Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ मोयण 1617 - अमिधानराजेन्द्रः - भाग 5 भोयण प्रक्षिप्य भक्तं प्रथमालिका तावद्दीयते, अथ बहवो क्षुधालवः ततः पतद्गहकं मुच्यते, तेभ्यो रक्षणार्थ गच्छ (समासज्जत्ति) गच्छमल्पं बहु वा ज्ञात्वा तदनुरूपं पतद्गह मुञ्चति / पुनश्च मिलितेषु साधुषु मण्डलीस्थविरः प्रविशति। किं कृत्वेत्यत आह-- चित्तं बासाऽऽईणं, गहाय आपुच्छिऊण आयरियं / जमलजणणीसरिच्छो, निवेसई मंडलीथेरो।।५६१।। चित्त बालाऽऽदीनां गृहीत्वा पृष्ट्वा आचार्य मण्डलीस्थविरः प्रविशति, किंविशिष्टः? इत्यत आह- (जमलजणणीसरिच्छो णिवेसइ त्ति) उपविशति मण्डलीस्थविर इति, सच मण्डलीस्थविरः गीतार्थः रत्नाधिकः अलुब्धश्च भवतिः अनेन च पदत्रयेण अष्टौ भङ्गाः सूचिता भवन्ति, तत्र तेषां मध्ये ये शुद्धा अशुद्धाश्च तान् प्रदर्शयन्नाहजइ लुद्धो राइणिओ, होइ अलुद्धो वि जो वि गीयत्थो। ओमो वि हु गीयत्थो, मंडलिराइणि अलद्धो उ१५६२ यद्यसौ मण्डलीस्थविरः लुब्धः रत्नाधिकश्च ततस्तिष्ठतिन प्रविशति, अनेन च लुब्धपदेन द्वितीयचतुर्थषष्ठाष्टमा भङ्गका अशुद्धाः प्रदर्शिता भवन्ति (अलुब्धो वि जो वि गीयत्थो ओमो वि हुत्ति) अलुब्धोऽपि यदि | गीतार्थ ओमः लघुपर्यायः स मण्डल्यां परिविशति, अनेन च ग्रन्थेन | तृतीयभङ्गकः कथितो भवति / अयश्च प्रथमभङ्गकाभावे भवति, अत्र व भङ्ग के गीतार्थपदग्रहणेन यत्र यत्र भङ्गके अ-गीतार्थपदं स सर्वो दुष्टो ज्ञातव्यः / (गीयत्थो मंडलिराइणि अलुद्धो त्ति) यस्तु पुनः गीतार्थो रत्नाधिकोऽलुब्धश्च स मण्डल्यामुपविशति, अनेन ग्रन्थेन च प्रथमो भङ्गकः शुद्धः प्रदर्शितो भवति, सर्वथा यत्र यत्र लुब्धपदमगीतार्थपदं च स परिहार्यः, "ओमराइणिओ' पदं च यदि अगीतार्थः लुब्धपदं च न भवति ततः अपवादे शुद्धं भवति, प्रथमं तु शुद्धमेव। इदानीं ते मिलिताः सन्त आलोके भुजते, स चाऽऽलोको द्विविधःद्रव्यतो, गावतश्च / तत्र द्रव्यतः प्रदीपाऽऽदिः / भावतः सप्तप्रकारः, तं दर्शयन्नाहठाणदिसिपगासणया, भायणपक्खेवणा य भावगुरू। सो चेव य आलोगो, नाणत्तं तद्दिसाठाणे // 563|| स्थान वक्तव्यम् उपविशने दिग् वक्तव्या। प्रकाशमुखे भाजने भोक्तव्यं, भाजनक्रमो वक्ष्यमाणः, प्रक्षेपणं वदने वक्तव्यं भावाऽsलोकोवक्तव्यः, गुरुर्वक्तव्यः, स एवाऽऽलोकः पूर्वोक्तो नानात्वं त्वत्र यदि पर दिशः स्थानस्य च, अत्र दिकपदमन्यथा वक्ष्यति स्थानं च। इदानी (भाष्यकारः) स्थाननानात्वं दर्शयति, तत्र स्थानव्याख्यानायाऽऽह-- निक्खमपवेस मोत्तुं, पढमसमुद्धिस्सगाण ठायंति। सज्झाएपरिहाणी, भावासन्नेवमाईया।।२८१।। प्रथमसमुद्दिष्टानां ग्लानाऽऽदीनां निर्गमप्रवेशी मुक्त्वा उपविशन्ति | किमर्थम् !, तत्र यदि ते मार्ग रुद्धा मण्डल्यां तिष्ठन्ति ततः पूर्वोक्तानां स्वाध्यायपरिहाणिर्भवति, तथा भावाऽऽसन्नस्य संज्ञाऽऽदिवेगधारणाऽसहिष्णोः पीडा भवति / एवमादयोऽन्येऽपि दोषाः। दिग्द्वारप्रतिपादनायाऽऽह भाष्यकारःपुवमुहो राइणिओ, एक्को य गुरुस्स अभिमुहो ठाइ। गिण्हइ व पणामेई, व अभिमुहो इहरहाऽऽवन्ना // 22 // पूर्वाभिमुखो रत्नाधिक उपविशति मण्डल्या, तस्यां च मण्डल्यामेकः साधुर्मुरारभिमुख उपविशति, किमर्थ? कदाचित्किश्चिद् गुरोरतिरिक्त भवति तद् गृह्णाति, दातव्यं वा किञ्चिद्भवति तद्ददाति मण्डलीस्थविरेणार्पितम् . एवमर्थमभिमुख उपविशति, इतरथा- यद्यभिमुखो नोपविशतिततोऽवज्ञापरिभवः कृतो भवति, पृष्ठयादि दत्त्वोपविशति ततोऽप्यवज्ञाऽऽदिकृता दोषा भवन्ति / नियुक्तिःजो पुण हवेज्ज खमओ, अतिउच्चाओ व सो बहिं ठाइ। पढमसमुछिट्टो वा, सागारियरक्खणट्ठाए।।५६४।। यस्तु पुनः क्षपकोऽर्द्धमासाऽऽदिना भवेद् अतिश्रान्तो वा प्राघूर्णकाऽऽदिः स बहिर्मण्डल्यास्तिष्ठति, प्रथमसमुद्दिष्टो वा साधुः-शीघ्रतरेण येन भुक्तं स सागारिकरक्षणार्थ बहिस्तावन्मण्डल्यास्तिष्ठति। एक्के कस्स य पासम्मि मल्लयं तत्थ खेलमुग्गाले। कट्टट्ठिए व छुब्भइ, मा लेवकडा भवे वसही // 565 / / तत्र च साधूनां भुजानानामेकैकस्य साधोः पार्थे मल्लकं भवति, तत्र खेलश्लेष्म उद्गालयेत्-तस्मिन् मल्लके श्लेष्मनिष्ठीवनं कुर्वन्ति, तथा तत्रभुञ्जतः कदाचित्कण्टकोऽस्थिखण्ड वा भवति स तत्र क्षिप्यते, अथ तु भुवि क्षिप्यतेऽस्थिकण्टकाऽऽदि ततो वसतिर्लेप कृता-अनायुक्ता भवति, अतस्तत्परिहारार्थ मल्लकेषु क्षिप्यते। तथाऽमुभपरं भुजानानां विधि प्रतिपादयन्नाहमंडलिभायणभोयण, गहणं सोही य कारणुव्वरिते। भोयणविही उएसो, भणिओ तेल्लुक्कदंसीहिं // 566 / / मण्डली यथारत्नाधिकतया कर्तव्या, भाजनानि च पूर्वम् 'अहाकडाई भुजति' भोजनं च स्निग्धमधुरं पूर्वं भोक्तव्यं, ग्रहणं च पात्रकात् कुक्कुट्यण्डकमात्र कवलं गृह्णाति, तथा ग्रहणस्यैव शुद्धिर्वक्तव्या, अथवा-- शुद्धिर्भुञ्जानस्य यथा भवति तथा वक्तव्यं, कारणे भोक्तव्यं, तथा 'उव्वरिए त्ति' अतिरिक्ते विधिर्वक्तव्यः / अयं भोजनविधिः सुगमः / इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति। तत्राऽऽद्यावयवव्याचिख्यासयाऽऽह भाष्यकार:मंडलि अह राइणिआ, सामायारी य एस जा भणिआ। पुव्वं तु अहाकडगा, मुच्चंति तओ कमेणियरे / / 283 / / मण्डली कथमुपविशति? अत आह-यथारत्नाधिकतया सामाचारी चात्र कार्या, एषायोक्ताभणिता कतमा?"ठाणदिसिपगासणया' इत्येवमादिका, साऽत्रापि तथैव द्रष्टव्या / उक्तंमण्डलीद्वारम्। इदानीं भाजनद्वारप्रतिपादना

Page Navigation
1 ... 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636