Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1587
________________ भिक्खुपडिमा 1576 - अभिधानराजेन्द्रः - भाग 5 भिक्खुपडिमा सूत्रवृद्धिभावे एवायं कल्पः कृत्य इत्युक्तमथ गच्छे सुस्थ एवेति दर्शयन्नाहवेयावच्चुचियाणं, करणणिसेहेणमंतरायं ति। तं पिहु परिहरियव्वं, अइसुहुमो होउ एसो त्ति / / 33 / / वैयावृत्त्योचिताना भक्ताऽऽधुपष्टम्भयोग्यानां गच्छाऽऽश्रितबालग्लानाऽऽदीनाम, अन्तराय इतियोगः कथं? करणनिषेधेन वैयावृत्त्यकरणसमर्थसाधूनां प्रतिमाकल्पप्रतिपत्तितो वैयावृत्त्यकरणप्रतिषेधेन, प्रतिपन्ना हि वैयावृत्त्यं न कुर्वन्ति, अन्तरायो वैयावृत्त्यव्याघातः स्यात्। प्राकृतत्वाच नपुंसकनिर्देशः / इतिकृत्वा बालाऽऽदिसौस्थ्येन गच्छसुस्थत्व एवासौ विधेयः, स्यादिति प्रकृतम्। अथ भवत्वन्तराय इति चेन्न, यतः (तं पित्ति) सोऽपि बालाऽऽदिवैयावृत्त्यान्तरायः, अपिशब्दात्तदन्योऽपि, परिहर्तव्यः परिहरणीयः कुत एतदेवमित्याह-अतिसूक्ष्मोऽतिनिपुणोऽतिसूक्ष्मदोषपरिहारात्, भवतु जायताम्, एष प्रतिमाकल्पः, इति कृत्वा, अतिसूक्ष्म एव ह्ययमन्तरायदोषो मनोदोषरहितत्वात् प्रतिमाप्रतिपत्नुः, इति गाथाऽर्थः॥३३॥ ता तीए किरियाए, जोग्गयं उवगयाण णो गच्छे। हंदि उविक्खा णेया, अहिगयरगुणे असंतम्मि // 34 // यस्माद् गच्छगतग्लानाऽऽद्यन्तरायः परिहर्त्तव्यस्तत्तस्मात् / तस्याः सूत्रदानार्थदानग्लानप्रतिचरणाऽऽदिकायाः, क्रियाया गच्छसुस्थताहेतोरनुष्ठानस्य, योग्यता सम्पादनसमर्थताम्। 'उवगयाणं ति' षष्ठ्याः सप्तम्यर्थत्वादुपगतेषु गच्छसाधुषु सत्सु (नो) नैव, गच्छे साधुगणविषया, हन्दीत्युपप्रदर्शने / उपेक्षाऽवधीरणा, ज्ञेया ज्ञातव्या / प्रतिमाप्रतिपत्तृसाधोः / अनुपेक्षक एवासावित्यर्थः / किं सर्वथैव? नेत्याह-अधिकतरगुणे प्रकृष्टतरगुणे, असत्यविद्यमाने, साधनीयतया। यदि हि विशिष्टतरगुणे सुसाध्ये सम्भवति सति (तं) गच्छस्यासम्पाद्यप्रतिमाः प्रतिपद्यते, तदोपेक्षैव गच्छस्य कृता स्यात्, तत्परिहाराच्च कल्पप्रतिपत्तौ गुरुलाघवचिन्तासहित एव कल्पः / इति गाथाऽर्थः // 34 / / अथ दीक्षणीयाभाव एव कल्पं प्रतिपद्यत इति दर्शयन्नाहपरमो दिक्खुवयारो, जम्हा कप्पोचियाण वि णिसेहो। सइ एयम्मि उ भणिओ, पयडो च्चिय पुध्वसूरीहिं / / 35|| परमः प्रकृष्टः उपकारान्तरापेक्षया / दीक्षोपकारो भव्यसत्त्वस्य दीक्षादानेनानुग्रहो, निर्वाणसुखहेतुत्वात् तस्य, तदन्यस्य पुनरन्य-- थाभूतत्वादपि, कस्मादेवमित्याह- यस्माद्यतः, कल्पोचितानामपि संहननश्रुताऽऽदिसंपदुपेतत्वेन प्रतिमाकल्पप्रतिपत्तियोग्यानामपि, आस्तामितरेषाम् निषेधो निवारणा प्रतिमाकल्पप्रतिपत्तेरिति गम्यते। सति विद्यमाने, एतस्मिन् दीक्षोपकारे, तुशब्दः पूरणे। भणित उक्तः, प्रकट एव स्फुट एव, तदभिधायकगाथायाः प्रकटत्वात्, पूर्वसूरिभिः पूर्वाऽऽचार्य द्रबाहुस्वाभ्यादिभिः किल प्रतिपन्ने कल्पे, दीक्षा नदीयते, ततः कल्पप्रतिपत्त्यवसरे समुपस्थितस्य तां विमुच्याऽपि दीक्षा दीयते, कल्पप्रतिपत्तेः सकाशाद्दीक्षादानस्य गुरुतरत्वात्, परमोपकारकं हितदिति भावेन / इति गाथार्थः // 35 // कथं प्रकट इत्याह-- अब्भुजियमेगयरं, पडिवजिउकामों सो वि पव्वावे। गणिगुणसलद्धिओ खलु, एमेव अलद्धिजुत्तो वि॥३६|| अभ्युद्यत प्रयतम्, एकतरं द्वयोरन्यतरत् मरण वा विहारं वा, तत्राभ्युद्यतमरण पादपोपगमनाऽऽदिकम, अभ्युद्यतविहारश्च प्रतिमाकल्पजिनकल्पाऽऽदिरिति / प्रतिपत्तुकामोऽभ्युपगन्तुमना यः साधुः, सोऽप्यसावपि, आस्तातमितरः, प्रव्राजयति दीक्षयति, कल्पाssदिप्रतिपत्त्यवसरे दीक्षोपस्थितं योग्यम् / किंभूतः सन्नित्याह- गणिनो गुणा यस्य, स्वा च स्वकीया चलब्धिर्यस्य स गणिगुणस्वलब्धिकः यः प्रवाजितुमुपग्रहीतुं शक्नोतीत्यर्थः / खलुक्यालङ्कारे, इतरस्य का वातेंत्याह-एवमेवेत्थमेवे प्रव्राजयत्येवेत्यर्थः। अलब्धियुक्तोऽपिस्वकीयलामविहीनोऽपि लब्धिमदाचार्यनिश्रितो यः / इति गाथार्थः // 36 // तदेवं गुरुलाघवचिन्तासहितोऽसाविति समर्थितम्, अथ यक्तर्मव्याधिक्रियां प्रव्रज्यां प्रतिपन्नस्यावस्थान्त रमुक्त तत्कुतः स्यादिति दर्शयन्नाहतं चावत्थंतरमिह, जायइ तह संकिलिट्टकम्माओ। पत्थुयनिवाहि दवा-इजह तहा सम्ममवसेयं / / 37 / / (तं च त्ति) यस्यावस्थान्तरस्य चिकित्साविशेषतुल्यः कल्प उक्त--- स्तत्पुनरवस्थान्तरमवस्थाविशेषः साधोरिह प्रव्रज्यायामधिकृतायां, जायते स्यात्, तथेति तथाप्रकारात् प्रतिमाकल्पलक्षणविशिष्टक्रियात एव क्षपणीयस्वभावात् संक्लिष्टकर्मणोऽशुभकर्मतः सकाशात् / किंवदित्याह-प्रस्तुऽतोधिकृतो दृष्टान्ततया प्राग्गाथायां लूतागृहीतो यो नृपाऽऽदिर्नरपत्यमात्यप्रभृतिस्तस्य यदृशऽऽदि सर्पदंशाग्निदाह-प्रभृतितत्प्रस्तुतनृपाऽऽदिदष्टाऽऽदि, पाठान्तरें- प्रस्तुतनृपस्य यदहिदष्टाऽऽदि तत्तथा। यथा यद्वत् तथा तद्वत्, सम्यग्यथावत्, अवसेयं ज्ञेयम् / इति गाथार्थः / / 37|| अथावस्थान्तरस्य तजनककर्मणो वा स्वरूपोपदर्श नद्वारेण तस्यैव प्रतिमाकल्पक्षपणीयतामाहअहिगयसुंदरभाव-स्स विग्घजणगं(गम) ति संकिलिहूं च। तह चेव तं खविज्जइ, एत्तो चिय गम्मए एयं // 38|| अधिकृतसुन्दरभावस्य प्रस्तुतशोभनपरिणामस्य सामान्यप्रव्रज्यानुपालनस्येत्यर्थः / विघ्नजनकं व्याघातकारकम्, इतिशब्दो हेत्वर्थोभिन्नक्रमश्व, संक्लिष्टमशुभं सुन्दरभावव्याघातकत्वात्। अतिसंक्लिष्टमिति पाठान्तरम् / चशब्दः समुचये इति कृत्वा, तथैव प्रतिमाकल्पप्रतिपत्त्यैव, तद्वयस्थान्तरं तजनकं वा कर्म, क्षप्यते निराक्रियते, प्रतिमाकल्पस्य महावीर्योल्लासत्वात् क्षपणीयत्वाच्च तवयस्येति। अथ कथमिदमवगम्यते- यदुत प्रव्रज्यां परिपालयतोऽवस्थान्तरं भवति तजनक वा क्लिष्ट कर्मास्ति, तच्चप्रतिमाकल्पादेव क्षप्यत इत्यत आह(एत्तो चिय त्ति) इत एवाऽऽप्तोपदिष्टप्रतिमाकल्पात्, गम्यतेऽवसीयते। एतदिदमवस्थान्तरं तज्जनकक्लिष्टकर्मवा कल्पाच्च तत्क्षपणम्।नह्याप्ता निरर्थक किञ्चिदुपदिशन्ति, आप्तताहानिप्रसङ्गात्। इति गाथार्थः // 38 //

Loading...

Page Navigation
1 ... 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636