Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भोयण 1614 - अभिधानराजेन्द्रः - भाग 5 भोयण पाप परिणामविसुद्धीए, अनिन्जरा होअगइहिए वि॥५२५।। इच्छेत् कश्चित् साधुर्नेच्छेद् वा तथाऽपि प्रयत्नेन सद्भावेन निमन्त्रयेत् साधून एवं सद्भावेन निमन्त्रयतः परिणामविशुद्ध्या चित्तनर्मल्याद् निर्जरा भवति कर्मक्षयलक्षणा अगृहीते अपि भुक्ते। अथावज्ञया निमन्त्रयति ततश्चायं दोषःभरहेरवयविदेहे, पन्नरस वि कम्मभूमिगा साहू। इक्कम्मि हीलियम्मि, य, सव्वे ते हीलिया होंति // 526 / / सुगमम् / यदा पुनरादरण निमन्त्रयति तदाऽयं महान गुणःभरहेरवयविदेहे, पन्नरस वि कम्मभूभिया साहू। इकम्मि पूइयम्मि य, सव्वे ते पूइया हुंति // 527 / / सुगमा। अत्राऽऽह परःअह को पुणाइ नियमो, एक्कम्मि विहीलियम्मि ते सव्वे / होंति अवमाणिया पूइए य संपूइया सव्वे / / 528|| अथ कः पुनरयं नियमः? यदुत एकस्मिन्नवमानिते सति सर्व एवापमानिताभवन्ति, तथा एकस्मिन् संपूजिते सति सर्व एव संपूजिता भवन्ति, न चकस्मिन् संपूजिते सर्वे संपूजिता भवन्ति, न हि यज्ञदत्ते भुक्ते देवदत्तो भुक्तो भवतीति। आचार्य आहनाणं व दंसणं वा, तवो य तह संयमो य साहुगुणा / इक्के सव्वेसु वि हीलिएसु ते हीलिया हुंति / / 526 // ज्ञानं दर्शनं च तपः तथा संयमश्च, एते साधुगुणा वर्तन्ते, एते च गुणा यथैकस्मिन् साधौ व्यवस्थिता एवं सर्वेष्वपि, एकरूपत्वात्तेषा, यतश्चैवमत एकस्मिन् साधौ हीलिते-अपमानित सर्वेषु वा साधुषु हीलितेषु ते ज्ञानाऽऽदयो गुणा हीलिता अपमानिता भवन्ति। एवमेव पूईयम्मि वि, एक्कम्मि वि पूईया जइगुणा उ! थोवं बहूनिवेसं, इति णचा पूयए मइमं // 530 / / एवमेकस्मिन् पूजितेपूजितायतिगुणाः सर्वे भवन्ति, यस्मादेवंतस्मात् स्तोकमेतद्भक्तपानाऽऽदि बहुनिवेसं बहायमित्यर्थः, निर्जराहेतुरिति, तस्मादेवं ज्ञात्वा पूजयेत् साधून्मतिमानिति, यतश्चैवमत एवमेव कर्तव्यम। एतदेवाऽऽहतम्हा जइ एस गुणो, एक्कम्मि वि पूइयम्मि ते सव्वे / भत्तं वा पाणं वा, सव्वपयत्तेण दायव्वं / / 531 / / सुगमा। वेयावचं निययं, करेह उत्तरगुणे धरिताणं / सव्वं किल पडिवाई, वेयावचं अपडिवाई / / 532 / / वैयावृत्त्य नियतं सततं कुरुत, केषाम्? उत्तरगुणान् धार यतां साधूनां | कुरुत, शेष सुगमम्। किंचपडिभग्गस्स मयस्स व, नासइ चरणं सुयं अगुणणाए। नहु वेयावचचियं, सुहोदयं नासए कम्मं / / 533 / / प्रतिभग्नस्य उन्निष्क्रान्तस्य मृतस्य वा नश्यति चरणं श्रुतमगुणनया न तु वैयावृत्यचित्तं वद्धं शुभोदयं नश्यति कर्म। किंचलाभण जोजयंतो, जइणो लाभंतराइयं हणइ। कुणमाणो य समाहिं, सव्वसमाहिं लहइ साहू // 534|| लाभेन प्राप्त्या घृताऽऽदेः योजयन् घृताऽऽदिलाभेन योजयन, कान्? यतीन् लाभान्तरायं कर्म हन्ति / तथा पादप्रक्षालनाऽऽदिना कुर्वन् समाधिं सर्वसमाधि मनसः स्वस्थतां वचो माधुर्याऽऽदिकं कायस्य निरुपद्रवताम्, एवं कुर्वन् त्रिरूपमपि सर्वसमाधि लभते। भरहो बाहुबली वि य, दसारकुलनंदणो य बसुदेवो। वेयावचाहरणा, तम्हा पडितप्पह जईणं // 535 / / सुगमा, नवरम् (पडितप्पह त्ति) वैयावृत्यं कुरुत। किंचहोज्ज व ण होज लंभो, फासुयआहारउवहिमाईणं। लंभो य निजराए, नियमेण अओ उ कायव्वं // 536 / / भवेद् वा न वा लाभः, केषां प्रासुकानाम् आहारोपध्यादीनां तथाऽपि तस्य वैयावृत्त्यर्थमभ्युद्यतस्य साधोर्विशुद्धपरिणामस्य लाभ एव निर्जराया अवश्यम्, अलाभेऽपि सति निर्जरा भवति, यस्मादेवं तस्मात्कर्त्तव्यं वैयावृत्यम्। वेयावच्चे अन्भुट्ठियस्स सद्धाएँ काउकामस्स। लाभो चेव तवसिस्स होइ अद्दीणमणसस्स / / 537 / / सुगमा, नवरं वैयावृत्ये अभ्युत्थितस्य उद्यतस्य श्रद्धया कर्तुकामस्य लाभ एव / ओघ०। (ग्रासैषणा 'एसणा' शब्दे तृतीयभागे 70 पृष्ठे प्रतिपादिता) उवजीवि अणुवजीवि, मंडलिं पुव्ववण्णिओ साहू। मंडलिअसमुद्दिसगाण ताण इणमो विहिं वोच्छं / / 547 / / तत्र मण्डल्युपजीवी साधुरनुपजीवी च पूर्वमेव द्विविधो व्यावर्णितः साधुरेकः, इदानी बहूनां मण्डल्यामसमुद्दिशकानां यो विधिः भवति तं वक्ष्ये। ते च कथं मण्डल्यामसमुद्देशका भवन्ति? अत आहआगाढजोगवाही, णिज्जूठत्तट्ठिया व पाहुणगा। सेहा सपायछित्ता, बाला बुड्ढेवमादीया।।५४८|| आगाढयोगोगणियोगः तत्स्थाये ते मण्डली नोपजीवन्ति, (निज्जूढ त्ति) अमनोज्ञाः कारणान्तरेण तिष्ठन्तितेपृथक् भुञ्जते,तथा आत्मार्थिकाश्च पृथक भुञ्जते, प्राघूर्णकाच, यतस्तेषां प्रथममेव प्रायोग्य पर्याप्त्या दीयते, ततस्तेऽपि एकाकिनो भवन्ति, शिक्षका अपि सागारिकत्वात् पृथक् भोज्यन्ते, सप्रायश्चित्ताश्च पृथक् भोज्यन्ते, यतस्तेषां शवलं चारित्रं, शवलचरित्रैः सह न भुज्यते, बालवृद्धा अप्यसहिष्णुत्वात् प्रथममेव भुञ्जते, अतस्तेऽप्येकाकिन इति, एवमाद्या मण्डल्यामसमुद्दिशका भवन्ति, आदिग्रहणात् कुष्ठव्याध्याधुपद्रुता इति।

Page Navigation
1 ... 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636