Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भिक्खुपडिमा 1577 - अभिधानराजेन्द्रः - भाग 5 मिक्खुपडिमा प्रतिपद्यत, भवेत्स्यात् श्रुताधिगम इति योगः / उत्कृष्टश्वाय, जघन्यस्य वक्ष्यमाणत्वात् / अथ जघन्यमेवाऽऽह-नवमस्य पूर्वस्य प्रत्याख्याननामधेयस्य, तृतीयवस्तु आचाराऽऽख्यं, तद्भागविशेष यावदिति वर्तते। भवति स्यात्, जघन्योऽल्पीयान्, श्रुताधिगमः श्रुतज्ञानं, सूत्रतोऽर्थतश्च, एवच्छतविकलो हि निरतिशयज्ञानत्वाक्तालाऽऽदिन जानातीति / / 5 / / वोसट्ठचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी। एसण अभिग्गहीया, भत्तं च अलेवडं तस्स / / 6 / / व्युत्सृष्टः परिकर्माभावेन, त्यक्तो ममत्वत्यागेन, देहः कायो येन स तथा यत:''अण्णो दे हाउ अहं. नाणत्तं जस्स एवमुवलद्धं / सो किंचि आहिरिक, न कुणइ देहस्स भने वि॥१॥" 'आहिरिकं ति' प्रतीकारम्। उपसर्गसहो दिव्याऽऽधुपद्रवसोढा / यथैव यद्गदेवा जिनकल्पी जिनकल्पिकः, तद्वदुपससर्गसह इत्यर्थः / (पञ्चा० 18 विव०1) भक्तं चान्नं पुनः अलेपकृतमलेपकारकं वल्लचाकाऽऽदि, तस्य प्रतिमाप्रतिपत्तुकामस्य परिकर्म कुर्वतः. चशब्दादुपधिश्च अस्य स्वकीयॆषणाद्वयलब्ध एव, तदभावे यथाकृतोऽप्युचितप्राप्तिं यावत् स्यात्, जाते तूचिते तंव्युत्सृजति। उक्तंच"उवगरण सुद्धेसण-माणजुयं जमुचियं सकप्पस्स। त गिण्हइ तयभावे, अहागडं जाव उचियं तु॥१॥ जोए उचिए य तयं, वोसिरइ अहागडं विहाणेणं / इय श्राणाविरयस्सिह, विण्णेयं तं पि तेण समं / / 2 / / '' कल्पोचित चोपधिमुत्पादयति स्वकीयेनेषणाद्वयेन / एतचैषणाचतुष्टयेऽन्तिममेषणाचतुष्टयं पुनरिद कासिकाऽऽद्युद्दिष्टमेव वस्त्र ग्रहीष्यामि, प्रेक्षितमेव, परिभक्तप्रायमेवोत्तरीयाऽऽदि, तदप्यु-ज्झितधर्मकमेव / इति गाथात्रयार्थः / पञ्चा० 18 विव० इहैव प्रतिमाकल्पे परमतमुपदर्शयन् गाथाचतुष्टयमाहआह ण पडिमाकप्पे, सम्म गुरुलाघवाइचिंत त्ति। गच्छाउ विणिक्खमणाइ ण खलु उवगारगं जेण // 21 // आह--ब्रूते परः / किं तदित्याह-(न) नैव / प्रतिमाकल्पे प्रागुक्तरूपे सम्यग्यथावत्, गुरुलाघवाऽऽदिचिन्ता "गच्छवासो गुरुः, स्वपरोपकारहेतुत्वात्, निर्गमस्तु लघुः, स्वोपकारमात्रहेतुत्वात्' इत्यादि विचारः / आदिशब्दात्तपः- प्रभृत्युभयत्राऽपि तुल्यमित्येतद्गृहः, अस्तीति गम्यते / इतिः प्रतिज्ञार्थसमाप्तौ। अत्रोपपत्तिमाह- गच्छात्साधुसमूहात्, विनिष्क्रमणाऽऽदिनिर्गमप्रभृति, आदिशब्दाद्धर्मानुपदेशनाऽऽदिग्रहः, न खलु नैव, उपकारकं गुणावहम, येन यस्माद्धेतोरिति॥२१।। कथं नोपकारकमित्याहतत्थ गुरुपारतंतं, विणओ सज्झाय सारणा चेव। वेयावचं गुणवुढि तह य णिप्पत्ति संताणो॥२२॥ तत्र गच्छे, गुरुपारतन्त्र्यमाचार्याऽऽयत्तत्ता निखिलानर्थनिबन्धनस्वैरताप्रतिपन्थिनी, विनयस्तदुचितविषये विनीतत्वं मानगिरिकुलकुलिशकल्पम्।तथा स्वाध्यायो वाचनाऽऽदिपञ्चप्रकारो मतिनयननिर्मल ताजनोपमानः, स्मारणा विस्मृतार्थाऽनुस्मारणं, विस्मृतशस्त्रशत्रुप्रार धपुरुषामोघशस्त्रस्मारणकल्पा। अथवा-स्वाध्यायसारणा स्वाध्यायनिर्वाहणेत्येकमेव / चैवेति समुच्चये। तथा वैयावृत्त्य व्यावृत्तभावस्तत्कर्म वा भक्ताऽऽदिभिरुपष्टम्भनं तीर्थकरत्वाऽऽदि सत्फलनिमित्त विशिष्ट - पुण्यमहातरुनिरुपहतबीजकल्पम् / तथा गुणवृद्धिः स्वगतज्ञानाऽऽदिगुणवर्द्धनमनुपमानन्दरसदानदक्षेक्षुयष्टिपुष्टिप्रायम्। तथा चेति समुच्चये। निष्पत्तिः सहुणत्वेन शिष्यसंसिद्धिः फलसन्तानसाधनसमर्थधान्यनिष्पत्तितुल्यः। ततः सन्तानः शिष्यप्रशिष्याऽऽदिवंशः संसारगर्तगताङ्गिवर्गस्य निर्गमनसोपानपरम्परारूपः। न चैते गुणा गच्छनिर्गम इति // 22 // दत्तेगाइगहो वि हु, तह सज्झायावभावओ ण सुहो। अंताइणो विपीडा,ण धम्मकायस्स सुसिलिटुं / / 23 / / (दत्तेगाइ ति) प्राकृते पूर्वापरनिपातोऽतन्त्रमिति कृत्वा एकाऽऽदिदत्तिग्रहोऽपि एकट्यादिभिक्षाविशेषग्रहणमपि उक्तन्यायेनाभिग्रह रूपम्। न शुभ इति योगः। अपिः समुच्चये। हुर्वाक्यालङ्कारे। कुत इत्याह- तथा स्वाध्यायाऽऽद्यभावतस्तथाप्रकारस्य निरन्तरस्य स्वाध्यायध्यानाऽऽ-- देरसद्भावात्। स्वाध्यायाऽऽदयश्च निराबाधा गच्छावास एव अनेकदत्यादि ग्रहणेन सावष्टम्भकायतया सम्यग्भवन्तीति हृदयम्।न शुभो न श्रेयान्, तथाऽन्ते भवमन्त्यं जघन्यं वल्लचणकाऽऽदि, तदत्तुं भोक्तुं शीलमस्येत्यन्त्यादी तस्यान्त्यादिनोऽपि सतः प्रतिमास्थस्य, पीडा बाधा धर्मकायस्य धर्मसाधनशरीरस्य, भवतीति शेषः। धर्मकायपीडाभवनं भवनं न च नैव, सुश्लिष्ट सङ्गतं, वर्जनीयत्वात् / यदाह- "भावियजिणवयणाणं, ममत्तरहियाण णत्थि उ विसेसो। अप्पाणम्मि परम्म य, तो वजे पीउ मुभओ वि॥१॥" इति॥२३॥ ततश्चएवं पडिमाकप्पो, चिंतिज्जंतो उनिउणदिट्ठीए। अंतरभावविहूणो, कह होइ विसिट्ठगुणहेऊ? ||24|| एवमुक्तन्यायेन, प्रतिमाकल्पोऽनन्तरोक्तः, चिन्त्यमानो विचार्यमाणः, तुशब्दोऽवधारणे भिन्नक्रमश्व, निपुणदृष्ट्या तु सूक्ष्मबुद्ध्यैव, आन्तरभावविहीनः परमार्थवियुक्त एव, कथं? न कथञ्चिदित्यर्थः। भवति स्यात्, विशिष्टगुणहेतुः पारमार्थिकोपकारनिमित्तम् / प्रयोगश्वात्रयदान्तरभाववियुक्तं तद्विशिष्टगुणहेतुर्न भवति, यथा पश्चाग्नितपःप्रभृति, आन्तरभाववियुक्तश्चायम्। इति गाथाचतुष्कार्थः / / 24 // अत्रोत्तरमाहभण्णइ विसेसविसओ, एसो ण उ ओहओ मुणेयव्वो। दसपुव्वधराईणं,जम्हा एयस्स पडिसेहो // 25|| भण्यते अभिधीयते, समाधिः विशेषविषयः पुरुषविशेषगोचरः, एष प्रतिमाकल्पः, नतुन पुनः, ओघतः सामान्यतः (मुणेयव्वो त्ति) ज्ञातव्यः। कुत एतदेवमित्याह-दशपूर्वधराऽऽदीनां दशैकादशाऽऽदिपूर्वधराणाम, यस्माद्यतः एतस्य प्रतिमाकल्पस्य, प्रतिषेधोऽस्ति। तन्निषेधश्च- ''गच्छे चिय निम्माओ, जा पुव्वा दस भवे असंपुण्णा'' इति वचनात्। दशपूर्वधराऽऽदयो हि गच्छ एव वसन्तः उपकारकारकाः, अतः प्रतिमाकल्पे गुरुलाघवाऽऽदिचिन्ता नास्तीत्ययुक्तम् / इति गाथाऽर्थः // 25||

Page Navigation
1 ... 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636