Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भूगोल 1565 - अभिधानराजेन्द्रः - भाग 5 भूगोल 3, अधुवे लोए४, साइए लोए५, अणाइए लोए 6, सपज्जवसिए लोए७, अपञ्जवसिए लोए८, सुकडे त्ति वा दुक्कडे त्ति वा कल्लाणे त्ति वा पावे त्ति वा साहु त्ति वा असाहुत्ति वा सिद्धि त्ति वा असिद्धि त्ति वा निरए त्ति वा अनिरए त्ति वा जमिणं विप्पडिवन्ना मामगं धम्म पन्नवेमाणा इत्थ वि जाणह अकस्मात् / / 'इह' अस्मिन्मनुष्यलोके 'एकेषा' पुरस्कृताशुभकार्मविपाकानाभाचरणमाचारो मोक्षार्थमनुष्ठानविशेषस्तस्य गोचरो विषयः, नो सुष्टु निशान्तः परिचितो भवति, ते चापरिणताऽऽचारगोचरा यथाभूताः स्युः तथा दर्शयितुमाह-'ते' अनधीताऽऽचार गोचरा भिक्षाचरिऽया स्नानस्वेदमलपरिषह-वर्जिताः सुखविहारिभिः शाक्याऽऽदिभिरात्मसात्परिणामिताः 'इह' मनुष्यलोके आरम्भार्थिनो भवन्ति, ते वा शाक्याऽऽदयोऽन्ये वा कुशीलाः सावद्याऽऽरम्भार्थिनः, तथा विहाराऽऽरामतडागकूपकरणौद्देशिभोजनाऽऽदिभिर्धर्म वदन्तोऽनुवदन्तः, तथा जहि प्राणिन इत्येवमपरैतियन्तो, घ्नतश्चापि समनुजानन्तः, अथवा अदत्त परकीयं द्रव्यमगणितविपाकास्तिरोहित-शुभाध्यवसायाः आददति' गृह्णन्तीति। किं च-तत्र प्रथम-तृतीयव्रते अल्पवक्तव्यत्वात् पूर्व / प्रतिपाद्य ततो बहुतरवक्त-व्यत्वात् द्वितीयव्रतोपन्यास इति, अथवेति' पूर्वस्मात् पक्षान्तरोपक्षेपकः, तद्यथा-अदत्तं गृह्णन्ति, अथवा-वाचो विविधनानाप्रकारा युञ्जन्ति, तद्यथेत्युपक्षेपार्थः। अस्ति 'लोकः' स्थावरजङ्गमाऽऽत्मकः, तत्र नव खण्डा पृथ्वी सप्तद्वीपा वसुन्धरेतिवा। अपरेषां तु ब्रह्माण्डान्तर्वर्ती, अपरेषां तु प्रभूतान्येवम्भूतानि ब्रह्माण्डान्युदकमध्ये प्लवमानानि सतिष्ठन्ते, तथा सन्तिजीवाः स्वकृतङ्गलभुजः, अस्ति परलोकः, स्तो बन्धमोक्षौ, सन्ति पञ्चमहाभूतानि, इत्यादि 1 / तथाऽपरे चार्वाका आहुः- नास्ति लोको, मायेन्द्रजालस्वप्नकल्पमेवैतत्सर्व, तथा ह्यविचारितरमणीयतया भूताभ्युपगमोऽपि तेषामतो नास्ति परलोकानुयायी जीवो, नस्तः शुभाशुभे, किण्वादिभ्यो मदशक्तिवद् भूतेभ्य एव चैतन्यमित्यादिना सर्व मायाऽऽकारगन्धर्वनगरतुल्यम्, उपपत्त्यक्षमत्वादिति। उक्तं च'यथा यथाऽर्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा। यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र क वयम् ?||1|| भौतिकानि शरीराणि, विषयाः करणानि च। तथापि मन्दैरन्यस्य, तत्त्वं समुपदिश्यते // 2 // " इत्यादि। तथा साङ्ख्याऽऽदय आहु-'ध्रुवो' नित्यो लोकः, आवि- / र्भावतिरोभावमात्रत्वादुत्पादविनाशयोः, असतोऽनुत्पादात् सतश्चाविनाशात्, यदि वा-ध्रुवः निश्चलः, सरित्समुद्रभूभूधराभ्राणां निश्चलत्वात् 3 / शाक्याऽदयस्त्याहुः-अधुवो लोकोऽनित्यः, प्रतिक्षणं विशरारुस्वभावत्वात्, विनाशहेतोरभावात् नित्यस्य च क्रमयोगपद्याभ्याम् अर्थक्रियायामसामर्थ्यात्। यदि वा "अध्रुवः चलः, तथाहि-भूगोलः केषाश्चिन्मतेन नित्यं चलन्नेवाऽऽस्ते, आदित्यस्तु व्यवस्थित एव, तत्राऽऽदित्यमण्डल दूरत्वाद्ये पूर्वतः पश्यन्ति तेषामादित्योदयः, आदित्यमण्डलाधोव्यवस्थिताना मध्याह्नः ये तु दूरातिक्रान्तत्वान्न पश्यन्ति तेषामस्तमित इति / ('दिसा' शब्दे चतुर्थभागे 2523 पृष्ठे दिविभागप्ररूपणाऽवसरे "जस्स जओ आइचो उदेइ सा भवति तस्स पुष्वदिस्सा" (47, इत्यादिगाथाभिः भद्रबाहुस्वामिभिरपीत्थं सिद्धान्ति तत्वात्) 5 / अन्ये पुनः सादिको लोक इति प्रतिपन्ना; तथा चाऽऽहुः"आसीदिदं तमोभूत-मप्रज्ञातमलक्षणम्। अप्रतर्यमविज्ञेयं, प्रसुप्तमिव सर्वतः।।१।। तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गेमे। नष्टामरनरे चैव, प्रनष्टोरगराक्षसे / / 2 / / केवलं गहरीभूते, महाभूतविवर्जिते। अचिन्त्याऽऽत्मा विभुस्तत्र, शयानस्तप्यते तपः॥३॥ तस्य तत्र शयानस्य, नाभेः पद्यं विनिर्गतम्। तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् // 4 // तस्मिन् पोतु भगवान्, दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्न-स्तेन जगन्मातरः सृष्टाः / / 5 / / अदितिः सुरससानां, दितिरसुराणां मनुर्मनुष्याणाम्। विनता विहङ्गमानां, माता विश्वप्रकाराणाम् // 6 // कद्रूः सरीसृपाणां, सुलसा माता तु नागजातीनाम्। सुरभिश्चतुष्पादना-मिला पुनस्सर्वबीजानाम् / / 7 / / इत्यादि 6 / अपरे तु पुनरनादिको लोक इत्येवं प्रतिपन्नाः, यथा शाक्या एवमाहुःअनवदग्रोऽयं भिक्षवः ! संसारः, पूर्वा च कोटी न प्रज्ञायते, अविद्या निरावरणाना सत्त्वानां न विद्यते न च सत्त्वोत्पाद इति, तथा सपर्यवसितो लोको, जगत्प्रलये सर्वस्य विनाशसद्भावात्७। तथाऽपर्यावसितो लोकः, सतः आत्यन्तिकविनाशासंभवात्, "न कदाचिदनीदृशं, जगद्" इति वचनात्, तत्र येषां सादिकस्तेषां सपर्यवसितो, येषां त्वनादिकस्तेषामपर्यवसित इति, केषाशितूभयमपीति, तथा चोक्तम्-"द्वावेव पुरुषो लोके, क्षरश्चाक्षर एव च / क्षरः सर्वाणि भूतानि, कूटस्थोऽक्षर उच्यते / / 1 / / '' इत्यादि / तदेव परमार्थमजानाना अस्तीत्याद्यभ्युपगमेन लोकं विवदमानाः नानाभूता वाचो नियुञ्जन्ति, तथाऽऽत्मानमपि प्रति विवदन्ते, तद्यथा-सुष्टु कृतं सुकृतमिति वा दुष्कृतमिति वेव्येवं क्रियावादिनः सम्प्रतिपद्यन्ते, तथा सुष्टु कृतं यत्सर्वसङ्गपरित्यागतो महाव्रतमग्राहिः, तथाऽपरे दुष्कृतं भवता यदसौ मुग्धमृगलोचना पुत्रमनुत्पाद्योज्झितेति, तथा य एव कश्चित्प्रव्रज्योद्यतः कल्याण इत्येवमभिहितः स एवापरेण पाखण्डिकविप्रलब्धः क्लीवोऽयं गृहाऽऽश्रमपालनासमर्थोऽनपत्यः पाप इत्येवमभिधीयते, तथा साधुरिति वा असाधुरिति वा स्वमतिविकल्पितरुचिभिरभिधीयते, तथा सिद्धिरिति वा असिद्धिरितिया नरक इति वा, अनरक इति वा, एवमन्यदप्याश्रित्य स्वाग्रहग्रहिणो विवदन्त इति दर्शयति, 'यदिदं विप्रतिपन्ना' यत्पूर्वाक्तं लोकाऽऽदिकं तदिदमाश्रित्य विविध प्रतिपन्ना विप्रतिपन्नाः, तथा चोक्तम्"इच्छन्ति कृत्रिम सृ–ष्टिवादिनः सर्वमेवमितिलिङ्गम्। कृरनं लोक माहे-श्वराऽऽदयः सादिपर्यन्तम् / / 1 / / नारीश्वरजं केचित्, केचित्सोमाग्निसम्भवं लोकम्। द्रव्याऽऽदिषड्विकल्प, जगदेतक्तेचिदिच्छन्ति।।२।।

Page Navigation
1 ... 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636