्कुडिअंडगमेत्तं, अहवा खुड्डागलंवणासिस्स। लंवणतुल्ले गेण्हइ, अविगियवयणो य राइणिओ // 26 // ततः पतद्गहकात्कबलं गृह्णन् कुकुट्यण्डकमात्रं गृह्णाति / अथवा(खुड्डागलबणासिस्स) क्षुल्लकेन लम्बनकेन हस्तेन अलितुं शीलं यस्य क्षुल्लकलम्बनाशी तत्तुल्यान कवलान् गृह्णाति / स्वभावेनैव लघुकवलाशिनस्तुल्यान् कवलान् गृह्णाति / (अविगियवयणो य राइणिओ) आविकृतवदनो रत्नाधिकः, न भावदोषेण मुखमत्यर्थ बृहत्कवलप्रक्षेपार्थम् निर्वादयति, किं तर्हि? स्वभावस्थेनैव मुखेनेति। अथवाऽयं ग्रहणविधिःगहणे पक्खेवम्मि अ, सामायारी पुणो भवे दुविहा। गहणं पायम्मि भवे, वयणे पक्खेवणा होइ॥२८७।। 'ग्रहणे' कवलाऽऽदाने प्रक्षेपेच सामाचारी पुनरिय भवति द्विविधा, तत्र ग्रहणं पात्रकविषये भवेत् पात्रकात्कवलोत्क्षेपः, वदनविषयं च प्रक्षेपणं कवलस्य भवति। तत्र पात्रकात्कथं भक्षयद्भिगृह्यते? इत्येतत्प्रदर्शयन्नाहकडपयरच्छेएणं, भोत्तव्वं अहव सीहखइएणं / एगेहि अणेगेहि वि, वज्जेजा धूमइंगालं // 28 // तत्र कटकच्छेदेन भोक्तव्यं यथा कलिञ्जस्य खण्डलकं छित्त्वाऽपनीयते, एवमसावपि भुक्ते, तथा प्रतरच्छेदेन वा भोक्तव्यं तरिकाछेदेनेत्यर्थः, अथवा-सिंहभक्षितेन, सिंहो हि किल एकदेशादारभ्य तावद्भुड्क्ते यावत्सर्व भोजनं मिष्ठितं तच्चैकेन बहुभिर्वा भोक्तव्यं, वर्जयित्वा धूमाङ्गारकं, द्वेषरागौ वर्जयित्वेत्यर्थः / इदानीं वन्दनप्रक्षेपणशोधिं दर्शयन्नाहअसुरसुरं अचवचवं, अदुयमविलंविअं अपरिसाडिं। मणवयणकायगुत्तो, भुंजइ अह पक्खिवणसोहिं / / 286 / / असुरसुर भुडवते 'सरडसरड अकरितो' 'अचवचवं' वल्कलभिव चर्वयन न चबचबावेइ, तथा अद्रुतम्' अत्वरितं तथा 'अविलम्बितम्' अमन्थरम् अपरिशाटि मनोवाक्कायगुप्तो भुञ्जति, न मनसा विरूपमिति चिन्तयति, वाचा नैवं वक्ति, यदुत-"को इमं भक्खेइ? जो अम्हारिसो न होइ, कारण उदोसहे मुहेणं ण देह।" एवं त्रिगुप्तस्य भुजानस्य प्रक्षेपणशोधिर्भवति। नियुक्तिःउग्गमउप्पायणासुद्धं, एसणादोसवज्जियं। साहारणं अजाणतो, साहू होइ असारओ।।५६७।। उद्गमशुद्धम् उत्पादनाशुद्धम् एषणादोषवर्जित 'साधारण सामान्य गुडाऽऽदिअजानानः-अतिमात्रंदुष्टेन भावेन आददानः योऽसौ पतद्ग्रहो भ्रमति तस्मात् साधुः 'असारकः' अप्रधानज्ञानदर्शनचारित्राण्यङ्गाकृत्यासारः स भवति। तथाउग्गमउप्पायणासुद्ध, एसणादोसवनियं। साहारणं वियाणंतो, साहू होइ ससारओ // 568|| उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं साधारणमेतद्रव्यमित्येवं जानानोऽदुष्टनान्तराऽऽत्मना कवलं गुडाऽऽदेराददानः साधुर्भवति ससारः ज्ञानदर्शनचारित्रसास्वान् भवति। कथं पुनरसारः साधुर्भवति? अत आहउग्गमउप्पायणासुद्धं, एसणादोसवज्जियं। साहारणं अयाणंतो, साहू कुणइ तेणियं / / 566 / / उद्गमोत्पादनाशुद्धमेषणादोषवर्जितम्, साधारणमेतद् गुडाऽऽदिद्रव्यमित्येवमजानानो दुष्टेन भावेनाऽऽददानः साधुस्तैन्य करोति ततोऽसारोऽसौ। स कथं पुनः ससारो भवति? उग्गमउप्पायणासुद्ध, एसणादोसवज्जियं / साहारणं वियाणंतो, साहू पावइ निजरं / / 570 / / उद्गमोत्पादनाशुद्धम्, एषणादोषवर्जितं साधारणं तुल्यमेतत्सर्वेषां गुडाऽऽदीत्येव जानानोऽदुष्टान्तराऽऽत्मा स्वल्पमाददानः साधुर्निजरां करोति अतः ससारः ज्ञानदर्शनचारित्रैरिति। इदानीं ससारः कद चित् भोजनार्थमुपविशन भवति कदाचिदुपविष्टः कदाचिदुत्थितः, एतत्प्रदशनायाऽऽहअंतंतं भोक्खामित्ति वेसए मुंजए य तह चेव। एस ससारनिविट्ठो, ससारओ उहिओ साहू।।५७१।। अन्त्यं प्रत्यवरं वल्लचणकाऽऽद तदपि अन्त्य पर्युषितं चणकाऽऽदि अन्त्यमप्यन्त्यमन्त्यान्त्यं भक्षयिष्यामि / एवंविधेन परिणामेनोपविष्टो मण्डल्यामुपभुङ्क्ते यस्तथैवैष साधुः शुभपरिणामत्वात् ससार उपविष्टः ससारश्वोत्थितः, तस्य शुभपरिणामस्याप्रतिपतित्वात् /

Loading...

Page Navigation
1 ... 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636