Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भोयण 1613- अभिधानराजेन्द्रः - भाग 5 भोयण एवाऽऽलोचयति, वेला वा ग्लानस्यातिक्रामति यावक्रमेणाऽऽलोचयति अत ओघत आलोचयति, अथवा-गुरुः 'उच्चातो' श्रान्तः, कुलाऽऽदिकायेण केनचित तत आंघत आलोचयत्येव कारणेरिति / का चासावाघाऽऽलोचना ? पुरकम्मपच्छकम्मे, अप्पेऽसुद्धे, य ओहमालोए। तुरियकरणम्मि जं से, न सुज्झई तत्तिअं कहए / / 516 // आकुलत्वे आपन्ने सत्येवमोघाऽऽलोचनयाऽऽलोचयतिपुरः कर्म पश्चात्कर्मच अल्पंनास्ति किचिदित्यर्थः, असुद्धेय त्ति' अशुद्धं चाल्पम्, अशुद्धमाधाकर्माऽऽद्यभिधीयते तदल्पनास्तीति, एवमोघतः- सक्षेपेणाऽऽलोचयेत् / 'तुरियकरणम्मि त्ति' त्वरिते कायें जाते सति यन्न शुद्ध्यति उक्तेन प्रकारेण तावन्मात्रमेव कथयति. एषा ओघाऽऽलोचनेति। आलोइत्ता सव्वं, सीसं सपडिग्गहं पमजित्ता। उद्यमहो तिरियम्मि, पडिलेहे सव्वओ सव्वं // 520 // एवमेषा मानसी आलोचना वाचिकी वाऽऽलोचनोक्ता, इदानीं कायिकी आलोचना भण्यते-आचार्यस्य भिक्षा दयते, एवं मनसा वाचा वाऽऽलोचयित्वा 'सर्वं निरवशेष, तथा मुखवस्त्रिकया शिरः प्रमृज्य पतद्गहं च सपटलं प्रमृज्य 'ऊर्द्ध पीठीः 'अधो' भुवि तिर्यक् तिरश्चीनं प्रत्युपेक्षेत' / निरुपयेत् सर्वतः समन्ताच्चतसृष्वपि दिक्षु सर्वनरन्तर्येण, ततः पतद्ग्रह हस्ते कृत्वा भक्ताऽऽदि गुरोर्दर्शयतीति वक्ष्यति भाष्यकृत्।। इदानीमेतामेव गाथा भाष्यकृदाह, तत्र गुरुदोषत्वात्प्रथमूर्द्धाऽऽदीनि त्रीणि पदानि व्याख्यानयन्नाह भाष्यकार:उड्ढ पुप्फफलाई, तिरियं मजारिसाणडिभाई। खीलगदारुगआवडणरक्खणट्ठा अहो पेहे!॥२७१।। उद्यानाऽऽदौ आवासिताना सतां पुष्पफलाऽऽदिपातमूर्द्ध निरूप्य ततो गुरोर्दर्शयति, तिर्यङ् मार्जारश्वडिम्भानालोक्याऽऽलोचयति, मा भूते आगच्छन्तस्तत्पात्रमुत्प्रेयं पातायिष्यन्ति आदिशब्दात्काण्डं वा केनचिद्विक्षिप्तमायाति, अतस्तिर्यग निरूप्यते, तथाऽधो निरूपयति, किमर्थ ? कदाचित्कीलको भवति, तत्राऽऽपतनम्- आरखलनं मा भूदति, अतोऽधो निरूप्य ततो भक्ताऽऽदि दर्शयति / इदानीं 'सीसं सपाडग्गहं पमज्जेत्त त्ति व्याख्यानयतिओणमओ पवडेजा, सिरओ पाणा सिरं पमज्जेज्जा। एमेव उग्गहम्मि वि, मा संकुडणे तसविणासो // 272 / / हस्तस्थे पतद्ग्रहेऽवनमतः शिरसः प्रपतेयुः प्राणिनः कदाचिदतः, शिर:-प्रथममेव प्रमार्जयेत्, एवमेव पतद्ग्रहे प्रमार्जनं कृत्वा प्रदर्शयेद्वक्ताऽऽदि, कि कारणं? 'मा संकुडणे तसविणासो त्ति / ' मा भूत्सकोचने सति पटलाना साऽऽदिविनाशा भविष्यत्यतः प्रमृज्य पतद्ग्रह भक्तं प्रदर्शयतीति। काउं पडिग्गहं करयलम्मि, अद्ध च ओणमित्ताणं / भत्तं वा पाणं वा पडिदंसिजा गुरुसगासे // 273 / कृत्वा पतद्ग्रह करतले अर्धं च शरीरस्यावनम्य पुनर्भक्तं वा प्रदर्शयेत् गुरुसकासे इति! ताहे य दुरालोइय, भत्तपाण एसणमणेसणाए उ। अठुस्सार्स अहवा, अणुग्गहादी उझाएज्जा / / 274 / / ततः कदाचिद् दुरालोचितं भक्तपानं भवति, 'नटुं बलं चलं' इत्येवमादिना प्रकारेण, तथैषणादोषः कदाचित् सूक्ष्मः कृतो भवति. अनेषणादोषो वा कश्चिदजानता, ततश्चैतेषां विशुद्धयर्थमष्टोच्छासं नमस्कार ध्यायेत, अथवा-'अनुग्रहादीति' अथवाऽनुग्रहाऽऽदिध्यायेत्, "जइ मे अणुग्गहं कुजा, साहू हुजामि तारिओ।" इत्येवमादि गाथाद्वयं कायोत्सर्गस्थो विशुद्ध्यर्थ ध्यायेत्, उत्सार्य च कायोत्सर्ग ततः स्वाध्याय प्रस्थापयत्। एतदेवाऽऽहविणएण पट्ठवित्ता, सज्झायं कुणइ तो मुहुत्तागं। पुव्वभणिया य दोसा, परिस्सगाई जढा एवं / / 521 / / विनयेन प्रस्थाप्य स्वाध्याय योगविधाविव ततः स्वाध्याय मुहूर्तमात्र करोति, जघन्यतो गाथात्रयं पठति, उत्कृष्टतश्चतुर्दशापिसूक्ष्माणप्राणलब्धिसंपन्नोऽन्तर्मुहूर्तेन परावर्त्तयति, एवं च कुर्वता पूर्वभणिता दोषा धातुक्षोभे मरणमित्येवमादयः तथा परिश्रमाऽऽदयश्च दोषाः 'जढाः' त्यक्ता भवन्तीति। दुविहो य होइ साहू, मंडलिउवजीवओ य इयरो य। मंडलिमुवजीवंतो, अच्छइ जा पिंडिया सव्वे // 522 / / सच साधुर्द्विप्रकारो मण्डल्युपजीवकः, इतरश्च अमण्डल्युपजीवकः, तत्र यो मण्डल्युपजीवकः साधुः सो हिण्डित्वा भिक्षांतावत्प्रतिपालयति यावत् पिण्डिताः एकीभूताः सर्वेऽपि साधवो भवन्ति, पुनश्च स तैः सह भुङ्क्ते। इयरोऽवि गुरुसगासं, गंतूण भणइ संदिसह भंते ! / पाहुणगखवग अतरंतबालवुड्डाणसेहाण / / 523 / / इतरोऽपि अमण्डल्युपजीवकः, तत्र यो मण्डल्युपजीवकः स साधुः गुरुसकाशं गत्वा तमेव-गुरुं भणति-यदुत हे आचार्याः ! संदिशत ददत यूयमिदं भोजनं प्राघूर्णकक्षपकाऽतरन्तबालवृद्धशिक्षकेभ्यः साधुभ्य इति। पुनश्चदिन्ने गुरुहिं तेसिं, सेसं भुजेज गुरुअणुनायं / गुरुणा संदिट्ठो वा,दाउं सेसं तओ मुंजे / / 524 / / एवमुक्तेन सता गुरुणा दत्ते सति तेभ्यः- प्राधूर्णिकाऽऽदिभ्यः यच्छेषं तद्भुञ्जीत गुरुणा अनुज्ञाते सति, यदि वा-गुरुणा संदिष्ट उक्तः, यदुत त्वमेव प्राघूर्णकाऽऽदिराः प्रयत्छ, एवमसौ साधुर्भणितः सन् दत्त्वा प्राघूर्णकाऽऽदिभ्यः ततः शेष यद् भक्तं तद् भुड्क्ते, एवं न केवलमसौ प्राघूर्णकाऽऽदिभ्यो ददाति अन्यानपि साधून्निमन्त्रयति, तत्र याद ते गृह्णन्ति ततो निर्जरा / अथ न गृह्णन्ति तथाऽपि विशुद्धपरिणामस्य निर्जरैवेति। एतदेवाऽऽहइच्छिजन इच्छिज्ज व, तह यि य पयओ नियंतए साहू।

Page Navigation
1 ... 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636