Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1577
________________ भिक्खु 1566 - अभिधानराजेन्द्रः - भाग 5 भिक्खु किंचपंतं सयणाऽऽसणं भइत्ता, सीउण्हं विविहं च दंसमसगं / अव्वग्गमणे अपहिडे, जो कसिणं अद्दिआसए स भिक्खू / / 4 / / 'प्रान्तम्' अवमं शयनंच संस्तारकाऽऽदि आसनं च पीटकाऽऽदि शयनाऽऽसनम, उपलक्षणत्वाद्भोजनाऽऽच्छादनाऽऽदि च 'भुक्त्वा ' सेवित्वा शीतं चोष्णं च शीतोष्णम्-उक्तरूपं, चस्य गम्यमानत्वा-तच्च सवित्वा 'विविध च' नानाप्रकारं दंशाश्च मशकाश्च दंशमशकं, प्राग व्याख्यातमेव, प्राप्येति शेषः, मत्कुणाऽऽद्युपलक्षण चैतत्, अव्यग्रमना असंप्रहृष्टो यः कृत्स्नमध्योस्त स भिक्षुरिति प्राग्वत् / इह च प्रान्त शयनाऽऽसनं भुक्त्वेति अतिसात्विकतादर्शनार्थ , प्रान्तशयनाऽऽदितायां हि सुदुः सहाः शीताऽऽदयः, अनेन शीतोष्णदंशमशकपरीषहसहनमुक्तमिति सूत्रार्थः / / अपरं चनो सक्कियमिच्छई न पूअं, __ नो वि य वंदणगं कुओ पसंसं? से संजए सुव्वएतवस्सी, सहिए आयगवेसए स भिक्खू // 5 / / 'नो' निषेधे 'सत्कृतं' सत्कारमभ्युत्थानानुगमाऽऽदिरूपम् इच्छति' अभिलषति, प्राकृतत्वाच्च सूत्रे दीर्घनिर्देशः, न पूजा' वस्त्रपात्राऽऽदिभिः सपाँ, ‘नो अपि च' इति नैव च 'वन्दनकं' द्वादशाऽऽवर्ताऽऽदिरूपं, कुतः 'प्रशंसां निजगुणोत्कीर्तनरूपां? नैवेच्छतीत्यभिप्रायः, 'सः' एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतोऽत एव च सुव्रतः, सुव्रतत्वाच्च 'तपस्वी' प्रशस्यतपाः, तथा च सहितः सम्यग्ज्ञानक्रियाभ्या, यद्वा-सह हितेन-आयतिपथ्येन अर्थादनुष्ठानेन वर्तत इति सहितः, तत एव चाऽऽत्मानम्- कर्मविगमाच्छुद्धस्वरूपं गवेषयतिकथमयमित्थम्भूतो भवेदित्यन्वेषयतेयः स आत्मगवेषकः, यता-आय:सम्यग्दर्शनाऽऽदिलाभः सूत्रत्वादायतो वा-मोक्षस्तं गवेषयतीत्यायगवेषकः, आयतगवेषको वा यः स भिक्षुरिति, सूत्रार्थः / / अनेन सत्कारपुरस्कारपरीषहसहनमुक्तं. सम्प्रति स्त्रीप रीषहसहनमाहजेण पुणो जहाइ जीवियं, मोह वा कसिणं नियच्छई। नरनारिं पयहे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू / / 6 / / येन हेतुना, पुनःशब्दोऽऽस्य सर्वथा संयमघातित्वविशेषद्योतकः, 'जहाति' त्यजति जीवितं' संयमजीवितं 'मोह वा मोहनीयवा कषायनोकषायाऽऽदिरूपं कृत्स्नं समस्तं कृष्णं वा शुद्धाऽऽशयविनाशकतया 'नियच्छति' बध्नाति तदेवंविधं नरश्वनारी च नरनारि 'प्रजह्यात्' प्रकर्षण त्यजेत् यः सदा सर्वकालं तपस्वी, नच कुतूहलम्' अभुक्तभोगताया स्त्र्यादिविषयं कौतुकम्, उपलक्षणत्वाद्भुक्तभोगतायाः स्मृति च, 'उपैति' गच्छति स भिक्षुरिति सूत्रार्थः।। इत्थं परीषहसहनेन भिक्षुत्वसमर्थनात् सिंहविऽऽहा रित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाऽऽहछिन्नं सरं भोमं अंतलिक्खं, सुविणं लक्खणं दंड वत्थुविजं / अंगविगार सरस्सविजयं, ___ जो विजाहिं न जीवई स भिक्खू / / 7 / / छेदनं छिन्न वसनदशनदार्वादीना, तद्विषयशुमाशुभनिरूपिका विद्याऽपि छिन्नमित्युक्ता एवं सर्वत्र / "देवेसु उत्तमो लाभो" इत्यादि, तथा 'सर ति' स्वरस्वरूपाभिधानं, "खजं रवइ मयूरो, कुक्कुडो रिसभं सरं। हंसो रवति गंधारं, मज्झिमं तु गवेलए / / 1 / / " इत्यादि / तथा- "खजेण लहइ वितिं. कय च न विणस्सई / गावो पुत्ता य मित्ता य, नारीणं होइ वल्लहो।।१।। रिसहेण उईसरियं, सेणावचं धणाणि य।'' इत्यादि। तथा भूमिः-पृथ्वी भूमी भवं भौमभूकम्पाऽऽदिलक्षणं, यथा- 'शब्देन महता भूमिर्यदा रसति कम्पते। सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते॥१॥" इत्यादि। तथा अन्तरिक्षम्-आकाशं तत्र भवम् आन्तरिक्ष- गन्धर्वनगराऽऽदिलक्षणं, यथा-- "कपिल शस्य धाताय माञ्जिष्टे हरणं गवाम्। अध्यक्तवर्ण कुरुते, बलक्षोभ न संशयः।।१।। गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम्। सौम्या दिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम्।।२।।" इत्यादि-तथा'स्वप्न' स्वप्नगत शुभाशुभकथनं, यथा- ''गायने रोदनं ब्रूयान्नलने वधबन्धनम् / हसने शोचनं ब्रूयात्पठने कलहं तथा // 1 // " इत्यादि। तथा 'लक्षणं' स्त्रीपुरुषयोर्यथा- "चक्खुसिणेहे सुहितो, दंतसिणेहे य भोयण मिट्ठ। तयणेहेण य सोक्खं,णहणेहे होइ परमधणं॥१॥" इत्यादि। गजाऽऽदीनां च यथायथं बालुकाप्यादिविहितम् / तथा 'दंड त्ति' दण्डः यष्टिस्तत्स्वरूपकथनम्, "एकपव्वं पसंसंति दुपव्वा कलहकारिया इति, इत्यादि। तथा 'वास्तुविद्या प्रासादाऽऽदिलक्षणाभिधायिशास्त्रा-ऽत्मिका ''कुटिला भूमिजाश्चैव, वैनीका द्वन्द्वजास्तथा। लतिनो नागराशैव, प्रासादाः क्षितिमण्डनाः / / 1 / / सूक्ताः पदविभागेन, कर्ममार्गेण सुन्दराः। फलावाप्तिकरा लोके, भङ्ग भेदयुता विभोः / / 2 / / अण्डकैस्तु विविक्तास्ते, निर्गमैश्चारुरूपकैः। चित्रपत्रैर्विचित्रैश्च, विविधाऽऽकाररूपकैः // 33 // ' इत्यादि / तथा 'अङ्गविकारः' शिरः स्फुरणाऽऽदिस्तच्छुभाशुभसूचकं शास्त्रमप्यड्रविकारो यथा- 'दक्षिणाक्षिस्पन्दने प्रियं भविष्यति' इत्यादि / तथा रवरः पोदकीशिवाऽऽदिरुतरूपस्तस्य विषयः-तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, यथा- "गतिस्तारा स्वरो वामः, पोदक्याः शुभदः स्मृतः / विपरीतः प्रवेशे तु, स एवाभीष्टदायकः / / 1 / / " तथा- "दुर्गास्व-रत्रय स्याज्ज्ञातव्यं शाकुनेन नैपुण्यात्। चिलिचिलिशब्दः सफलः, सुसुमध्यश्चलचलो विफलः // 1 // " इत्यादि। ततो य एताभिर्विद्याभिर्न जीवति नैता एव जीविकाः शुभाशुभाः प्रकल्प्य प्राणान् धारयति स भिक्षुरिति सूत्रार्थः / /

Loading...

Page Navigation
1 ... 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636